श्रीवराह उवाच॥
शृणु चान्यद्वरारोहे कृष्णस्यान्यद्विचेष्टितम् ॥
द्वारकां वसमानस्य साम्बशापादिकं शृणु॥१ ॥
सुखासीनस्य कृष्णस्य पुत्रदारसुतैः सह ॥
आगतो नारदस्तत्र यदृच्छागमनो मुनिः॥
पाद्यमर्घ्यं चासनं च मधुपर्कं सभाजनम्॥
गां च दत्त्वा यथान्यायं कृतं संवादमुत्तमम् ॥३॥ ।
एकान्ते प्राप्य कृष्णं च विज्ञप्तिमकरोत्प्रभुः॥
कृष्ण किञ्चिद्वक्तुकामस्तत्त्वं शृणु महामते॥॥
साम्बनामा तव युवा पुत्रो वाग्मी तु रूपवान्॥
स्पृहणीयः सदा कान्तः स्त्रीजनस्य सुरेश्वरः॥५॥
एतास्तु वरनार्यो वै क्रीडार्थं हि सुरेश्वरः।
देवयोन्यो ददुस्तुभ्यं सहस्राणि च षोडश॥६॥
साम्बं दृष्ट्वा च सर्वासां क्षुभ्यते च मनः प्रभो ॥
एतत्तु ब्रह्मलोके च गीयते दैवतैः स्वयम् ॥ ७ ॥
त्वत्प्रियार्थं समायातः कथितुं ते सुरोत्तम ॥
श्रूयते चार्थ विद्रूपः श्लोको द्वैपायनेन वै ॥ ८ ॥
क्रियातः स्वर्गवासोस्ति नरकस्तद्विपर्ययात् ॥
पुण्यरूपं तु यत्कर्म दिशो भूमिं च संस्पृशेत् ॥ ९ ॥
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥
पुरुषश्चाविनाशी च कथ्यते शाश्वतोऽव्ययः ॥ 177.१० ॥
नरके पुरुषः प्रोक्तो विपरीतो मनीषिभिः ॥
तस्मात्साम्बं समाहूय तथा देवीगणं च तम् ॥ ११ ॥
आसनेषूपविष्टानां तासां क्षोभं च तत्त्वतः ॥
लक्षयिष्याम्यहं सर्वं सत्यं चासत्यमेव च ॥ १२ ॥
तावत्सभ्यासनान्येव स्वास्तीर्य च विभागशः ॥
सर्वास्तास्तु समाहूय आसने चोपवेश्य च ॥ १३ ॥
पश्चात्साम्बः समायातस्तस्याग्रे करसम्पुटम् ॥
कृत्वा स्थितो मुहूर्तं तु किमाज्ञापयसि प्रभो ॥ १४ ॥
दृष्ट्वा रूपमतीवास्य साम्बस्यैव वरस्त्रियः ॥
चुक्षुभुः सकला देव्य कृष्णस्यैव तु पश्यतः ॥१५॥
उत्तिष्ठतः प्रियाः सर्वा गच्छत स्वनिवेशनम् ॥
कृष्णवाक्यात्तदा देव्यो जग्मुः स्वं स्वं निवेशनम् ॥१६॥ ।
साम्बस्तत्रैव सन्तस्थौ वेपमानः कृताञ्जलिः ॥
स कृष्णो नारदं वीक्ष्य लज्जयावाङ्मुखोऽभवत् ॥ १७ ॥
कृष्णस्तु कथयामास नारदाय सविस्तरम् ॥
स्त्रीस्वभावं चरित्रं च आश्चर्यं पापकारकम् ॥ १८ ॥
क्षणो नास्ति रहो नास्ति नास्ति कृत्ये विभावना ॥
तेन नारद नारीणां सतीत्वमुपजायते ॥ १९ ॥
एकवासास्तथा गौरी श्यामा वा वरवर्णिनी ॥
मध्यं गता प्रगल्भा च वयोऽतीतास्तथा स्त्रियः ॥ 177.२० ॥
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति मुनिसत्तम ॥
स्वभाव एष नारीणां साम्बस्य शृणु कारणम् ॥ २१ ॥
अतीव मानी तेजस्वी धार्मिकोऽतिगुणान्वितः ॥ रूपकारणमुद्दिश्य गतः क्षोभं कथञ्चन ॥ २२ ॥
नारदस्त्वेवमेवं च प्रतिपूज्य हरेर्वचः ॥
अन्तरज्ञ उवाचेदं साम्बशापकरं तथा ॥ २३ ॥
यथा एकेन चक्रेण रथस्य न गतिर्भवेत् ॥
पुरुषास्वादनाच्चैवं क्षरन्ति सततं स्त्रियः ॥ २४ ॥
पुंसः सुदृष्टिपातेन कृतकृत्या भवन्ति ताः ॥
प्रद्युम्नं वीक्ष्य नार्यस्तु लज्जामापुः सुपुष्कलाम् ॥ २५ ॥
साम्बं दृष्ट्वैव ताः सर्वा अनङ्गेन प्रपीडिताः ॥
उद्दीपनविभावोऽयं तासां गन्धादिकं यथा ॥ २६ ॥
तस्मात्साम्बस्तु दुष्टात्मा तव स्त्रीणां विनाशकृत् ॥
सत्यलोके प्रवादो यस्तव जातो दुरत्ययः ॥ २७ ॥
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः ॥
साम्बत्यागात्प्रमार्ष्टुं त्वमयशः कुलनाशकम् ॥ २८ ॥
त्वमिहार्हस्यमेयात्मन्मया नु कथितं हितम् ॥
इत्युक्त्वा वचनं तत्र नारदो मौनमास्थितः ॥ २९ ॥
कृष्णः शशाप साम्बं तु विरूपत्वं भविष्यति ॥
शापयुक्तः स साम्बस्तु कुष्ठयुक्तोऽभवत्क्षणात्॥ 177.३० ॥
शरीरात्तु गलद्रक्तं पूतिगन्धयुतं सदा ॥
पशुवत्कर्तितो यस्तु तद्वद्देहोऽस्य दृश्यते ॥ ३१ ॥
ततस्तु नारदेनैव साम्बशापविनाशकः ॥
समादिष्टो महान्धर्म आदित्याराधनं प्रति ॥ ३२ ॥
साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत ॥
पूर्वाचले च पूर्वाह्ने उद्यन्तं तु विभावसुम् ॥ ३३ ॥
नमस्कुरु यथान्यायं वेदोपनिषदादिभिः ॥
त्वयोदितं रविः श्रुत्वा तुष्टिं यास्यति नान्यथा ॥ ३४ ॥
साम्ब उवाच ॥
अगम्यगमनात्पापाद्व्याप्तो यः पुरुषो भवेत् ॥
तस्य देवः कथं तुष्टो भविष्यति स वै मुने ॥ ३५ ॥
नारद उवाच ॥
भविष्यत्पुराणमिति तव वादाद्भविष्यति ॥
ब्रह्मलोके पठिष्यामि ब्रह्मणोऽग्रे त्वहं सदा ॥ ३६ ॥
सुमन्तुर्मर्त्त्यलोके च मनोः प्रकथयिष्यति ॥
साम्ब उवाच ॥
कथं पूर्वाचले गत्वा मांसपिण्डोपमः प्रभो ॥ ३७ ॥
त्वत्प्रसादान्महद्दुःखं प्राप्तस्त्वहमकल्मषः ॥
नारद उवाच ॥
यथोदयाचले देवमाराध्य लभते फलम् ॥ ३८ ॥
मथुरायां तथा गत्वा षट्सूर्ये लभते फलम् ॥
मध्याह्ने च तथा देवं फलप्रियमकल्मषम् ॥ ३९ ॥
मथुरायां च मध्याह्ने मध्यन्दिन रवौ तथा ॥
अस्तङ्गते तथा देवं सद्यो राज्यफलं भवेत् ॥ 177.४० ॥
मथुरायां तथा पुण्यमुदयास्तं रवेर्जपन् ॥
मध्याह्ने प्रयतो वाग्भिः जपन्मुच्येत पातकात् ॥ ४१ ॥
कृष्णगङ्गोद्भवे स्नात्वा सूर्यमाराध्य यत्नतः ॥
सर्वपापविनिर्मुक्तः कुष्ठादिभ्यो विमुच्यते ॥ ४२ ॥
श्रीवराह उवाच ॥
ततः साम्बो महाबाहुः कृष्णाज्ञप्तो ययौ पुरीम् ॥
मथुरां मुक्तिफलदां रवेराराधनोत्सुकः ॥ ४३ ॥
नारदोक्तेन विधिना साम्बो जाम्बवतीसुतः ॥
षट्सूर्यान्पूजयामास उदयन्तं दिवाकरम् ॥ ४४ ॥
कृत्वा योगेन चात्मानं साम्बस्याग्रे रविस्तदा ॥
वरं वृणीष्व भद्रं ते मद्व्रतख्यापनाय च ॥ ४५ ॥
यस्तोषितो नारदेन तद्वदस्व ममाग्रतः ॥
साम्ब पञ्चाशकैः श्लोकेर्वेदगृह्यपदाक्षरैः ॥ ४६ ॥
यः स्तुतोऽहं त्वया वीर तेन तुष्टोऽस्मि ते सदा ॥
स्पृष्टो देवेन सर्वाङ्गे तत्क्षणाद्दीप्तसच्छविः ॥४७॥
व्यक्ताङ्गावयवः साक्षाद्द्वितीयोऽभूद्रविर्यथा ॥
मध्याह्ने याज्ञवल्क्यस्य यज्ञं माध्यन्दिनीयकम् ॥४८॥
अध्यापयत्साम्बयुतो रविर्मध्यन्दिनोऽभवत् ॥
वैकुण्ठपश्चिमे पार्श्वे तीर्थं माध्यन्दिनीयकम् ॥ ४९ ॥
स्नात्वा मध्यन्दिनं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥
उदयास्ते ततो देवः साम्बेन सहितो विराट् ॥ 177.५० ॥
सायाह्ने कृष्णगङ्गाया दक्षिणे संस्थितस्तदा ॥
तत्र दृष्ट्वा तु सायाह्ने रविमस्तोदयं प्रभुम् ॥ ५१ ॥
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥
श्रीवराह उवाच ॥
एवं साम्बस्य तुष्टेन मध्याह्ने तु नभस्तलात् ॥ ५२ ॥
द्विधाकृतात्मयोगेन साम्बकुष्ठमपोहितम् ॥
साम्बः प्रख्याततीर्थे तु तत्रैवान्तरधीयत ॥ ५३ ॥
साम्बस्तु सह सूर्येण रथस्थेन दिवानिशम् ॥
रविं पप्रच्छ धर्मात्मा पुराणं सूर्यभाषितम् ॥ ५४ ॥
भविष्यमिति विख्यातं ख्यातं कृत्वा पुनर्नवम् ॥
साम्बः सूर्यप्रतिष्ठां च कारयामास तत्त्ववित् ॥ ५५ ॥
उदयाचलमाश्रित्य यमुनायाश्च दक्षिणे ॥
मध्ये कालप्रियं देवं मध्याह्ने स्थाप्य चोत्तमम् ॥५६॥
मूलस्थानं ततः पश्चादस्तमानाचले रविम् ॥
स्थाप्य त्रिमूर्त्तिं साम्बस्तु प्रातर्मध्यापराह्णिकम् ॥ ५७ ॥
मथुरायां तथा चैकं स्थाप्य साम्बो वसुन्धरे ॥
स्वनाम्ना स्थापयामास पुराणविधिना स्वयम् ॥ ५८ ॥
एवं साम्बपुरं नाम मथुरायां कुलेश्वरम् ॥
रथयात्रां तथा कृत्वा रविणा कथिता यदा ॥ ९९ ॥
माघमासस्य सप्तम्यां दिव्यं साम्बपुरं नराः ॥
रथयात्रां प्रकुर्वन्ति सर्वद्वन्द्वविवर्जिताः ॥ 177.६० ॥
गच्छन्ति तत्पदं शान्तं सूर्यमण्डलभेदकम् ॥
एतत्ते कथितं देवि साम्बशापसमुद्भवम् ॥ ६१ ॥
पापप्रशमनाख्यानं महापातक नाशनम् ॥ ६२ ॥
इति श्रीवराहपुराणे साम्बवचनत्रयसूर्यप्रतिष्ठानं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७ ॥