१७६

श्रीवराह उवाच ॥
पञ्चानां तु कनिष्ठो यः पञ्चालो ब्राह्मणात्मजः ॥
वाणिज्यभाण्डमादाय समूहस्य प्रसङ्गतः ॥ १ ॥
सार्थेन निष्ठितः सोऽथ धनवान्रूपवांस्ततः ॥
क्रमेण ते सर्वदेशान्विषयान् पर्वतान्नदीः ॥ २ ॥
आक्रम्य तत्र सम्प्राप्ता यत्र सा मथुरा पुरी ॥
आवासं कारयामासुः प्रभूतयवसेन्धने ॥ ३ ॥
तस्मिन्स्थाने स पाञ्चालः प्रातस्तु पुरुषैः सह ॥
तस्मिंस्तीर्थवरे स्नाप्य वस्त्रालङ्कारभूषितः ॥
ऐश्वर्यमदभावेन यानेन महता तदा ॥ ४ ॥
देवतादर्शनं कृत्वा दत्त्वा दानान्यनेकशः ॥ ९ ॥
कौतुकार्थं ततो गत्वा देवं गर्त्तेश्वरं तदा ॥
तिलोत्तमायास्तद्रूपं दृष्ट्वा मोहवशं गतः ॥ ६ ॥
धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम् ॥
वस्त्राणि बद्धरूपाणि कटकानां शतानि च ॥ ७ ॥
हारा रत्नमयास्तद्वद्ददौ लोभविमोहितः ॥
ददावगुरुसारं च सकर्पूरं सचन्दनम् ॥ ८ ॥
तस्या गृहवरे तत्र वसति स्म दिनेदिने ॥
प्रहरार्द्धे दिने जाते ततः स्वशिबिरं ययौ ॥ ९ ॥
स्नात्वा तीर्थे समीपे च कृष्णगङ्गोद्भवे सदा ॥
एवं नित्यं प्रसक्तो हि करोति द्रव्यगर्वितः ॥ 176.१० ॥
एवं तु कुर्वतस्तस्य मासषट्कं ततो गतम् ॥
अथैकदा समायातः स्नातुं तत्र सुमन्तुना ॥ ११ ॥
स्वाश्रमस्थेन दृष्टः स कृमियुक्तः समागतः ॥
कृमयो रोमकूपेभ्यः पतमाना अनेकशः ॥ १२ ॥
यावत्स्नानं स कुरुते पतते राशिमात्रकः ॥
स्नाने कृते नश्यति च सुरूपश्चाभिजायते ॥ १३ ॥
एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम् ॥
सुमन्तुस्तर्कयामास कोऽयं कस्यात्मजो युवा ॥ १४ ॥
इति चिन्तासमायुक्तस्तमपृच्छद्विशङ्कितः ॥
कस्त्वं कस्यासि सुभग का जातिः कश्च ते पिता ॥ १५ ॥
किं करोषि दिवारात्रौ ब्रूहि त्वं पृच्छतो मम ॥
पाञ्चाल उवाच ॥
पाञ्चालो ब्राह्मणसुतो वाणिज्यं च समाश्रितः ॥ १६ ॥
दक्षिणापथदेशाच्च मथुरायां समागतः ॥
निशामुषित्वा शिबिरे प्रातस्तीर्थं समाश्रितः ॥ १७ ॥
स्नात्वा महेश्वरं दृष्ट्वा त्रिगर्तेश्वरसञ्ज्ञितम् ॥
कालिञ्जरं भवत्पादौ गच्छामि शिबिरं ततः ॥ १८ ॥
सुमन्तुरुवाच ॥
आश्चर्यं तव देहेऽस्मिन्नित्यं पश्यामि निःसृतम् ॥
अस्नाते कृमिसम्पूर्णं स्नाते निर्मलवर्चसम् ॥१९॥
अस्ति किञ्चिन्महत्पापं तव प्रच्छन्नसम्भवम् ॥
अस्यां तीर्थप्रभावेण स्नानाद्गच्छति दूरतः ॥ 176.२० ॥
कालिञ्जरस्य संस्पर्शाच्छुद्धं देहं च दृश्यते ॥२१॥
निरूप्य कथयास्माकं यत्ते प्रच्छन्नकिल्बिषम् ॥ २२ ॥
तीर्थमाहात्म्याभवं च दृष्ट्वा पृच्छामि ते हितम् ॥
इति तस्य मुनेः श्रुत्वा त्रिकालज्ञस्य भाषितम् ॥ २३॥
किञ्चिन्नोवाच पृष्टोऽपि एवमेव गतः पुनः ॥
तस्यामासीत्स एकान्ते तां तु पप्रच्छ सादरम् ॥२४॥
का त्वं कस्यासि सुभगे कश्च देशः प्रियंवदे ॥
किं तत्कारणमुद्दिश्य वसस्यत्र सुखं सदा ॥ २६ ॥
इति निर्बन्धतः पृष्टा किञ्चिन्नोवाच तं प्रति ॥
पुनःपुनश्च पप्रच्छ सा प्रोवाच न किञ्चन ॥ २६ ॥
किञ्चित्कालं समास्थाय तेनोक्तं हि प्रियां प्रति ॥
त्यक्ष्यामि हि प्रियान्प्राणान्यदि सत्यं न वक्ष्यति ॥ २७ ॥
निर्बन्धं तस्य तज्ज्ञात्वा दुःखेनोवाच तं प्रति ॥
पितरौ भ्रातरश्चेति देशं ज्ञातिं ततः कुलम् ॥ २८ ॥
पञ्चालनगरी रम्या गङ्गायाश्चोत्तरे तटे ॥
तस्यां तौ पितरौ मह्यं वसतश्च यदृच्छया ॥ २९ ॥
दुर्भिक्षपीडिते राष्ट्रे गतौ तौ दक्षिणापथम् ॥
नर्मदादक्षिणे कूले ब्राह्मणानां पुरोत्तमे ॥ 176.३०॥
तस्मिन् स्थाने पितुर्मह्यं पञ्च पुत्रा मया सह ॥
जातास्तेषामहं षष्ठी कनिष्ठा विधवाऽभवम् ॥ ३१ ॥
योऽसौ कनिष्ठको भ्राता मम ज्येष्ठश्च पञ्चमः ॥
बाल एव गतो देशं धनतृष्णाप्रलोभितः ॥३२॥
तस्मिन्गतेऽथ पितरौ कालधर्ममुपेयतुः ॥
तीर्थेऽस्मिन्नस्थिपातार्थमहं सार्थैः सहागता ॥३३॥
अत्र स्नानपरा नित्यं देवब्राह्मणवन्दनम् ॥
कुर्वन्ती वशमापन्ना आसां यस्या ममेदृशम् ॥ ३४ ॥
आश्रिता कुलटाधर्मं कुलनाशो मया कृतः ॥
कुलद्वये च पुरुषा एकविंशतिसङ्ख्यया ॥ ३९॥
नीता नरकमत्युग्रं मया पापिष्ठया भृशम् ॥
एवं सा तस्य तत्सर्वं कथयित्वा तिलोत्तमा ॥३६॥
रुरोद सुस्वरं दीना स्मृत्वा पूर्वं कुलं वरम् ॥
विलप्य बहुधा रात्रौ संस्मृत्य स्वं विचेष्टितम् ॥ ३७ ॥
तस्या विलपितं श्रुत्वा स्त्रीजनः स तदागतः ॥
सान्त्वयामास तां बालां कि भद्रे रुदितं तव ॥ ३८ ॥
एतच्छ्रुत्वा स पाञ्चाल्यो मूर्च्छितो धरणीं गतः ॥
ताः स्त्रियस्तां समाश्वास्य पाञ्चाल्यं परिवार्य च ॥ ३९ ॥
तैस्तैरुपायैर्विविधैर्जीवयित्वा च तं नरम् ॥
लब्धप्राणं तु तं दृष्ट्वा पप्रच्छुर्मोहकारणम् ॥ 176.४० ॥
ततस्तेन सवृत्तान्तं कथितं च कुलं महत् ॥
तिलोत्तमासहायानां स्त्रीणामग्रे सविस्तरम् ॥ ४१ ॥
ततः स विमना जातो अगम्यागमनेन च ॥
प्रायश्चित्ते मतिरभून्निर्विण्णस्य दुरात्मनः ॥ ४२ ॥
ब्रह्महा च सुरापश्च ब्राह्मणो यदि जायते ॥
प्रायश्चित्तं विनिर्दिष्टं मुनिभिर्देहनाशनम् ॥४३॥
मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम् ॥
गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥ ४४ ॥
ब्रह्मघ्नश्च सुरापश्च स्त्रीघ्नश्च गुरुतल्पगः ॥
अगम्यागमनं कृत्वा एषां स समतामियात् ॥ ४५ ॥
इति श्रुत्वा तु पाञ्चाली ज्येष्ठभ्रातरमेव तम् ॥
द्विजेभ्यः प्रददौ सर्वमङ्गलग्नं विभूषणम् ॥४६॥
रत्नं वस्त्रं धनं धान्यं यत्किञ्चित्तत्र संस्थितम् ॥
तत्सर्वं ब्राह्मणेभ्यश्च दत्त्वाशेषं ददौ धनम् ॥४७॥
कालिञ्जरस्य भूषार्थमारामार्थं विशेषतः ॥
कृष्णगङ्गोद्भवे तीर्थे चितां कृत्वा विधानतः ॥ ४८ ॥
आत्मनश्च विशुद्ध्यर्थं प्रजज्वाल हुताशनम् ॥
इति निश्चित्य तत्रैव स्नात्वा देवं प्रणम्य च ॥ ४९ ॥
पञ्चालोऽपि विधानेन नमस्कृत्य मुनिं गुरुम् ॥
सुमन्तुं च महाभागमुपविश्याग्रतश्च सः ॥176.५०॥
मरणायोपयोग्यानि कृत्वा कर्माणि तत्र च ॥
माथुरान्स समाहूय दत्त्वा दानानि सर्वशः ॥ ५१ ॥
क्रीत्वा ग्रामांश्च तत्रैव ब्राह्मणेभ्यो ददौ तदा ॥
ईशावास्यं जपं दिव्यं जापकेभ्यः शृणोति च ॥ ५२ ॥
तेभ्योऽपि प्रददौ द्रव्यं सत्रार्थं च विभागशः ॥
और्ध्वदेहिकभागार्थं कल्पयित्वा यथाविधि ॥५३॥
स्नात्वा तीर्थे च कृष्णस्य देवं दृष्ट्वा प्रणम्य च ॥
कालिञ्जरस्य पूजार्थं सत्रार्थं परिकल्प्य च ॥ ५४ ॥
देवालयं च तत्रैव कृत्वा सन्दिश्य सार्थकान् ॥
सुमन्तोः प्रवरस्याथ पादौ जग्राह धर्मवित् ॥ ५५ ॥
देव ज्ञानं च ते दिव्यमद्भुतं लोमहर्षणम् ॥
अगम्यागमनादेव पापं जातं मम प्रभो ॥ ५६ ॥
आगतोऽहं यदारभ्य मथुरायां ततो गुरो ॥
भगिन्या सह संयोगे जातोऽयं कुलनाशकः ॥ ५७ ॥
त्वया निर्मलदृष्ट्या च वीक्षितोऽहं पुरा मुने ॥
कृमयो मम गात्रात्तु निर्गच्छन्तो हि नित्यदा ॥ ५८ ॥
कृष्णगङ्गाप्रभावेण पुनर्निर्मलतां गतम् ॥
तत्सर्वं हि त्वया दृष्टं पृष्टश्चाहं पुनः पुनः ॥ ५९ ॥
तत्सत्यं मम सञ्जातमगम्यागमपातकम् ॥
तत्पापस्य विशुद्ध्यर्थं देहत्यागं करोमि वै ॥ 176.६० ॥
अनुज्ञां देहि भो स्वामिंस्तव पादौ नमाम्यहम् ॥
विश्राव्य तस्य तत्पापं चितां दीप्य घृतोक्षिताम् ॥ ६१ ॥
प्रवेष्टुकामं तत्राग्नौ खे प्रोवाचाशरीरिणी ॥
मैवं कार्षीः साहसं च विपाप्मानौ यतश्च वाम् ॥ ६२ ॥
कस्माद्वा कस्य सन्त्रासान्मरणे कृतनिश्चयौ ॥
यत्र कृष्णस्य सञ्चारः क्रीडितं च यथासुखम् ॥ ६३ ॥
चक्राङ्कितपदा तेन स्थानं ब्रह्मसमं शुभम् ॥
अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ॥ ६४ ॥
तीर्थे च यत्कृतं पापं वज्रलेपो भविष्यति ॥
द्वावेतौ च यथावश्यं गङ्गासागरसङ्गमे ॥ ६५ ॥
सकृदेव नरः स्नात्वा मुच्यते ब्रह्महत्यया ॥
पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात् ॥ ६६ ॥
तत्पञ्चतीर्थस्नानेन समं नास्त्यत्र संशयः ॥
एकादश्यां च विश्रान्तौ द्वादश्यां सौकरे तथा ॥ ६७ ॥
त्रयोदश्यां नैमिषे च प्रयागे च चतुर्दशीम् ॥
कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते ॥ ६८ ॥
कालेष्वेषु नरः स्नात्वा सर्वपापं व्यपोहति ॥
मथुरायां च तीर्थेभ्यो विश्रान्तः पञ्चतीर्थके ॥ ६९ ॥
असिकुण्डे सरस्वत्यां तथा कालिञ्जरस्य च ॥
पञ्चतीर्थाभिषेकाच्च यत्फलं लभते नरः ॥ 176.७० ॥
कृष्णगङ्गा दशगुणं लभते च दिनेदिने ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं समुपार्जितम् ॥ ७१ ॥
सुकृतं दुष्कृतं चापि मथुरायां प्रणश्यति ॥
वराहेण पुरा चेदं पृथिव्यै कथितं शुभम् ॥ ७२ ॥
तीर्थानां गुणमाहात्म्यं महापातकनाशनम् ॥
सर्वदेवमयो योऽसौ सर्ववेदमयस्तथा ॥ ७३ ॥
अनन्तश्चाप्रमेयश्च यस्य चान्तो न विद्यते ॥
यस्य श्रोत्रैकदेशे तु आकाशो लेशमात्रकः ॥७४॥
विलीनो ज्ञायते नैव तस्य देवस्य का कथा ॥
तथा नयनयोः प्रान्ते तेजो लीनं न दृश्यते ॥ ७५ ॥
निःश्वासे च विलीनोऽसौ वायुर्नष्टो न दृश्यते ॥
खुराग्रेषु तथा लीनाः समुद्राः सप्त च प्रभोः ॥ ७६ ॥
दृश्यन्ते स्वेदसङ्काशा नाममात्रा यथा पुरा ॥
रोमकूपान्तरे लग्ना सशैलवनकानना ॥ ७७ ॥
नष्टा पृथ्वी न लभ्येत तस्माद्देवात्तु कोऽधिकः ॥
सोऽत्र तीर्थपरित्राणं कुर्वन्देवः स्वयं प्रभुः ॥ ७८ ॥
वराहः संस्थितः साक्षात्पुराणं येन सूचितम् ॥
पृथिव्याः सर्वसन्देहान् स्फोटयामास योऽव्ययः ॥ ७९ ॥
तस्य सन्दर्शनादेव सर्वपापविवर्जितः ॥
तत्क्षणादेव जायेत नात्र कार्या विचारणा ॥ 176.८० ॥
नवम्यां ज्येष्ठ शुक्लस्य स्नात्वा गङ्गोदके नरः ॥
सूकरे तु त्रिरात्रं च मानवो दीपदः सकृत् ॥ ८१ ॥
दत्त्वा दानं यथाशक्ति सर्वपापैः प्रमुच्यते ॥
कालिञ्जरे च द्वादश्यां स्नात्वा सम्पूज्य देवताम् ॥ ८२॥
द्वादशादित्यसङ्काशो विमाने च समास्थितः ॥
विष्णुना समनुज्ञातो विष्णुलोके महीयते ॥८३॥
वराह उवाच ॥
एवं सुखदशब्देन देववाण्या प्रचोदितः ॥
पाञ्चालसञ्ज्ञकस्तत्र सुमन्तुं पर्यपृच्छत ॥ ८४ ॥
अस्मद्गुरुः पिता त्वं च ब्रूहि किं करवाणि वै ॥
पावकालम्भनं मे स्यादुताहो तीर्थसेवनम् ॥ ८५ ॥
त्रिरात्रं कृच्छ्रपाराक चान्द्रायणमथापि वा ॥
तव पादाङ्किते वापि स्थित्वा मोक्षमवाप्नुयाम् ॥ ८६ ॥
आकाशभारती यत्तु तत्सत्यं नानृतं क्वचित् ॥
मया प्रत्यक्षतः पूर्वं तव गात्रेषु पातकम् ॥ ८७ ॥
दिनेदिने च स्नानात्प्राक् प्रतिगच्छति नित्यशः ॥
आश्रमे त्वं स्थितश्चात्र निर्मलश्च शशी यथा ॥८८॥
तिष्ठोपरमितः पापाद्यावत्कालं च जीवसि ॥
इयं तु भगिनी पापादुपावृत्ता सती परम् ॥ ८९ ॥
सगतिश्च विपापा च भविष्यति न संशयः ॥
श्रीवराह उवाच ॥
एवं प्रभावस्तीर्थस्य मथुरायां वसुन्धरे ॥176.९० ॥
कृष्णगङ्गोद्भवस्यापि तथा कालिञ्जरस्य च ॥
सूकरस्य च माहात्म्यं यथा ते वर्णितं पुरा ॥९१ ॥
यः शृणोति वरारोहे श्रद्धया परया युतः ॥
पठति प्रातरेवापि न स पापेन लिप्यते ॥९२॥
सप्तजन्मकृतं पापं तस्य सर्वं व्यपोहति ॥
फलं च गोशतस्यापि दत्तस्य समवाप्नुयात्॥
अमृतत्वं च लभते स्वर्गलोकं च गच्छति॥९३॥
इति श्रीवराहपुराणे कृष्णगङ्गोद्भवमाहात्म्यं नाम षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥ ।