श्रीवराह उवाच ॥
शृणु चान्यद्वरारोहे कृष्णगङ्गासमुद्भवम् ॥
यमुनास्रोतसि स्नात्वा कृष्णद्वैपायनो मुनिः ॥ १ ॥
ध्यात्वा मनसि गङ्गां तां कालिन्दीं पापहारिणीम् ॥
नित्यं च कर्म कुरुते तत्र तीर्थजलाप्लुतिम् ॥२॥
सोमवैकुण्ठयोर्मध्ये कृष्णङ्गेति कथ्यते ॥
यत्रातप्यत स व्यासो मथुरायां स्थितोऽमलः॥३॥
तत्राश्रमपदं दिव्यं मुनिप्रवरसेवितम् ॥
आगच्छन्ति सदा तत्र चातुर्मास्यमुपासितुम् ॥४॥
मुनयो वेदतत्त्वज्ञा ज्ञानिनः संशितव्रताः ॥
श्रौतस्मार्त्तपुराणेषु सन्देहो यस्य कस्यचित्॥५॥
व्यासोऽपनोदयामास नानावाक्यैः सताङ्गतिः॥६॥
कालञ्जरे महादेवं तत्र तीर्थपतिं शिवम्॥
यस्य सन्दर्शनादेव कृष्णगङ्गाफलं भवेत् ॥ ७॥
तत्र स्थितो द्वादशाब्दव्रती सङ्गविवर्जितः॥
पक्षाहारी च फलभुग्दर्शे वै पौर्णमासिके ॥८॥
गत्वा हिमालयं चासौ बदरीमभितो गतः॥
व्यासश्चर्यापरस्तत्र ध्यानयोगपरायणः ॥९॥
त्रिकालदर्शी शुद्धात्मा सिद्धत्वं प्राप्नुयात्प्रभुः॥
तस्याश्रमपदस्थस्य यद्दृष्टं ज्ञानचक्षुषा॥175.१० ।
प्रत्यक्षं कृष्णतीर्थे तु पाञ्चाल्यकुलतन्तुना।
पाञ्चाल्योऽथ द्विजः कश्चिन्नाम्ना वसुरिति श्रुतः॥ ११ ॥
दुर्भिक्षपीडितोऽत्यन्तं सभार्यो दक्षिणां गतः॥
शिवनद्या दक्षिणे तु कूले स वरपत्तने॥१२॥
निवासमकरोत्तत्र ब्राह्मणीं वृत्तिमाश्रितः॥
तत्रस्थस्य तदा पञ्च पुत्राः कन्याभवंस्तदा॥१३॥
ब्राह्मणाय च दत्ता सा धनधान्यसमन्विता ॥
स द्विजः कालसम्पन्नः सभार्यस्तत्र संस्थितः ॥ १४ ॥
कन्याऽस्थीनि तु सङ्गृह्य मथुरामाजगाम ह ॥
श्रुत्वा पुराणे पतितमर्द्धचन्द्रेऽस्थिपातनम्॥१५॥
नित्यं स्वर्गे वसति स यस्यास्थि ह्यर्द्धचन्द्रके॥
तीर्थयात्राप्रसङ्गेन लोकैः प्रचलिता बहिः॥१६॥
तेन सार्थेन सा कन्या मथुरायां जगाम च ॥
कनिष्ठा भगिनी तेषां बालरण्डा बभूव ह ॥ १७ ॥
सुरूपा सुकुमाराङ्गी नीलकुञ्चितमूर्द्धजा ॥
कदलीकाण्डसङ्काशे तस्या ऊरू सुमांसले ॥ १८ ॥
सुश्लिष्टाङ्गुलिपादा तु नखास्ताम्रोज्ज्वलाः शुभाः ॥
गम्भीरा दक्षिणावर्त्ता नाभिस्त्रिवलि .शोभिता ॥१९॥
क्षामोदरी समकुक्षिः पीनोन्नतपयोधरा ॥
कम्बुग्रीवा संवृतास्या सुदती स्वधराहनुः ॥175.२० ॥
सुनखी स्वक्षिणी सुभ्रूः सुप्रमाणा सुभाषिणी ॥
तेन तेनैव सम्पूर्णरूपेण च तिलोत्तमा ॥ २१ ॥
यं यं पश्यति चार्वङ्गी यस्तां चैव प्रपश्यति ॥
स स चित्र इव न्यस्तो विचेता जायते नरः ॥ २२ ॥
एवंविधा तत्र तत्र तीर्थस्नानपरायणा ॥
दृष्टा वेश्यासमूहेन प्रागल्भ्येन तदा क्वचित् ॥ २३ ॥
कान्यकुब्जाधिपो राजा क्षत्रधर्मे व्यवस्थितः ॥
तस्य सत्रं सर्वकालं देवगर्त्तेश्वरे शिवे ॥ २४ ॥
प्रवर्त्तते सुवित्ताढ्य प्रेक्षणीयं मनोरमम् ॥
वादित्राणि च गीतानि शक्रस्य भवने यथा ॥ २५ ॥
तस्य देवस्य या वेश्यास्ताभिः सा प्रतिलोभिता ॥ २६ ॥
गीतनृत्यादिषु रता तासां धर्ममुपागता ॥
अल्पैस्तु दिवसैः साध्वी असाध्वीभिः परीवृता ॥ २७ ॥
एवं वसति सा बाला देवस्यास्य परिग्रहा ॥
यथासुखं समेताभिर्विहरन्ती दिनेदिने ॥ २८ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये कृष्णगङ्गाकालिञ्जरप्रभावे पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥