१७३

श्रीवराह उवाच ॥
तत्र स्थित्वा यथान्यायं गोकर्णः सर्वमङ्गलम् ॥
शुकं च मातापितरौ साधुभार्याचतुष्टयम् ॥ १ ॥
सम्मान्य पूजयामास यथाविभवशक्तितः ॥
मथुरावासिभिर्लोकैरुद्यानं कारयंस्तदा ॥ २ ॥
स्वयं च कृतवांस्तत्र अविघ्नस्य महामखम् ॥
भक्ष्यभोज्ये ब्राह्मणेभ्यो ददौ दानानि नित्यशः ॥३॥
गीतवादित्रमङ्गल्यं पुत्रवृद्धौ यथोचितम् ॥
तत्सर्वं कृतवाँल्लोको गोकर्णस्य महात्मनः॥४॥
एकैकं च परिष्वज्य प्रणिपत्य यथाक्रमम् ॥
मातापित्रोः प्रणम्याथ शिरसा पादपङ्कजे ॥५॥
शुकं हृदि समालोक्य प्ररुरोद स वै वणिक् ॥
यस्य प्रसादाज्जीवश्च धर्मश्चानुत्तमा गतिः ॥ ६ ॥
विशिष्टेन मया प्राप्तो राज्ञो लाभः सुपुष्कलः ॥
शुक पुत्रान्मया प्राप्तमिह लोके परत्र च ॥ ७ ॥
एवं वसन्सुखं तत्र गोकर्णः सह बन्धुभिः ॥
शुक नाम्ना कृतं तेन शिवस्यायतनं महत् ॥ ८ ॥
शुकेश्वरं प्रतिष्ठाप्य दिव्यं सत्रं चकार ह ॥
ब्राह्मणानां शते द्वे च मिष्टान्नवरभोजने ॥९॥
शुकसत्रमिति ख्यातं मृतो मुक्तिमवाप सः ॥
विमानवरमारुह्य स्वर्गलोकं गतः शुकः ॥173.१०॥
शुकप्रदाने गोकर्णः फलं स्नानस्य सङ्गमात्॥
श्राद्धं सुवर्णैर्गोदानं कृत्वा तस्मै ददौ च सः ॥ ११ ॥
शबराय सभार्याय तेन स्वर्गं गतश्च ह ॥
शुकोदरेण सहितो विमानवरमास्थितः ॥ १२ ॥
एतत्ते कथितं सर्वं मथुरायां महत्फलम् ॥
सरस्वतीसङ्गमस्य गोकर्णस्य शिवस्य च ॥ १३ ॥
गोकर्णस्य तु सन्तानमक्षयं धर्मतोऽव्ययम् ॥
सम्भूतं स सुखं भुक्त्वा ततो मोक्षमवाप्नुयात् ॥ १४ ॥
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये त्रयस्सप्तत्यधिकशततमोऽध्यायः॥१७३॥