श्रीवराह उवाच ॥
गोकर्णस्तु तथा चक्रे तस्मिन्नायतने शुभे ॥
प्रथमेऽह्नि यथा कृत्यमेवमेव त्रयोदश ॥ १ ॥
ता देव्यो नृत्यगीतेषु कुशलाश्चागमेऽभवन् ॥
सुरूपाश्च स्वलङ्कारा रमयन्ति दिनेदिने ॥ २ ॥
गोकर्णः सर्वभावेन गृहं विस्मृतवानसौ ॥
तथैकदा स गोकर्णस्ता देव्यश्च हतौजसः ॥ ३ ॥
विवर्णं वदना दीना भग्नालङ्कारवाससः ॥
हीनाङ्गा लुञ्चितशिरः केशपक्ष्मनखादयः ॥ ४ ॥
दृश्यन्ते विकृताकाराः सव्रणा रुधिरस्रवाः ॥
ता दृष्ट्वाऽतीवदुःखार्त्ताश्चक्रे मनसि वेदनाम् ॥ ५ ॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ॥
मम सङ्गादिमा देव्यो दशमीं च दशां गताः ॥ ६ ॥
एवं ज्ञात्वा स पप्रच्छ तासां रूपविपर्ययम् ॥
कथयध्वं महाभागाः किमेतद्रूपव्यत्ययम् ॥ ७ ॥
देव्य ऊचुः ॥
अप्रष्टव्यं महाभाग दैवः सर्वेषु कारणम् ॥
कालात्मकः स भगवान्भुज्यते सुकृतं यतः ॥ ८ ॥
स एव नित्यकालं च पृच्छति स्म तदुत्तरम् ॥
दुःखार्त्तस्य सुदीनस्य न जल्पन्त्यतिदुःखिताः ॥ ९ ॥
निश्चयार्थं पुनः सोऽथ गोकर्णस्ताः प्रणम्य च ॥
पृच्छत्याग्रहरूपेण निश्चयं विन्दते यथा ॥ 172.१० ॥
यदि गोप्यं ममार्त्तस्य वैरूप्यं कथयिष्यथ ॥
अगाधे दुस्तरे प्राणांस्त्यक्ष्याम्यद्य सुदुःखितः ॥ ११॥
एवमुक्ते तदा तासां मध्ये एकाऽब्रवीदिदम् ॥
दुःखं तस्य समाख्येयं यो विनाशयते रुजम् ॥१२॥
शृणु वत्स वदिष्येऽहं विरूपकरणं यथा ॥
अस्माकं च समुत्पन्नमेकचित्तोऽवधारय ॥ १३ ॥
आस्ते मधुपुरी रम्या नृणां मुक्तिप्रदायिनी ॥
अयोध्याधिपतिर्वीरश्चतुरङ्गबलान्वितः ॥१४॥
चातुर्मास्यं तीर्थसेवी स गतो भक्तिपूर्वकम् ॥
विष्णोर्देवस्य चागारं पञ्चसङ्ख्यासमन्वितम् ॥ १५ ॥
आरामवाटिकाः शुभ्राः प्राकारवरवेष्टिताः ॥
कूपप्रावर्त्तकोपेताः पुष्पजात्यः सुवासिताः ॥१६॥
फलवन्तो द्रुमास्तस्मिन्सर्वर्त्तुसुमनोहराः ॥
तस्याभ्याशे स राजर्षिश्चकारावासमुत्तमम् ॥ १७ ॥
सेवकैर्नाशितः सर्वं आरामः सफलद्रुमः ॥
प्राकारपरिखा चैव स्थण्डिलप्रतिमा कृता ॥ १८ ॥
बहुधा वार्यमाणैस्तु पापबुद्धिसमाश्रितैः ॥
एवं तेन कृतं तत्र सोऽपि दैववशङ्गतः ॥१९॥
पञ्जरस्थो यथा सिंहः कोऽस्मांस्त्राता भवेदिति ॥
पिधायाञ्जलिना वक्त्रमश्रुक्लिन्नस्तनान्तरा ॥ 172.२० ॥
रुरोदोच्चैः स्वरं दीना हा कष्टमिति जल्पती ॥
सर्वासां रुदतीनां च कुररीणामिव स्वनः ॥ २१ ॥
श्रूयते बहुधाकारो गोकर्णोऽप्यतिदुःखितः ॥
एकैकस्यास्तु चक्रेऽसौ मूर्ध्ना पादाभिवन्दनम् ॥ २२ ॥
प्राञ्जलिर्दीनया वाचा सान्त्वयामास ताः शनैः ॥
प्राप्तसञ्ज्ञास्तु ताः सर्वाः गोकर्णोऽप्याह सुस्वनः ॥ २३ ॥
भविता यदि तत्राहं राजानं तं निवारयम् ॥
किं करिष्यामि दैवेन समर्थोऽप्यवसादितः ॥२४॥
इत्युक्तमात्रे वचने ताः सर्वा लब्धचेतसः ॥
ऐक्यभावेन ताः सर्वाः पप्रच्छुर्वणिजं प्रति ॥
कस्त्वं कथय कस्माच्च स्थानाद्यत्त्वमिहागतः ॥ २५ ॥
गोकर्ण उवाच ॥
गोकर्णोऽहं सुचार्वास्यः सुकपोलो ऽब्रवीन्मया ॥
पूर्वं दृष्टा भवत्यो वै चार्वङ्ग्यश्चारुलोचनाः ॥ २६ ॥
इदानीं मलिना जाता मम शोकविवर्द्धनाः ॥
कथयध्वं ममात्मानमत्र हेतुमनन्तरम् ॥ २७ ॥
ज्येष्ठा सोवाच तस्याग्रे पुष्पजात्या स्वलङ्कृताः ॥
वयमारामसंस्थाश्च स्वामिना परिपालिताः ॥ २८ ॥
हृद्यवेषाः सुचार्वङ्ग्यः पुष्पवृद्धिरताः तदा ॥
पूर्वं द्रष्टाः सुरूपाश्च विपर्ययमथो शृणु ॥ २९ ॥
राजलोकैः पीडिताश्च च्छेदनोन्मूलनेन च ॥
पीडिता भृशमुद्विग्नास्तेनेदानीं सकल्मषाः ॥ 172.३० ॥
पुष्पमालाविहीनाश्च मूलस्कन्धावशेषिताः ॥
एवंविधाश्च सम्भूता नष्टसञ्ज्ञाः स्थिता वयम् ॥ ३१ ॥
यो देवस्तत्र पाषाणो मृत्पिण्डेष्टकयन्त्रितः ॥
सोऽत्र सत्त्वमयः साक्षी तस्य पुण्यस्य कर्मणि ॥ ३२॥
पुण्यं सोदकपूर्णोऽयं तस्यारामस्य सेचकम् ॥
सरश्चोत्पलपूर्णं च कलहंसैर्युतं सदा ॥ ३३ ॥
ये च वृक्षाः फलोपेतास्ते सौवर्णाश्च सत्तम ॥
एता रक्षन्ति सततमारामं सुखदं नृणाम् ॥
तस्या नाशाद्यथा नोऽत्र जातेयं च विरूपता ॥३४॥
गोकर्ण उवाच ॥
आरामकर्तुः किं चात्र फलं भवति यादृशम् ॥
करणात्कूपदेवानां तस्य पुण्यफलं वद ॥ ३५ ॥
ज्येष्ठोवाच ॥
इष्टापूर्त्तं द्विजातीनां प्रथमं धर्मसाधनम् ॥
इष्टेन लभते स्वर्गं पूर्त्ते मोक्षं च विन्दति ॥ ३६ ॥
वापीकूपतडागानि देवतायतनानि च ॥
पतितान्युद्धरेद्यस्तु स पूर्त्तफलमश्नुते ॥ ३७॥
भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः ॥
ते लोकाः प्राप्यते पुम्भिः पादपानां प्ररोहणे ॥३८॥
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश पुष्पजातीः ॥
द्वे द्वे तथा दाडिममातुलिङ्गे पञ्चाम्ररोपी नरकं न याति ॥ ३९ ॥
यथा सुपुत्रः कुलमुद्धरेद्धि यथाऽतिकृच्छ्रान्नियमप्रयत्नात् ॥
तथाऽत्र वृक्षाः फलपुष्पभूताः स्वं स्वामिनं नरकादुद्धरन्ति ॥172.४० ॥
गोकर्ण उवाच ॥
इन्धनार्थं यदानीतमग्निहोत्रं तदुच्यते ॥
छायाविश्रामपथिकैः पक्षिणां निलयेन च ॥ ४१ ॥
पत्रमूलत्वगाद्यैश्च औषधार्थं तु देहिनाम् ॥
उपकुर्वन्ति वृक्षस्य पञ्चयज्ञः स उच्यते ॥ ४२ ॥
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहास्तथा ॥
यत्र निर्वर्त्तनं प्रोक्तं भिक्षा पत्रैः समीकृता ॥ ४३ ॥
फलन्ति वत्सरे मध्ये द्विवारं शकुनादयः ॥
सांवत्सरं पितुर्मातुरुपकारं फलैः कृतम् ॥
एवं पुत्रसमारोपा एवं तत्त्वविदो विदुः ॥ ४४ ॥
श्रीवराह उवाच ॥
एवमुक्तस्तया देव्या मालत्या पुष्पजातया ॥
हा कष्टं कथमित्येव मुमोह च पपात ह ॥ ४५ ॥
ताभिराश्वासितो धीमान्ससञ्ज्ञो वारिणोक्षितः ॥
आत्मानं कथयास्माकं यस्माच्च त्वमुपागतः ॥ ४६ ॥
गोकर्ण उवाच ॥
वृद्धौ च मातापितरौ साधु भार्याचतुष्टयम् ॥
मथुरायां ममैवतदुद्यानं देवतागृहम् ॥४७॥
यदि तत्र गतश्चाहं पितृराज्ञोस्तु सन्निधौ ॥
इमामापदमापन्ना यूयं तद्वै निवेदये ॥४८॥
ज्येष्ठा प्रोवाच नेष्यामि यदि ते रोचतेऽनघ ॥
अद्यैव मथुरां देवीमवेक्ष्यामोऽधिगम्यताम् ॥ ४९ ॥
विमानप्रतिमाकारं यानमारुह्य सत्वरः ॥
दिव्यानीमानि रत्नानि भूषणानि फलानि च ॥ 172.५० ॥
गृह्णीष्वोपायनं राज्ञे तस्मै त्वं देह्यनर्घ्यकम् ॥
आरुह्य स तथेत्युक्त्वा नमस्कृत्य हरिं च ताः ॥५१॥
उत्पपात ततः स्थानाद्यत्र राजा व्यवस्थितः ॥
राज्ञे निवेदयामास रत्नानि सुबहूनि च ॥ ५२ ॥
राजा दर्शनमात्रेण सन्तुष्टः सोब्रवीदिदम् ॥
स्वागतं ते महाभाग सम्मान्य परिपूज्य च ॥ ५३ ॥
अर्द्धासने कृतः प्रीत्या रत्नदो धनदो यथा ॥
अस्मात्स्थानादिदानीञ्च अपसर्प्य क्षणान्तरे ॥ ५४ ॥
आश्चर्यं दर्शयिष्यामि कथयिष्यामि चापि भोः ॥
स तथेति प्रतिश्रुत्य सेनापतिमुवाच ह ॥ ५५ ॥
मुहूर्त्तार्द्धाद्यथा याति सैन्यं तच्च तथा कुरु ॥
क्षिप्रं तत्प्रतिपद्यस्व न कालोऽत्यभ्यगाद्यथा ॥ ५६ ॥
कृतं तेन तथा सर्वं यथा राज्ञा हि भाषितम् ॥
ता देव्यो दिव्यरूपाश्च विमानकृतरूपकाः ॥ ५७ ॥
साधु साध्विति गोकर्णं प्रशशंसुः पुनः पुनः ॥
वरं दत्त्वा यथाकामं स्वस्तीत्युक्त्वा दिवं ययुः ॥ ५८ ॥
गोकर्णस्तु तदाचक्षे तत्सर्वं नृपतेः सुखी ॥
सर्वं तच्चात्मचरितं पूर्त्तधर्मस्य यत् फलम् ॥ ५९ ॥
राज्ञा तस्मै प्रदत्ताश्च ग्रामाश्चैव पुराणि च ॥
वस्त्राणि च गजाश्चैव वाजिनोऽन्यधनं बहु ॥ 172.६० ॥
आश्चर्यं परमं धर्ममारामस्य महत् फलम् ॥
श्रुत्वा सर्वं चकारासौ सार्वभौमो महीपतिः ॥६१ ॥
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये द्विसप्तत्यधिकशततमोऽध्यायः ॥ १७२ ॥