श्रीवराह उवाच ॥
शृणु देवि यथा सञ्ज्ञा विश्रान्तेः कीर्तिता पुरा ॥
राक्षसेन पुरा प्रोक्ता ब्राह्मणाय महात्मने ॥ १ ॥
पृथिव्युवाच ॥
किमर्थं राक्षसेनोक्ता सञ्ज्ञा विश्रान्तिसञ्ज्ञिता ॥
किमर्थं पृष्टवान्विप्रः सर्वं कथय मे प्रभो ॥ २ ॥
श्रीवराह उवाच ॥
उज्जयिन्यामभूद्विप्रः सदाचारविवर्जितः ॥
न स पूजयते देवान्न स साधून्नमस्यति ॥ ३ ॥
पुण्यतीर्थं समासाद्य न च स्नानं करोति सः ॥
वेदवेदाङ्गरहितः परदाररतः सदा ॥ ४ ॥
सन्ध्ये द्वे शयने चैव नित्यं मूढः स तिष्ठति ॥
न स देवमनुष्यांश्च पितॄन्पूजयते सदा ॥ ५ ॥
पापाचाररतो नित्यं पापसङ्गः सुदुर्मतिः ॥
गार्हस्थ्यधर्ममाश्रित्य मोहितो वर्त्तते सदा ॥ ६ ॥
गार्हस्थ्यं सर्वधर्माणां श्रेष्ठमुक्तं स्वयम्भुवा ॥
यावन्ति जन्तवः सर्वे यथा गोः सर्वतः स्थिताः ॥ ७ ॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ॥
एवं गार्हस्थ्यमाश्रित्य सर्वे जीवन्ति जन्तवः ॥ ८ ॥
ततः स चौर्यं कुर्वाणः पापैः सह नराधमः ॥
स च रात्रौ द्रवँल्लोकाँल्लब्धोऽसौ राजरक्षिभिः ॥ ९ ॥
पलायमानः स परमन्धकूपेऽपतत्तदा ॥
मृतोऽसौ पतितस्तत्र राक्षसत्वमुपागतः ॥ 167.१० ॥
अन्धकूपे स पतितो घोररूपोऽवसत्तदा ॥
कदाचिदथ कार्येषु महान्सार्थ उपागतः ॥ ११ ॥
तेषां मध्ये द्विजः कश्चिद्रक्षां कृत्वा वसुन्धरे ॥
रक्षोघ्नेन च मन्त्रेण सर्वं सार्थं च रक्षति ॥ १२ ॥
तत्रागत्य च रक्षस्तु ब्राह्मणं वाक्यमब्रवीत् ॥
राक्षस उवाच ॥
अहं दास्यामि ते विप्र यत्ते मनसि वर्त्तते ॥ १३ ॥
बहुकालेन सम्प्राप्तं भोजनं च यथेप्सितम् ॥
उत्तिष्ठ विप्र गच्छ त्वमन्यत्र शयनं कुरु ॥ १४ ॥
येनाहं भक्षये सार्थं यावत्तृप्तिर्भवेन्मम ॥
राक्षसस्य वचः श्रुत्वा विप्रो वचनमब्रवीत् ॥ १५ ॥
एकः सार्थं प्रयातोऽहं नोत्सृजामि कथञ्चन ॥
तस्माद्राक्षस गच्छ त्वं सार्थं मम परिग्रहम् ॥ १६ ॥
निरीक्षितुं न शक्तोऽसि मम मन्त्रबलेन हि ॥
राक्षस उवाच ॥
मम भक्ष्ये हते विप्र दोषस्तव भविष्यति ॥ १७ ॥
दयां कुरु त्वं विप्रर्षे भोजनं मम दीयताम् ॥
ततोऽपृच्छदसौ विप्रो राक्षसं दारुणं प्रति ॥ १८ ॥
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः ॥
ततश्च कथयामास कथावृत्तं पुरातनम् ॥ १९ ॥
अनाचारादि हेतोश्च राक्षसत्वमुपागतः ॥
आत्मानं कथयामास विप्राग्रे स यथायथम् ॥167.२० ॥
तस्य दुःखेन संयुक्तो विप्रोऽसौ वाक्यमब्रवीत् ॥
विप्र उवाच ॥
मित्रत्वे वर्त्तसे रक्षस्तव दास्यामि किं वद ॥ २१ ॥
आत्मना चोपकारेण प्रियं किं करवाणि ते ॥
राक्षस उवाच ॥
ददासि यदि तद्विप्र यन्मे मनसि वर्त्तते ॥ २२ ॥
मथुरायां च यत्स्नातं कृतं विश्रान्तिसञ्ज्ञके ॥
तच्च स्नानफलं देहि येन मुक्तिं व्रजाम्यहम् ॥ २३ ॥
तेन दुःखेन संयुक्तो विप्रो वाक्यमथाब्रवीत् ॥
विप्र उवाच ॥
कथं जानासि रक्षस्त्वं तीर्थं विश्रान्तिसञ्ज्ञकम् ॥ २४ ॥
कथं च सञ्ज्ञा तस्याभूत्कथय त्वं हि राक्षस ॥
राक्षस उवाच ॥
पुरी उज्जयिनी नाम्ना तस्यां वासो हि मे सदा ॥ २५ ॥
कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम् ॥
तस्याग्रे तिष्ठते विप्रो वाचको वेदपारगः ॥ २६ ॥
विश्रान्तितीर्थमाहात्म्यं श्रावयन्स दिनेदिने ॥
तस्य श्रवणमात्रेण मम भक्तिर्हृदिस्थिता ॥२७॥
सा सञ्ज्ञा च श्रुता तत्र विश्रान्तेश्च मयाऽनघ ॥
वासुदेवो महाबाहुर्जगत्स्वामी जनार्दनः ॥ २८ ॥
विश्रामं कुरुते तत्र तेन विश्रान्तिसञ्ज्ञिता ॥
राक्षसस्य वचः श्रुत्वा विप्रो वचनमब्रवीत् ॥ २९ ॥
एकस्नानस्य हि फलं तव दत्तं च राक्षस ॥
विप्रे चेत्युक्तमात्रे च मोक्षावासमवाप सः ॥ 167.३० ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये विश्रान्तिमाहात्म्यं नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥