१६६

धरण्युवाच ॥
श्रुतानि तु महादेव तीर्थानि विविधानि तु ॥
असिकुण्डेति सञ्ज्ञेयं तन्मे त्वं कथय प्रभो ॥ १ ॥
श्रीवराह उवाच ॥
सुमतिर्नाम राजासीद्धार्मिको लोकविश्रुतः ॥
तीर्थयात्रानिमित्तेन स्वर्गलोकं गतः पुरा ॥ २ ॥
गते स्वर्गं तु नृपतौ पुत्रो राज्यं चकार ह ॥
विमतिर्नाम नाम्ना च राज्ये पैतामहे स्थितः ॥ ३ ॥
राज्यं च कुर्वतस्तस्य आगतो नारदस्तदा ॥
विष्टरं पाद्यमर्घ्यं च तस्मै दत्तं यथोचितम् ॥ ४ ॥
प्रतिगृह्य च तत्सर्वं तमुवाच स नारदः ॥
पितुर्ह्यनृणतां गत्वा स पुत्रो धर्मभाग्भवेत् ॥ ५ ॥
इत्युक्त्वा नारदस्तत्र तत्रैवान्तरधीयत ॥
नारदे तु गते राजा पप्रच्छ स्वात्ममन्त्रिणः ॥६॥
तदा किमुक्तमृषिणा नारदेन पितुः कृते ॥
आनृण्यमिति यद्वाक्यं मया बुद्धं न किञ्चन ॥ ७ ॥
मन्त्रिणश्च ततो ज्ञात्वा पितुर्मरणमेव च ॥
तीर्थयात्रानिमित्तं च तस्मै राज्ञे न्यवेदयन् ॥ ८ ॥
अतएवोक्तमानृण्यं नारदेन पितुस्तव ॥
श्रुत्वा वाक्यं तदा राजा तीर्थयात्रां चकार ह ॥ ९ ॥
विमतेर्बुद्धिरुत्पन्ना गच्छामो मथुरां पुरीम् ॥
चतुरो वार्षिकान्मासान्मथुरायां वसामहे ॥166.१०॥
सर्वाणि तत्र तीर्थानि तिष्ठन्ति विविधानि च ॥
आगते तु नृपे तत्र तीर्थान्यूचुः परस्परम् ॥११ ॥
युद्धं विमतिना सार्द्धं स्वयं कर्त्तुं न शक्नुमः ॥
कल्पग्रामं तु गच्छामो वराहो यत्र तिष्ठति ॥ १२ ॥
गतानि तत्र तीर्थानि कल्पग्रामं वसुन्धरे ॥
तत्र वाराहरूपेण स्थितोऽहं च यदृच्छया ॥ ३३ ॥
यावन्निरीक्षयाम्यग्रं तावत्तिष्ठन्ति सन्निधौ ॥
तीर्थान्यूचुः ॥
जय विष्णो जयाचिन्त्य जय देव जयाच्युत ॥१४॥
जय विश्वेश कर्त्तेश जय देव नमोऽस्तु ते ॥
श्रीवराह उवाच ॥
तीर्थैः स्तुतोऽहं वसुधे वचनं चेदमब्रुवम् ॥१५॥
वरं वृणुत भद्रं वो यद्वो मनसि वर्त्तते ॥
तीर्थान्यूचुः ॥
वराह यदि देवेश अभयं दातुमर्हसि ॥ १६ ॥
सुपापिना विमतिना कृतस्त्रासः सुदारुणः ॥
तं नियच्छस्व पापिष्ठं यदि पश्यसि नः सुखम् ॥ १७ ॥
श्रीवराह उवाच ॥
हिताय सर्वतीर्थानां हनिष्यामि महारिपुम् ॥
तत्र तीर्थनियोगेन आगतो मथुरां पुरीम् ॥१८॥
तत्रागते तु वसुधे युद्धं कृत्वा तु तेन वै ॥
तदासिना तु दिव्येन स राजा बलदर्पितः ॥
सूदितो हि मया देवि अस्यग्रं निहितं भुवि ॥ १९ ॥
असेरग्रेण तूद्धृत्य मृत्तिकां वरवर्णिनि ॥
तत्र कुण्डं महद्दिव्यं देवर्षिविधिनिर्मितम् ॥
असिकुण्डेति सञ्ज्ञा च प्राप्ता तेन वसुन्धरे ॥166.२०॥
तत्राश्चर्यं प्रवक्ष्यामि मनःकर्णसुखावहम् ॥
पश्यन्ति मनुजाः सिद्धाः सर्वपापविवर्जिताः ॥ २१ ॥
द्वादश्यां च चतुर्दश्यां श्रद्दधाना जितेन्द्रियाः ॥
फलानि तस्य पश्यन्ति लभन्ते न सुनिश्चिताः ॥ २२ ॥
तस्मिन्काले ह्यहं देवि मथुरायां समागतः ॥
तत्र तिष्ठाम्यहं भद्रे पश्चिमां दिशमाश्रितः ॥ २३ ॥
तत्र कृत्वा च हैरण्या मूर्त्तयश्च चतुर्विधाः ॥
तीर्थे वराहसञ्ज्ञे तु मथुरायां व्यवस्थिताः ॥ २४ ॥
सुदृढाः सुदृशः सुभ्रू यः पश्यति स मुच्यते ॥
एका वराहसञ्ज्ञा च तथा नारायणस्य च ॥ २५ ॥
वामनस्य तृतीया वै चतुर्थी राघवस्य च ॥
एताश्चतस्रो यः पश्येत्स्नात्वा कुण्डेऽसिसञ्ज्ञिते ॥२६ ॥
चतुःसागरपर्यन्ता क्रान्ता तेन धरा ध्रुवम् ॥
तीर्थानां माथुराणां च सर्वेषां फलमश्नुते ॥ २७ ॥
तत्र सर्वेषु तीर्थेषु असिकुण्डं महत्तरम् ॥
या सङ्ख्या कथिता पूर्वं तीर्थानां दक्षिणोत्तरे ॥ २८ ॥
असिकुण्डं समारभ्य तीर्थानुक्रमणिका वरा ॥
सुप्तोत्थितोऽपि द्वादश्यामसिकुण्डाप्लुतो नरः ॥ २९ ॥
मूर्त्तीः पश्यति यस्तास्तु ब्रह्मभूयाय कल्पते ॥
नास्तीह पुनरावृत्तिर्भवेत्कालविपर्यये ॥ 166.३० ॥
इति श्रीवराहपुराणे असिकुण्डप्रभावो नाम षट्षष्ट्यधिकशततमोऽध्यायः ॥ १६६ ॥