१६५

श्रीवराह उवाच ॥
अतः परं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यथावृत्तं प्रतिष्ठाने दक्षिणापथमण्डले ॥ १ ॥
सुशीलो नाम वैश्यस्तु तस्मिन्वसति पत्तने ॥
धनधान्यसमृद्धस्तु बहुपुत्रः कुटुम्बवान् ॥ २ ॥
कुटुम्बभरणासक्तो नित्यकालं हि तिष्ठति ॥
स्नानं दानं जपं होमं देवार्चां न करोति सः ॥३॥
क्रयविक्रयसक्तस्य कालो दीर्घो गतस्तदा ॥
कदाचिदपि पापोऽसौ न साधु गमनं गतः ॥ ४ ॥
न तेन धर्मश्रवणं कदाचिदपि संश्रुतम् ॥
देवानां ब्राह्मणानां च भक्तिस्तस्य न विद्यते ॥ ५ ॥
आत्मोदरनिमित्तं हि पापं च कुरुते सदा ॥
गच्छन्तं बहुकालं च न तं बुध्यति पापकृत् ॥ ६ ॥
न तस्य जायते बुद्धिर्दानं दातुं कदाचन ॥
तस्यैवं वसतस्तत्र प्रतिष्ठाने पुरोत्तमे ॥ ७ ॥
धनयुक्तोऽपि पापोऽसौ न ददाति कदाचन ॥
नैवान्यमतिदातारं शक्नोति च निरीक्षितुम् ॥ ८ ॥
स तु कालेन महता कुटुम्बासक्तमानसः ॥
कदाचिद्दैवयोगेन साध्वीं भार्यां प्रियान्सुतान् ॥ ९ ॥
त्यक्त्वा जगाम निधनं प्रेतत्वं समुपागतः ॥
निरुदकेषु देशेषु विच्छायेषु वनेषु च ॥ 165.१० ॥
परिभ्रमन्क्षुधाविष्टो मरुदेशं गतोऽपि सः ॥
तत्रैव च कृतावासो बहुकालं स वै वणिक् ॥ ११ ॥
कदाचिद्दैवयोगेन तत्र सार्थ उपागतः ॥
तस्य मध्ये तु वणिजो मथुरायां विनिःसृताः ॥ १२ ॥
गते सार्थे तु स वणिक् तं वृक्षं समुपाश्रितः ॥
तत्रैव वसति प्रेतो रौद्ररूपो भयानकः ॥ १३ ॥
दीर्घदंष्ट्रः सुविकटो ह्रस्वबाहुर्विभीषणः ॥
महाहनुर्विशालाक्षो बिडालसदृशाननः ॥ १४ ॥
अथ कालेन बहुना दैवयोगेन भामिनि ॥
तत्राजगाम कश्चित्तु क्रयविक्रयकारकः ॥ १५ ॥
तं दृष्ट्वा दूरतः प्रेतश्चातिहर्षेण संयुतः ॥
तत्राजगाम नृत्यन् स इदं वचनमब्रवीत् ॥१६॥
भक्ष्यभूतो ममाद्यत्वं क्व भवान्यातुमिच्छति॥
प्रेतस्य वचनं श्रुत्वा सोऽतिभीतो द्रुतङ्गतः॥१७॥
गच्छन्तं तं गृहीत्वा स प्रेतो वचनमब्रवीत् ॥
मम त्वं विहितो भक्ष्यः स्वयं प्राप्तोऽसि मानव ॥१८॥
मांसं ते भक्षयिष्यामि पिबामि तव शोणितम् ॥
इत्याकर्ण्य वचस्तस्य स वणिग्वाक्यमब्रवीत् ॥ १९ ॥
कुटुम्बभरणार्थाय सम्प्राप्तो दुर्गमाटवीम् ॥
वृद्धः पिता मम गृहे माता पत्नी पतिव्रता ॥165.२०॥
मयि सम्भक्षिते रक्षः कुटुम्बं हि मरिष्यति ॥
ततो वचनमाकर्ण्य प्रेतो वचनमब्रवीत् ॥ २१ ॥
कस्मात्स्थानात्समायातः सत्यं ब्रूहि महामते ॥ २२ ॥
विभुरुवाच ॥
गोवर्द्धनो गिरिवरो यमुना च महानदी ॥
तयोर्मध्ये पुरी रम्या मथुरा लोकविश्रुता ॥ २३ ॥
तस्यां वसाम्यहं प्रेत पितृपैतामहे गृहे ॥
तत्र मे वसतो नित्यं यद्द्रव्यं पूर्वसञ्चितम् ॥ २४ ॥
तत्सर्वं तस्करैर्नीतं क्षीणवित्तोऽभवं तदा ॥
स्वल्पं वित्तं गृहीत्वा ऽहं समायातो मरुस्थलम् ॥ २५ ॥
तव दृष्टिपथं यातो यत्कार्यं तत्कुरुष्व मे ॥ २६ ॥
प्रेत उवाच ॥
न त्वां खादितुमिच्छामि कृपा मे जायते त्वयि ॥
समयेन हि मोक्ष्यामि कुरुष्व वचनं मम ॥ २७ ॥
निर्वृत्य गच्छ मथुरां मम कार्यार्थसाधकः ॥
तत्र गत्वा त्वया कार्यं यत्कर्तव्यं वदामि तत् ॥२८॥
स्नानं कृत्वा तु विधिवत्कूपे चातुःसामुद्रिके ॥
पिण्डदानं कुरुष्व त्वं मम नाम्ना प्रयत्नतः ॥२९॥
स्नानस्य च फलं देहि ततो गच्छ यथासुखम् ॥
प्रेतवाक्यं ततः श्रुत्वा विभुर्वचनमब्रवीत्।165.३०॥
नाहं यास्यामि मथुरां द्रव्याभावे कथञ्चन ॥
भक्षयस्व शरीरं मे ततस्तृप्तिमवाप्स्यसि ॥३१॥
प्रेत उवाच ॥
गृहे बहुधनं तेऽस्ति त्वं गच्छ मम सत्कुरु ॥
आस्ते धनमपर्याप्तं गच्छ त्वं मा विलम्बय ॥३२॥
विभुरुवाच ॥
गृहे मम धनं नास्ति यत्त्वया समुदीरितम् ॥
गृहशेषं मम धनं न चान्यत्तत्र विद्यते ॥ ३३ ॥
पितृपैतामही कीर्त्तिरविक्रेया हि सा मया ॥
प्रेतः प्रहस्य सानन्दमिदं वचनमब्रवीत् ॥ ३४ ॥
अस्ति चैव धनं प्रोक्तं यन्मया त्वद्गृहे विभो ॥
सुवर्णभारो गर्त्तस्थो गृहे तिष्ठति सञ्चितः ॥ ३५ ॥
निवर्त्त गच्छ सन्तुष्टः सुहृदां प्रीतिवर्द्धनः ॥
एवं द्रक्ष्यामि ते मार्गं मथुरा येन गम्यते ॥ ३६ ॥
सूत उवाच ॥
वणिग्घृष्टमना भूत्वा पुनर्वचनमब्रवीत् ॥
इमामवस्थां सम्प्राप्य कथं ज्ञानसमुद्भवः ॥ ३७ ॥
ततः स कथयामास यद्वृत्तं हि पुरातनम् ॥
प्रतिष्ठाने पुरवरे विष्णोरायतनं महत् ॥ ३८ ॥
प्रभातसमये तत्र विष्णोरायतने शुभे ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र समागताः ॥ ३९ ॥
वाचकस्तत्र पठति कथां पौराणिकीं शुभाम् ॥
मम मित्रं च तत्रैव नित्यकालं च गच्छति॥165.४० ॥
तस्मिन्काले तु मित्रेण नीतोऽहं विष्णुमन्दिरम्।
अत्यादरेण महता सन्तोष्य च पुनः पुनः ॥४१॥
मित्रेण सह तत्रैव तस्य पार्श्वे व्यवस्थितः ॥
श्रुतो मया ततः कूपः पुण्योऽयं पापनाशनः ॥४२॥
समुद्राः किल तिष्ठन्ति चत्वारोऽत्र समागताः ॥
तस्य कूपस्य माहात्म्यं श्रुतं तत्र महत्फलम् ॥ ४३ ॥
वाचकाय ततो दानं दत्तं सर्वैर्महाजनैः ॥
मित्रेण प्रेरितो दाने मया मौनं समाश्रितम् ॥ ४४॥
मित्रेण च पुनः प्रोक्तं यथाशक्त्या प्रदीयताम् ॥
तदा मित्रमसङ्गेन दत्तो वै स्वर्णमाषकः ॥४५॥
ततः कालेन महता गतो वैवस्वतक्षयम् ॥
वैवस्वतनियोगेन ततोऽहं पूर्वकर्मभिः ॥ ४६ ॥
प्रेतत्वं समनुप्राप्तो दुस्तरं दुर्गमं महत् ॥
न दत्तं न हुतं चापि तीर्थं नैवावगाहितम् ॥४७॥
न तर्पितास्तु पितरः प्राप्तोऽहं प्रेततां ततः ॥
इत्येत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ॥ ४८ ॥
गच्छ त्वं सम्मुखस्तत्र यत्र सा मथुरा पुरी ॥
प्रेतस्य वचनं श्रुत्वा विभुर्वचनमब्रवीत् ॥ ४९ ॥
कथं धारयसे प्राणान्वृक्षमूलं समाश्रितः ॥ 165.५० ॥
प्रेत उवाच ॥
कथितं हि मया पूर्वं यद्वृत्तं हि पुरातनम् ॥
वाचकाय तु यद्दत्तं सुवर्णस्य च माषकम् ॥ ५१ ॥
तद्दानस्य प्रभावेण नित्यं तृप्तोऽस्मि वै विभो ॥
अकामेन मया दत्तं तस्येदं कर्मणः फलम् ॥ ५२ ॥
प्रेतभावं गतस्यापि न मे ज्ञानस्य विभ्रमः ॥
ततश्च स वणिक्श्रेष्ठ आगत्य मथुरां पुरीम् ॥ ५३ ॥
कृतं तेन च तत्सर्वं यथा प्रेतेन भाषितम् ॥
प्रेतोऽसौ तेन कृत्येन मुक्तिं प्राप्य दिवं गतः ॥५४॥
एतत्ते कथितं भूमे माहात्म्यं मथुराभवम् ॥
चतुःसामुद्रिके कूपे पिण्डदाने परां गतिम् ॥९५॥
तीर्थे चैव गृहे वापि देवस्थानेऽपि चत्वरे ॥
यत्र तत्र मृता देवि मुक्तिं यान्ति न चान्यथा ॥ ५६ ॥
अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ॥
तीर्थे तु यत्कृतं पापं वज्रलेपो भविष्यति ॥ ५७ ॥
मथुरायां कृतं पापं तत्रैव च विनश्यति ॥
एषा पुरी महापुण्या यस्यां पापं न विद्यते ॥ ५८ ॥
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ॥
मथुरां प्राप्य मनुजो मुच्यते सर्वकिल्बिषैः ॥ ५९ ॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ॥
तस्याधिकं भवेत्पुण्यं मथुरायां निवासिनः ॥ 165.६० ॥
परदाररता ये च ये नरा अजितेन्द्रियाः ॥
मथुरावासिनः सर्वे ते देवा नरविग्रहाः ॥ ६१ ।
बलिभिक्षाप्रदातारस्ते मृताः क्रोधवर्जिताः ॥
तीर्थस्नानरता ये च देवास्ते नरमूर्तयः ॥ ६२ ॥
यदन्येषां सहस्रेण ब्राह्मणानां महात्मनाम् ॥
एकेन पूजितेन स्यान्माथुरेणाखिलं हि तत् ॥६३॥
अनृग्वै माथुरो यत्र चतुर्वेदस्तथापरः ॥
न च वेदैश्चतुर्भिः स्यान्माथुरेण समः क्वचित् ॥६४॥
भवन्ति सर्वतीर्थानि पुण्यान्यायतनानि च ॥
मङ्गलानि च सर्वाणि यत्र तिष्ठन्ति माथुराः ॥ ६५ ॥
चतुर्वेदं परित्यज्य माथुरं पूजयेत्सदा ॥
सिद्धा भूतगणाः सर्वे ये च देवगणा भुवि ॥ ६६ ॥
मथुरावासिनो लोकान्पश्यन्ति च चतुर्भुजान् ॥
मथुरायां ये वसन्ति विष्णुरूपा हि ते नराः ॥ ६७ ॥
ज्ञानिनस्तान्हि पश्यन्ति अज्ञाः पश्यन्ति तान्न च ॥ ६८ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये कूपप्रभावे ब्राह्मणमाहात्म्यं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ १६५ ॥