अथाऽन्नकूटपरिक्रमप्रभावः ॥
श्रीवराह उवाच ॥
अस्ति गोवर्द्धनं नाम क्षेत्रं परमदुर्लभम् ॥
मथुरापश्चिमे भागे अदूराद्योजनद्वयम् ॥१॥
ह्रदं तत्र महाभागे द्रुमगुल्मलतायुतम् ॥
चत्वारि तत्र तीर्थानि पुण्यानि च शुभानि च ॥२॥
ऐन्द्रं पूर्वेण पार्श्वेन यमतीर्थं तु दक्षिणे॥
पश्चिमे वारुणं तीर्थं कौबेरं चोत्तरेण तु ॥३॥
तेषां मध्ये स्थितो भद्रे क्रीडयिष्ये यदृच्छया ॥
तत्र वै शक्रतीर्थे तु स्नानं कुर्याद्दृढ व्रतः॥४॥
मोदते शक्रलोके तु सर्वद्वन्द्वविवर्जितः॥
दक्षिणे यमतीर्थे तु स्नानं कुर्याद्यथाविधि॥ ५॥
यमस्य भवनं गत्वा मोदते कृतनिश्चयः॥
तत्राथ मुञ्चते प्राणान् लोभमोहविवर्जितः॥॥
यमलोकं परित्यज्य मम लोकं स गच्छति ॥
तत्रैव वारुणं तीर्थमासाद्य स्नानमाचरेत्॥७॥
वारुणं भवनं गत्वा मुच्यते सर्वकिल्बिषात् ॥
तथात्र मुञ्चते प्राणान्कामक्रोधविवर्जितः ॥ ८ ॥
वारुणं लोकमुत्सृज्य मम लोकं स गच्छति ॥
तत्र मध्ये च यः स्नाति क्रीडते स मया सह ॥९॥
अथाऽत्र मुञ्चते प्राणान्मम लोके स गच्छति ॥
अन्नकूटं ततः प्राप्य तस्य कुर्यात्प्रदक्षिणम् ॥164.१०॥
न तस्य पुनरावृत्तिर्देवि सत्यं ब्रवीमि ते ॥
स्नात्वा मानसगङ्गायां दृष्ट्वा गोवर्द्धने हरिम् ॥ ११ ॥
अन्नकूटं परिक्रम्य किं पुनः परिशोचति ॥
सोमवारे त्वमायां वै प्राप्य गोवर्द्धनं गिरिम् ॥१२॥
दत्त्वा पिण्डं पितृभ्यश्च राजसूयफलं भवेत् ॥
गयायां पिण्डदानेन यत्फलं प्राप्यते नरैः ॥१३॥
तत्फलं प्राप्यते तत्र नात्र कार्या विचारणा ॥
गोवर्द्धनं परिक्रम्य दृष्ट्वा देवं परं हरिम् ॥ १४ ॥
राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम् ॥ १५ ॥
पृथिव्युवाच ॥
परिक्रमोऽन्नकूटस्य विधिना क्रियते कथम् ॥
प्रभावगुणमाहात्म्यं तद्भवान्वक्तुमर्हति ॥ १६ ॥
श्रीवराह उवाच ॥
मासि भाद्रपदे या तु शुक्ला चैकादशी शुभा ॥
गोवर्द्धने सोपवासः कुर्यात्तत्र प्रदक्षिणाम् ॥१७॥
स्नात्वा मानसगङ्गायां प्रभाते उदिते रवौ ॥
गोवर्द्धनं प्रसाद्यैवं हरिं चाचलमूर्द्धनि ॥ १८ ॥
पुण्डरीकं ततो गच्छेत्कुण्डे स्नात्वा विधानतः ॥
देवान्पितॄन्समभ्यर्च्य पुण्डरीकमथार्च्य च ॥ १९ ॥
सर्वपापविनिर्मुक्तः प्रयाति भवनं हरेः ॥
कुण्डं चाप्सरसं नाम प्रसन्नसलिलाशयम् ॥ 164.२० ॥
तत्र स्नानं तर्पणं च कृत्वा फलमवाप्नुयात् ॥
राजसूयाश्वमेधानां धूतपाप्मा न संशयः ॥२१॥
तीर्थं सङ्कर्षणं नाम्ना बलभद्रेण रक्षितम् ॥
गोहत्या पूर्वसंलग्ना उत्तीर्णा तत्र दूरतः ॥२२॥
स्नानाद्गच्छति सा क्षिप्रं नाऽत्र कार्या विचारणा ॥
अन्नकूटस्य सान्निध्ये तीर्थं शक्रविनिर्मितम् ॥ २३ ॥
तत्र कृष्णेन पूजार्थमिन्द्रस्य विहतो मखः ॥
महदिन्द्रस्य चोत्थानं भक्ष्यभोज्यसमन्वितम् ॥२४॥
कृत्वा तुष्टिकरान्साक्षादिन्द्रेण सह सङ्कथा ॥
इन्द्रस्य वर्षतोऽत्यन्तं तासां पीडाकरं जलम् ॥२५॥
तासां गवां रक्षणाय धृतो गिरिवरस्तदा ॥
सोऽन्नकूट इति ख्यातः सर्वतः शक्रपूजितः ॥ २६ ॥
देवा देव्यस्तथा गावो ऋषिभिश्च समन्विताः ॥
पूजितास्तर्पिताः श्रेष्ठाः श्रमतो विष्णुना पुरा ॥ २७ ॥
तस्मिन्स्थाने तर्पणेन शतक्रतुफलं लभेत् ॥
ततः कदम्बखण्डाख्यं कुण्डं तु विमलोदकम् ॥२८॥
स्नात्वा पितॄन्समभ्यर्च्य ब्रह्मलोकमवाप्नुयात् ॥
ततो गच्छेद्देवगिरिं शतबाहुसमुच्छ्रितम् ॥२९॥
यत्र स्नानाद्दर्शनाच्च वाजपेयफलं लभेत् ॥
महादेवं ततो दृष्ट्वा गत्वा ध्यात्वा फलं लभेत् ॥164.३०॥
कुण्डे स्नात्वा पितॄँस्तर्प्य कृतकृत्यो दिवं व्रजेत् ॥
गङ्गायाश्चोत्तरं यावद्देवदेवस्य चक्रिणः ॥ ३१ ॥
अरिष्टेन समं यत्र महद्युद्धं प्रवर्त्तितम् ॥
घातयित्वा ततश्चेममरिष्टं वृषरूपिणम् ॥ ३२ ॥
कोपेन पार्ष्णिघातेन मह्यां तीर्थं प्रवर्तितम् ॥
वृषभस्य वधाज्ज्ञेयं तीर्थं सुमहदद्भुतम् ॥३३॥
स्नातस्तत्र तदा कृष्णो वृषं हत्वा महासुरम् ॥
वृषहत्यासमायुक्तः कृष्णश्चिन्तान्वितोऽभवत् ॥।८४।
वृषो हतो मया चायमरिष्टः पापपूरुषः ॥
तत्र राधा समाश्लिष्य कृष्णमक्लिष्टकारिणम् ॥३५॥
स्वनाम्ना विदितं कुण्डं कृतं तीर्थमदूरतः ॥
राधाकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥ ३६ ॥
अरिष्टराधाकुण्डाभ्यां स्नानात्फलमवाप्नुयात् ॥
राजसूयाश्वमेधानां नात्र कार्या विचरणा ॥३७॥
गोनरब्रह्महत्यायाः पापं क्षिप्रं विनश्यति ॥
तीर्थं हि मोक्षराजाख्यं नृणां मुक्तिप्रदायकम् ॥ ३८ ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
इन्द्रध्वजोच्छ्रयं यत्र पूर्वस्यां दिशि वै कृतम् ॥ ३९ ॥
इन्द्रध्वजमिति ख्यातं तीर्थ चैवातिमुक्तिदम् ॥
तत्र स्नाता दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ 164.४० ॥
ततो हरो निवेद्याशु यात्राफलमनुत्तमम् ॥
चक्रतीर्थे नरः स्नात्वा पञ्चतीर्थाख्यकुण्डके ॥ ४१ ॥
समाप्य तीर्थयात्रां च रात्रौ जागरणं तथा ॥
गोवर्द्धने च कर्त्तव्यं महापातकनाशनम् ॥ ४२ ॥
एकादश्यां तदा रात्रौ कृत्वा जागरणं शुभम् ॥
द्वादश्यामुषसि स्नात्वा पिण्डं निर्वाप्य शक्तितः ॥४३॥
पितॄणां मुक्तिदं तेषां य एवं कुरुते नरः ॥
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति॥४४॥
एतत्ते कथितं भद्रे अन्नकूटपरिक्रमम् ॥
यथानुक्रमयोगेन तथाषाढेपि चोच्यते ॥ ४९ ॥
य एतच्छृणुयाद्भक्त्या तीर्थानुकमणं हरेः ॥
गोवर्द्धनस्य माहात्म्यं गङ्गास्नानफलं भवेत् ॥ ४६ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्यान्तर्गते गोवर्द्धनमाहात्म्येऽन्नकूटपरिक्रमप्रभावो नाम चतुःषष्ट्यषिकशततमोऽध्यायः ॥ १६४ ॥