अथ कपिलवराहमाहात्म्यम् ॥
श्रीवराह उवाच॥
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
वैकुण्ठतीर्थमासाद्य यद्वृत्तं हि पुरातनम् ॥१॥
मिथिलायां पुरी रम्या जनकेन च पालिता ॥
मिथिलावासिनो लोकास्तीर्थयात्रां समागताः ॥ २ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि वसुन्धरे ॥
स्नात्वा सौकरवे तीर्थे आयाता मधुरां पुरीम् ॥ ३ ॥
तेषां च भक्तिरुत्पन्ना मथुरां प्रति सुन्दरि ॥
वैकुण्ठतीर्थमासाद्य सर्वे ते मनुजाः स्थिताः ॥ ४ ॥
तेषां तु ब्राह्मणः कश्चिद्ब्रह्महत्यासु चिह्नितः ॥
रुधिरस्य हि धारा च स्रवन्ती तस्य हस्ततः ॥ ५ ॥
प्रत्यक्षा दृश्यते सर्वैर्ब्रह्महत्यास्वरूपिणी ॥
सर्वतीर्थप्लुतस्यापि ब्राह्मणस्य हि सा तदा ॥ ६ ॥
न गता पूर्वमेवासीद्वैकुण्ठे स्नानमाचरत् ॥
न सा वै दृश्यते धारा ततस्ते विस्मयङ्गताः॥ ७ ॥
किमेतत्किमिति प्राहुर्धारा प्रति वसुन्धरे ॥
देवो ब्राह्मणरूपेण लोकान्सर्वान् हि पृच्छति ॥ ८ ॥
केन कारणदोषेण धारा त्यक्त्वा गता द्विजम् ॥
तत्सर्वं कथयामासुर्ब्राह्मणस्य विचेष्टितम् ॥ ९ ॥
वैकुण्ठे तु निमग्नोऽयं ब्रह्महत्या गता ततः ॥
विस्मयो नात्र कर्त्तव्यस्तीर्थस्येदं महत्फलम् ॥ १६३.१० ॥
इत्युक्तस्तैर्देवदेवस्तत्रैवान्तरधीयत ॥
एष प्रभावस्तीर्थस्य वैकुण्ठस्य वसुन्धरे ॥ ११ ॥
वैकुण्ठतीर्थे यः स्नाति मुच्यते सर्वपातकैः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १२ ॥
सूत उवाच ॥
पुनरन्यत् प्रवक्ष्यामि असिकुण्डेऽतिपुण्यदे ॥
नाम्ना गन्धर्वकुण्डं तु तीर्थानां तीर्थमुत्तमम् ॥ १३ ॥
तत्र स्नातो नरो देवि गन्धर्वैः सह मोदते ॥
तत्र यो मुञ्चते प्राणान्मम लोकं स गच्छति ॥ १४ ॥
विंशतिर्योजनानां तु माथुरं मम मण्डलम् ॥
इदं पद्मं महाभागे सर्वेषां मुक्तिदायि च ॥ १५ ॥
कर्णिकायां स्थितो देवि केशवः क्लेशनाशनः ॥
कर्णिकायां मृता ये तु तेऽमरा मुक्तिभागिनः॥१६॥
तत्र मध्ये मृता ये तु तेषां मुक्तिर्वसुन्धरे ॥
पश्चिमेन हरिं देवं गोवर्द्धननिवासिनम् ॥ १७ ॥
दृष्ट्वा तं देवदेवेशं किं मनः परितप्यते ॥
उत्तरेण तु गोविन्दं दृष्ट्वा देवं परं शुभम् ॥ १८ ॥
नासौ पतति संसारे यावदाभूतसम्प्लवम् ॥
विश्रान्तिसञ्ज्ञके देवं पूर्वपत्रे व्यवस्थितम् ॥ १९ ॥
यं दृष्ट्वा तु नरो याति मुक्तिं नास्त्यत्र संशयः ॥
दक्षिणेन तु मां विद्धि प्रतिमां दिव्यरूपिणीम् ॥ १६३.२० ॥
महाकायां सुरूपां च केशवाकारसन्निभाम् ॥
तां दृष्ट्वा मनुजो देवि ब्रह्मणा सह मोदते ॥ २१ ॥
कृते युगे तु राजासीन्मान्धाता नाम नामतः ॥
तेनाहं तोषितो देवि भक्तियुक्तेन चेतसा ॥२२॥
तस्य तुष्टेन हि मया प्रतिमेयं समर्पिता ॥
तेनेयं पूजिता नित्यमात्ममुक्तिमभीप्सता ॥ २३ ॥
यदा तु मथुरां प्राप्य लवणोऽयं निपातितः ॥
तदैव प्रतिमा दिव्या मथुरायां व्यवस्थिता ॥ २४ ॥
पुण्येयं प्रतिमा दिव्या तैजसी दिव्यरूपिणी ॥
कपिलो नाम विप्रर्षिर्मम भक्तिपरायणः ॥ २५ ॥
मनसा निर्मिता तेन वाराही प्रतिमा शुभा ॥
कपिलो ध्यायते नित्यमर्चति स्म दिने दिने ॥२६॥
इन्द्रेणाराधितो देवि कपिलो मुनिसत्तमः ॥
तस्य प्रीतो ददौ देवं वराहं दिव्यरूपिणम् ॥ २७ ॥
देवे लब्धे वरारोहे शक्रो हर्षसमन्वितः ॥
ध्यायति स्म सदा देवं पूजां कृत्वा हि भक्तितः ॥ २८ ॥
इन्द्रेण तु तदा प्राप्तं दिव्यं ज्ञानमनुत्तमम् ॥
ततः कालेन महता रावणो नाम राक्षसः ॥ २९ ॥
इन्द्रलोकं गतः सोऽथ स्वर्गं जेतुं महाबलः ॥
शक्रेण सह सङ्गम्य ततो युद्धं प्रवर्तितम् ॥ १६३.३० ॥
रावणेन जिता देवाः शक्रश्चैव महाबलः ॥
बद्ध्वा चेन्द्रं महाबाहुं शक्रस्य भवनं गतः ॥ ३१ ॥
प्रविश्य रावणस्तत्र गृहे रत्नविभूषिते ॥
दृष्ट्वा कपिलवाराहं शिरसा धरणीं गतः ॥ ३२ ॥
तेन सम्मोहितो देवि रावणो नाम राक्षसः ॥
त्रातुमर्हसि मे देव धरणीधर माधव ॥ ३३ ॥
दामोदर हषीकेश हिरण्याक्षविदारण ॥
वेदगर्भ नमस्तेऽस्तु वासुदेव नमोऽस्तु ते ॥ ३४ ॥
कूर्मरूप नमस्तेऽस्तु नारायण नमोस्तु ते ॥
मस्त्यरूपधरं देवं मधुकैटभनाशिनम् ॥ ३९ ॥
निरीक्षितुं न शक्नोमि प्रष्टुं चैव गुणव्रत ॥
देवदेव नमस्तुभ्यं भक्तानामभयप्रद ॥३६॥
मम त्वं भक्तिनम्रस्य प्रसादं कुरु सर्वदा ॥
इति स्तुतो रावणेन देवदेवो जगत्पतिः ॥३७॥
सौम्यरूपोऽभवद्देवो लोक नाथो जनार्दनः ॥
सन्निधानमनुप्राप्य पुष्पकारोहणोत्सुकः ॥ ३८ ॥
तदुद्धर्त्तुं न शक्नोति रावणो विस्मयङ्गतः ॥
शङ्करेण पुरा सार्द्धं कैलास स्तु मयोद्धृतः ॥ ३९ ॥
देव त्वं स्वल्पकायोऽसि नाहमुद्धरणक्षमः ॥
प्रसीद देवदेवेश सुरनाथ नमोऽस्तु ते ॥ १६३.४० ॥
अहं त्वां नेतुमिच्छामि पुरीं लङ्कामनुत्तमाम् ॥ ४१ ॥
श्रीवराह उवाच ॥
अवैष्णवोऽसि रक्षस्त्वं कुतो भक्तिस्तवेदृशी ॥
कपिलस्य वचः श्रुत्वा रावणो वाक्य मब्रवीत् ॥ ४२ ॥
त्वद्दर्शनात्समुत्पन्ना भक्तिरव्यभिचारिणी ॥
महात्मस्त्वां नयिष्यामि देवदेव नमोऽस्तु ते ॥ ४३ ॥
भक्तिमुद्वहतस्तस्य लघु वेषोऽभवत्तदा ॥
पुष्पके तु समारोप्य देवं त्रैलोक्यविश्रुतम् ॥ ४४ ॥
आनयामास लङ्कायां स्थापयित्वा स्वके गृहे ॥
तदा स्थितोऽहं लङ्कायां रावणेन प्रपूजितः ॥ ४५ ॥
अयोध्याधिपती रामो हन्तुं राक्षसपुङ्गवम् ॥
गतोऽसौ विक्रमेणैव हत्त्वा राक्षसपुङ्गवम् ॥ ४६ ॥
विभीषणश्च लङ्काया आधिपत्येऽभिषेचितः ॥
विभीषणेन रामस्य सर्वस्वं च निवेदितम् ॥४७॥
श्रीराम उवाच ॥
अनेन नस्ति मे कार्यं तव रक्षा विभीषण ॥
देवो मे दीयतां रक्षः शक्रलोकाद्य आगतः ॥ ४८ ॥
अहन्यहनि पूजामि देवं वाराहरूपिणम् ॥
अयोध्यां चैव नेष्यामि त्वया दत्तं हि राक्षस ॥ ४९ ॥
ततः समर्पयामास कपिलं दिव्यरूपिणम् ॥
पुष्पके तु समारोप्य नीतवान्नगरीं प्रति ॥ १६३.५० ॥
अयोध्यायां स्थापयित्वा पूजयामास तं तदा ॥
गतं वर्षसहस्रं तु दशोत्तरमतः परम् ॥ ५१ ॥
लवणस्य वधार्थं हि शत्रुघ्नं प्रेषयत्तदा ॥
कृतप्रणामः शत्रुघ्नो राघवाय महात्मने ॥ ५२ ॥
चतुरङ्गबलोपेतो जगाम मथुरां प्रति ॥
गत्वा तु राक्षसश्रेष्ठं लवणं रौद्ररूपिणम् ॥ ५३ ॥
घातयित्वा तु शत्रुघ्नः प्रविश्य मथुरां पुरीम् ॥
ब्राह्मणान्स्थापयित्वा तु मया तुल्यान्महौजसः ॥ ५४ ॥
षड्विंशतिसहस्राणि वेदवेदाङ्गपारगान् ॥
अनृचो माथुरो यत्र चतुर्वेदस्तथापरः ॥ ५५ ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजितः ॥
लवणस्य यथावृत्तं कथितं ते वसुन्धरे ॥ ५६ ॥
लवणस्य वधं श्रुत्वा राघवो वाक्यमब्रवीत् ॥
वरं वरय शत्रुघ्न यत्ते मनसि रोचते ॥ ९७ ॥
राघवस्य वचः श्रुत्वा शत्रुघ्नो वाक्यमब्रवीत् ॥
यदि तुष्टोऽसि मे देव वरार्हो यदि वाप्यहम् ॥ ५८ ॥
दीयतां मम देवोऽयं यदि मे वरदो भवान् ॥
शत्रुघ्नस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ ५९ ॥
नय शत्रुघ्न देवं त्वं दिव्यं वाराहरूपिणम् ॥
धन्याऽसौ मण्डली लोके धन्या सा मथुरा पुरी ॥ १६३.६० ॥
धन्यास्ते माथुरा लोकाः पश्यन्ति कपिलं सदा ॥
दृष्टः स्पृष्टः तदा ध्यातः स्नापितश्च दिने दिने ॥ ६१ ॥
अनुलिप्तश्च शत्रुघ्न सर्वपापं व्यपोहति ॥
पूजितः स्नापितो देवो दृष्टो यैस्तु दिने दिने ॥ ६२ ॥
सर्वं हरति वै पापं मोक्षं चैव प्रयच्छति ॥
इत्युक्त्वा राघवस्तस्मै देवं प्रादाद्वसुन्धरे ॥ ६३ ॥
देवमादाय शत्रुघ्नो जगाम मथुरां पुरीम् ॥
ब्राह्मणं स्थापयित्वा तु आगच्छन्मम सन्निधौ ॥ ६४ ॥
तत्र मध्ये तु संस्थाप्य पूजयामास राघवः ॥
अनेन क्रमयोगेण मथुरायां स्थितः प्रभुः ॥६५॥
गयायां पिण्डदानेन यत्फलं ज्यष्ठेपुष्करे ॥
तत्फलं समवाप्नोति श्वेतं दृष्ट्वा सदा नरः ॥६६॥
विश्रान्तिसञ्ज्ञके तद्वद्गोविन्दे च तथा हरौ ॥
केशवे दीर्घविष्णौ च तदेव फलमश्नुते ॥६७॥
उदये मामकं तेजः सदा विश्रान्तिसञ्ज्ञके ॥
मध्याह्ने मामकं तेजो दीर्घविष्णौ व्यवस्थितम् ॥
केशवे मामकं तेजो दिनभागे चतुर्थके ॥ ६८ ॥
एषा विद्या पुरा देवि नित्यकालं सुगो पिता ॥
भक्ता त्वं मम शिष्या च कथिता ते वसुन्धरे ॥ ६९ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये कपिलवराहमाहात्म्यं नाम त्रिषष्ट्यधिकशत तमोऽध्यायः ॥१६३॥