१६२

अथ चक्रतीर्थप्रभावः ॥
श्रीवराह उवाच ॥
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
चक्रतीर्थे पुरावृत्तं मथुरायास्तथोत्तरे ॥१॥
महागृहोदयं नाम जम्बूद्वीपस्य भूषणम् ॥
तस्मिन् पुरवरे दिव्ये ब्राह्मणो वसते शुभे ॥२॥
स कन्यां पुत्रमादाय ब्राह्मणो वेदपारगः ॥
शालिग्रामं महापुण्यमगच्छद्ब्राह्मणोत्तमः ॥ ३ ॥
तत्रासौ वासमकरोत्पुण्यसेवी जितेन्द्रियः ॥
तीर्थसेवी तथा स्नायी देवतादर्शने रतः ॥ ४ ॥
तत्र सिद्धेन संवासो ब्राह्मणस्याभवत्तदा॥
स सिद्धो वसते नित्यं कल्पग्रामे च सर्वदा ॥५॥
गच्छेत्स सर्वकालं तु शालिग्रामे वसुन्धरे ॥
स तेन सह सङ्गत्य कान्यकुब्जनिवासिना ॥६॥
कल्पग्राम विभूतिं च नित्यकालमवर्णयत् ॥
कल्पग्रामविभूतिं च श्रुत्वा स मुनिसत्तमः ॥ ७ ॥
गमने बुद्धिरुत्पन्ना ततः सिद्धमयाचत ॥
मित्रत्वं वर्त्तते सिद्ध नयस्वात्मनिवेशने ॥ ८ ॥
ब्राह्मणस्य वचः श्रुत्वा सिद्धो वचनमब्रवीत् ॥
तत्र सिद्धा हि गच्छन्ति तेन तत्र गतिर्भवेत् ॥ ९ ॥
प्रार्थना दुःखलाभं तु शृणु वै ब्राह्मणोत्तम ॥
आत्मयोगबलेनैव चलिष्यामि सपुत्रकः ॥ 162.१० ॥
दक्षिणे तु करे गृह्य ब्राह्मणं वेदपारगम् ॥
वामे चैव करे गृह्य तस्य पुत्रं महामतिम् ॥ ११ ॥
उत्पपात तदा सिद्धो गृहीत्वा ब्राह्मणोत्तमौ ॥
कल्पग्रामे तु तौ मुक्तौ पितापुत्रौ वसुन्धरे ॥ १२ ॥
तत्र तौ वसतो नित्यं कल्पग्रामे द्विजोत्तमौ ॥
तत्र कालेन महता रुग्देहे चाभवत्तदा ॥ १३ ॥
रुजा तु पीड्यमानः स दशमीं च दशां गतः ॥
मर्तुकामो द्विजवरो निरीक्ष्य सुतमुत्तमम् ॥ १४ ॥
उवाच पुत्रं धर्मात्मा मरणे समुपस्थिते ॥
गङ्गातीरे च मां पुत्र नय त्वं मा विलम्बय ॥ १५ ॥
तेन पुत्रेण नीतोऽसौ गङ्गातीरे महामुनिः ॥
रुरोद पुत्रस्तु तदा पितृस्नेहसमन्वितः ॥ १६ ॥
वेदाध्ययनशीलः स पितृभक्त्या नियन्त्रितः ॥
वसतस्तस्य वै तत्र कालो जातो महामतेः ॥१७॥
कल्पग्रामे तदा सिद्धस्तस्य कन्या सुमध्यमा ॥
वरमन्वेषयन्ती सा न प्राप्तस्तु तया मतः ॥ १८ ॥
कदाचिद्देवयोगेन कान्यकुब्जनिवासिनः ॥
गृहे प्रविष्टो विप्रः स भोजनार्थं महामतिः ॥ १९ ॥
पृष्टोऽसौ ब्राह्मणो भद्रे क्व भवांस्त्वमिहागतः॥
स सर्वं कथयामास यथावृत्तं दृढव्रतः॥162.२०॥
दिव्यज्ञानेन तं ज्ञात्वा पूजयामास तं द्विजः॥
पूजयित्वा यथान्यायं कन्यां तस्मै ददौ तदा॥२१॥
श्वशुरस्य गृहे नित्यं भोजनं कुरुते द्विजः ॥
वसते पितृसान्निध्ये प्रतिचारी स पुत्रकः ॥२२॥
काले भगवतस्तस्य अतिक्षीणः पिता तदा ॥
तं दृष्ट्वा क्षीणतां प्राप्तं श्वशुरं पर्यपृच्छत ॥२३॥
स्वामिन्पितुर्मे मरणं भविष्यति वदस्व माम् ॥
जामातृवचनं श्रुत्वा प्रहस्य श्वशुरोऽब्रवीत् ॥२४॥
शूद्रान्नं भक्षितं तेन नित्यकालं द्विजोत्तम ॥
तस्य चाहारदोषेण मृत्युर्दूरं गतः पितुः ॥२५ ॥
पादयोर्विद्यते तच्च शूद्रान्नं च पितुस्तव ॥
जान्वोरूर्द्ध्वे न विद्येत शूद्रान्नं च द्विजोत्तम॥२६॥
शूद्रान्नेन विहीनस्य तस्य मृत्युर्भविष्यति ॥
श्वशुरस्य वचस्तस्य पितुरग्रे न्यवेदयत् ॥ २७ ॥
तस्य पुत्रस्य वचनं श्रुत्वात्मानं विगर्हयत् ॥
ततः प्रभाते विमले उदिते च दिवाकरे ॥२८॥
पितुः समीपात्स गतः श्वशुरस्य निवेशनम् ॥
गते पुत्रे पिता तस्य रुजा त्वत्यन्तपीडितः ॥ २९ ॥
दुःखेन पीडितः क्षीणो मर्त्तुकामो द्विजोत्तमः ॥
गङ्गातीरात्समुत्तिष्ठन्दिशः सर्वा विलोकयन् ॥ 162.३०॥
सन्निधावुपलं दृष्ट्वा गृहीतं तेन तत्पदा ॥
चूर्णयामास तौ पादौ पीडया मोहितो द्विजः ॥३१॥
ततः प्राणान्परित्यज्य गतोऽसौ कालवर्त्तनम् ॥
स्नात्वा भुक्त्वा ततो गत्वा प्रेक्ष्य तं पितरं मृतम् ॥३२॥
गतसञ्ज्ञं च पितरं दृष्ट्वा स रुरुदे भृशम् ॥
रुदित्वा सुचिरं कालं शास्त्रं दृष्ट्वा व्यचिन्तयत् ॥ ३३ ॥
संस्कारयोग्यता नास्ति इत्येवं पुनरब्रवीत् ॥
सर्पशृङ्गिहतानां च दंष्ट्रविग्रहतस्य च ॥३४॥
आत्मनस्त्यागिनश्चैव आपस्तम्बोऽब्रवीदिदम् ॥
आत्मघाती नरः पापो नरके पच्यते चिरम् ॥ ३५ ॥
प्रायश्चितं विधीयीत न दद्याच्चोदकक्रियाम्॥
अहो दैवं सुबलवत्पौरुषं तु निरर्थकम् ॥ ३६ ॥
तस्य पुत्रो महाभागे गतः श्वशुरमन्दिरम् ॥
तं दृष्ट्वा श्वशुरो दीनमिदं वचनमब्रवीत् ॥३७ ॥
ब्रह्महत्या तु ते जाता गच्छ त्वं च यथेप्सितम् ॥
श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत् ॥ ३८ ॥
न मया ब्राह्मणवधः कदाचिदपि कारितः ॥
केन दोषेण मे सिद्धं ब्रह्महत्याफलं महत् ॥ ३९ ॥
जामातुर्वचनं श्रुत्वा श्वशुरो वाक्यमब्रवीत् ॥
पितुस्त्वया वधोपायो विनिर्दिष्टश्च पुत्रक ॥ 162.४० ॥
तेन दोषेण विप्रर्षे ब्रह्महत्याफलं तव ॥
आसन्नशयनाच्चैनं भोजनात्कथनादिषु ॥ ४१ ॥
संवत्सरेण पतति पतितेन सहाचरन् ॥
तस्मान्मम गृहे नास्ति वासस्ते हि द्विजोत्तम ॥ ४२ ॥
श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत् ॥
किं मया वद कर्त्तव्यं त्वया त्यक्तेन सुव्रत ॥ ४३ ॥
तस्य तद्वचनं श्रुत्वा ब्राह्मणः संशितव्रतः ॥
कल्पग्रामं परित्यज्य मथुरां याहि सुव्रत ॥ ४४ ॥
नान्यत्र तव संशुद्धिः कदाचित्पितृघातिनः ॥
कल्पग्रामं परित्यज्य तत्क्षणादेव निःसृतः ॥४९॥
ततः कालेन महता सम्प्राप्तो मथुरां पुरीम् ॥
ब्राह्मणेभ्यो बहिःस्थाने नित्यं तु वसते द्विजः ॥ ४६ ॥
कन्यापुरनिवासी तु कुशिकोऽयं नराधिपः ॥
तस्य सत्रं नित्यकालं मथुरायां प्रवर्त्तते ॥ ४७ ॥
द्वेसहस्रे तु विप्राणां तस्य सत्रे च भुञ्जते ॥
ब्राह्मणानां सदोच्छिष्टं ततश्चोद्धरते तु सः ॥ ४८ ॥
चक्रतीर्थं समासाद्य स्नानं स कुरुते सदा ॥
न भिक्षां कुरुते तत्र भोजनार्थं न गच्छति ॥ ४९ ॥
ततः कालेन महता चिन्ताभूच्छ्वशुरस्य च ॥
दिव्यज्ञानेन तत्सर्वं ज्ञात्वा जामातृचेष्टितम् ॥ 162.५० ॥
स्वां सुतां चोदयामास गच्छ तां मथुरां पुरीम् ॥
भोजनं गृह्य तत्रैव गच्छ त्वं भर्तृसन्निधौ ॥५१॥
दिव्यज्ञानेन च तदा नित्यं सा भर्तृसन्निधौ ॥
दिनेदिने गच्छति सा भर्तृभोजनकारणात् ॥ ५२ ॥
दिवसस्यावसाने तु भोजनं गृह्य गच्छति ॥
भोजनं कुरुते नित्यं प्रियादत्तं वसुन्धरे ॥ ५३ ॥
पात्रं निःक्षिप्य कुण्डे तु सत्रे वसति सर्वदा ॥
एवं निवसतस्तस्य वर्षार्द्धं तु गतं तदा ॥ ५४ ॥
ततः कालेन महता तैः पृष्टः स द्विजोत्तमः ॥
कुत्र सन्तिष्ठते नित्यं भोजनं कुरुषे कुतः ॥५५॥
कथयामास वृत्तान्तं तं सर्वं चात्मनो हि सः ॥
ते श्रुत्वा ब्राह्मणाः सर्वे एकीभूता वसुन्धरे ॥ ५६ ॥
इदमूचुस्ततो विप्राः शुद्रोऽसीति द्विजं प्रति ॥
चक्रतीर्थप्रभावेण पापान्मुक्तः सनातनः ॥ ५७ ॥
अस्माकं वदनाच्चैव पुनः सिद्धोऽसि वै द्विज ॥
ब्राह्मणानां वचः श्रुत्वा स द्विजो हृष्टमानसः ॥ ५८ ॥
स्नानार्थं तु ततः स्थानाच्चक्रतीर्थं समागतः ॥
गते तस्मिंस्तस्य भार्या भिक्षामादाय चागता ॥५९॥
सा तु हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् ॥
भोजनं कुरु मे दत्तं हत्यां लक्ष्यामि ते गताम्॥162.६० ॥
प्रियावचनमाकर्ण्य भर्ता वचनमब्रवीत् ॥
पुनराभाषितं ब्रूहि यदिदं भाषितं त्वया ॥६१॥
भर्त्तुर्वचनमाकर्ण्य पत्नी वचनमब्रवीत् ॥
न त्वं सम्भाषितः पूर्वं ब्रह्महत्यासमन्वितः ॥६२॥
चक्रतीर्थप्रभावेण मुक्तोऽसि द्विजसत्तम॥
उत्तिष्ठ कान्त गच्छाव कल्पग्रामं सुशोभितम् ॥६३॥
तया सार्द्धं जगामाथ कल्पग्रामं द्विजोत्तमः ॥
भद्रेश्वरनिमित्तं हि द्रव्यं च कथितं शुभम् ॥ ६४ ॥
नित्यं च भुञ्जते यत्र पात्रं द्रव्यसमर्पितम् ॥
दृष्ट्वा भद्रेश्वरं देवं चक्रतीर्थे फलं लभेत् ॥६९॥
कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे ॥
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥६६॥
कल्पग्रामेण किं तस्य वाराणस्यां च वा शुभे ॥
मथुरां तु समासाद्य यः कश्चिन्म्रियते भुवि ॥ ६७ ॥
अपि कीटः पतङ्गो वा जायते स चतुर्भुजः ॥६८॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये चक्रतीर्थप्रभावो नाम द्विषष्टयधिकशततमोऽध्यायः ॥ १६२ ॥