१६०

अथ मथुरापरिक्रमप्रादुर्भावः ॥
श्रीवराह उवाच ॥
अष्टम्यां मथुरां प्राप्य कार्त्तिकस्यासिते नरः ॥
स्नात्वा विश्रान्तितीर्थे तु पितृदेवार्च्चने रतः ॥ १ ॥
विश्रान्तिदर्शनं कृत्वा दीर्घविष्णुं च केशवम् ॥
प्रदक्षिणायाः सम्यग्वै फलमाप्नोति मानवः ॥ २ ॥
उपवासरतः सम्यगल्पमेध्याशनोऽथवा ॥
दन्तकाष्ठं च सायाह्ने कृत्वा शुद्ध्यर्थमात्मनः ॥ ३ ॥
ब्रह्मचर्येण तां रात्रिं कृत्वा सङ्कल्प्य मानसे ॥
धौतवस्त्रेण सुस्नातो मौनव्रतपरायणः ॥ ४ ॥
तिलाक्षतकुशान् गृह्य पितृदेवार्थमुद्यतः ॥
दीपहस्तो वनं गत्वा श्रान्तो विश्रान्तिजागरे ॥ ५ ॥
यथानुक्रमणं तैश्च ध्रुवाद्यैर्ऋषिभिः कृतम् ॥
एवं परम्परायातं क्रमणीयं नरोत्तमैः ॥ ६ ॥
प्रदक्षिणा वर्त्तमाना भक्तिश्रद्धासमन्वितः ॥
सर्वान्कामानवाप्नोति हयमेधफलं लभेत् ॥ ७ ॥
एवं जागरणं कृत्वा नवम्यां नियतः शुचिः ॥
ब्राह्मे मुहुर्त्ते सम्प्राप्ते ततो यात्रामुपक्रमेत् ॥ ८ ॥
तथा प्रारभयेद्यात्रां यावन्नोदयते रविः ॥
प्रातः स्नानं तथा कुर्यात्तीर्थे दक्षिणकोटिके ॥ ९ ॥
प्रक्षाल्य पादावाचम्य हनुमन्तं प्रसादयेत् ॥
सर्वमङ्गलमाङ्गल्यं कुमारं ब्रह्मचारिणम् ॥ 160.१० ॥
विज्ञाप्य सिद्धिकर्त्तारं यात्रासिद्धिप्रदायकम् ॥
यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः ॥ ११ ॥
यथा रामस्य यात्रायां सिद्धिस्ते सुप्रतिष्ठिता ॥
तथा परिभ्रमन्तेऽद्य भवान्सिद्धिप्रदो भव ॥ १२ ॥
इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम् ॥
दीपपुष्पोपहारैस्तु पूजयित्वा विसर्ज्जयेत् ॥ १३ ॥
तथैव पद्मनाभं तु दीर्घविष्णुं भयापहम् ॥
विज्ञाप्य सिद्धिकर्त्तारं देव्यश्च तदनन्तरम् ॥ १४ ॥
दृष्ट्वा वसुमतीं देवीं तथैव ह्यपराजिताम् ॥
आयुधागारसंस्थां च नृणां सर्वभयापहाम् ॥ १५ ॥
कंसवासनिकां तद्वदौग्रसेनां च चर्च्चिकाम् ॥
वधूटीं च तथा देवि दानवक्षयकारिणीम् ॥ १६ ॥
जयदां देवतानां च मातरो देवपूजिताः ॥
गृहदेव्यो वास्तुदेव्यो दृष्ट्वानुज्ञाप्य निर्गमेत् ॥ १७ ॥
मौनव्रतधरो गच्छेद्यावद्दक्षिणकोटिके ॥
प्राप्य स्नात्वा पितृँस्तर्प्य दृष्ट्वा देवं प्रणम्य च ॥ १८ ॥
नत्वा गच्छेदिक्षुवासां देवि कृष्णसुपूजिताम् ॥
बालक्रीडनरूपाणि कृतानि सह गोपकैः ॥
यानि तीर्थानि तान्येव स्थापितानि महर्षिभिः ॥१९॥
ख्यातिं गतानि सर्वाणि सर्वपापहराणि च ॥
वत्सपुत्रं ततो गच्छेत्सर्वपापहरं परम् ॥
अर्कस्थलं वीरस्थलं कुशस्थलमनन्तरम् ॥ 160.२० ॥
पुण्यस्थल महास्थल महापापविनाशनम् ॥
पञ्चस्थलानि तत्रैव सर्वपापहराणि च ॥ २१ ॥
येषां तु दर्शनादेव ब्रह्मणा सह मोदते ॥
शिवं सिद्धमुखं दृष्ट्वा स्थलानां फलमाप्नुयात् ॥ २२ ॥
हयमुक्तिं ततो गच्छेत्सिन्दूरं ससहायकम् ॥
श्रूयते चात्र ऋषिभिर्गाथा गीता पुरातनी ॥ २३ ॥
अश्वारूढेन तेनैव यत्रेयं समनुष्ठिता ॥
अश्वो मुक्तिं गतस्तत्र सहायसहितः सुखम् ॥२४॥
राजपुत्रः स्थितस्तत्र यानयात्रा न मुक्तिदा ॥
तस्माद्यानैश्च यात्रा तु न कर्त्तव्या फलेच्छया॥२५॥
तस्मिंस्तीर्थे तु तं दृष्ट्वा स्पृष्ट्वा पापैः प्रमुच्यते ॥
कुण्डं शिवस्य विख्यातं तत्र स्नानफलं महत् ॥२६॥
मल्लिकादर्शनं कृत्वा कृष्णस्य जयदं शुभम् ॥
ततः कदम्बखण्डस्य गमनात्सिद्धिमाप्नुयात् ॥ २७ ॥
चर्चिका योगिनी तत्र योगिनीपरिवारिता ॥
कृष्णस्य रक्षणार्थं हि स्थिता सा दक्षिणां दिशम् ॥ २८ ॥
अस्पृश्या चास्पृशा चैव मातरौ लोकपूजितौ ॥
बालानां दर्शनं ताभ्यां महारक्षां करिष्यति ॥ २९ ॥
वर्षखातं ततो गत्वा कुण्डं पापहरं परम् ॥
गत्वा स्नात्वा पितॄँस्तर्प्य सर्वपापैः प्रमुच्यते ॥ 160.३० ॥
क्षेत्रपालं ततो गत्वा शिवं भूतेश्वरं हरम् ॥
मथुराक्रमणं तस्य जायते सफलं तथा ॥ ३१ ॥
कृष्णक्रीडासेतुबन्धं महापातकनाशनम् ॥
बालानां क्रीडनार्थं च कृत्वा देवो गदाधरः ॥ ३२॥
गोपकैः सहितस्तत्र क्षणमेकं दिनेदिने ॥
तत्रैव रमणार्थं हि नित्यकालं स गच्छति ॥ ३३ ॥
बलिह्रदं च तत्रैव जलक्रीडाकृतं शुभम् ॥
यस्य सन्दर्शनादेव सर्वपापैः प्रमुच्यते ॥ ३४ ॥
ततः परं च कृष्णेन कुक्कुटैः क्रीडनं कृतम् ॥
यस्य दर्शनमात्रेण चण्डोऽपि गतिमाप्नुयात् ॥ ३५ ॥
स्तम्भोच्चयं सुशिखरं सौरभैः सुसुगन्धिभिः ॥
भूषितं पूजितं तत्र कृष्णेनाक्लिष्टकर्मणा ॥ ३६ ॥
तस्य प्रदक्षिणं कृत्वा परिपूज्य प्रयत्नतः ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं व्रजेत्तु सः ॥३७॥
वसुदेवेन देवक्या गर्भस्य रक्षणाय च ॥
कृतमेकान्तशयनं महापातकनाशनम् ॥ ३८ ॥
ततो नारायणस्थानं प्रविशेन्मुक्तिहेतवे ॥
परिक्रम्य ततो देवान्नारायणपुरोगमान् ॥ ३९ ॥
दृष्ट्वा ततः सुविज्ञाप्य गणं विधिविनायकम् ॥
कुब्जिकां वामनां चैव ब्राह्मण्यौ कृष्णपालिते ॥ 160.४० ॥
अनुज्ञाय ततः स्थानं द्रष्टुं गर्त्तेश्वरं शिवम् ॥
दृष्टमात्रेण तत्रैव यात्राफलमवाप्यते ॥ ४१ ॥
महाविद्येश्वरी देवी आरक्षं पापकं हरेत् ॥
क्षेत्रस्य रक्षणार्थं हि यात्रायाः सिद्धिदां नृणाम् ॥ ४२ ॥
प्रभा मल्ली च तत्रैव दृष्ट्वा कामानवाप्नुयात् ॥
महाविद्येश्वरी देवी कृष्णरक्षार्थमुद्यता ॥ ४३ ॥
नित्यं सन्निहिता तत्र सिद्धिदा पापनाशिनी ॥
कृष्णेन बलभद्रेण गोपैः कंसं जिघांसुभिः ॥ ४४ ॥
सङ्केतकं कृतं तत्र मन्त्रनिश्चयकारकम् ॥
तदा सङ्केतकैः सा च सिद्धा देवी प्रतिष्ठिता ॥ ४५ ॥
सिद्धिप्रदा भोगदा च तेन सिद्धेश्वरी स्मृता ॥
सङ्केतकेश्वरीं चैव दृष्ट्वा सिद्धिमवाप्नुयात् ॥ ४६ ॥
तत्र कुण्डं स्वच्छजलं महापातकनाशनम् ॥
ततो दृष्ट्वा महादेवं गोकर्णेश्वरनामतः ॥ ४७ ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
सरस्वतीं नदीं दृष्ट्वा ततो भद्राणि पश्यति ॥ ४८ ॥
विघ्नराजं ततो गच्छेद्गणेशं विघ्ननायकम् ॥
सर्वसिद्धिप्रदं रम्यं दर्शनाच्च फलं लभेत् ॥ ४९ ॥
गङ्गा साध्वी च तत्रैव महापातकनाशिनी ॥
दृष्ट्वा स्पृष्ट्वा तथा ध्यात्वा सर्वकामान्समश्नुते ॥160.५०॥
महादेवमुखाकारं नाम्ना रुद्रमहालयम् ॥
क्षेत्रपं तं परं दृष्ट्वा क्षेत्रवासफलं लभेत् ॥ ५१॥
तस्मादुत्तरकोटिं च दृष्ट्वा देवं गणेश्वरम् ॥
द्यूतक्रीडा भगवता कृता गोपजनैः सह ॥ ५२ ॥
नानापहासरूपेण जिता गोप्यो धनानि च ॥
गोपैरानीय ताश्चैव कृष्णाय च निवेदिताः ॥५३ ॥
गोपालकृष्णगमनं महापातकनाशनम् ॥
समस्तं बालचरितं भ्रमणं च यथासुखम् ॥५४॥
कृतं तत्र यथारूपं यद्रूपं च यथा तथा ॥
ऋषिभिः सेवितं ध्यातं विष्णोर्माहात्म्यमुत्तमम् ॥५५॥
ततो गच्छेन्महातीर्थं विमलं यमुनाम्भसि ॥
स्नात्वा पीत्वा पितॄंस्तर्प्य नाम्ना रुद्रमहालयम् ॥ ५६ ॥
गार्ग्यतीर्थे महापुण्ये नरस्तत्र तथा क्रमेत् ॥
भद्रेश्वरे महातीर्थे सोमतीर्थे तथैव च ॥ ५७ ॥
स्नात्वा सोमेश्वरं देवं दृष्ट्वा यात्राफलं लभेत् ॥
सरस्वत्याः सङ्गमे च देवर्षिपितृमानवान् ॥ ५८ ॥
सन्तर्प्य विधिवद्दत्त्वा विष्णुसायुज्यमाप्नुयात् ॥
घण्टाभरणके तद्वत्तथा गरुडकेशवे ॥ ५९ ॥
धारालोपनके तद्वद्वैकुण्ठे खण्डवेलके ॥
मन्दाकिन्याः संयमने असिकुण्डे तथैव च ॥ 160.६० ॥
गोपानां तीर्थके चैव तथा वै मुक्तिकेश्वरे ॥
वैलक्षगरुडे चैव महापातकनाशने ॥ ६१ ॥
तीर्थान्येतानि पुण्यानि यथा विश्रान्तिसञ्ज्ञकम् ॥
एषु तीर्थेषु क्रमितो भक्तिमांश्च जितेन्द्रियः ॥ ६२ ॥
देवान्पितॄन् समभ्यर्च्य ततो देवं प्रसादयेत् ॥
अविमुक्तेश देवेश सप्तर्षिभिरभिष्टुत ॥ ६३ ॥
मथुराक्रमणीयं मे सफलं स्यात्तवाज्ञया ॥
इत्येवं देवदेवेशं विज्ञाप्य क्षेत्रपं शिवम् ॥ ६४ ॥
विश्रान्तिसञ्ज्ञके स्नानं कृत्वा च पितृतर्पणम् ॥
गतश्रमं परिक्रम्य स्तुत्वा दृष्ट्वा प्रणम्य च ॥ ६५ ॥
सुमङ्गलां ततो गच्छेद्यात्रासिद्धिं प्रसादयेत् ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ६६ ॥
यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति ॥
पिप्पलादेश्वरं देवं पिप्पलादेन पूजितम् ॥ ६७ ॥
विश्रान्तस्तु परिक्रम्य त्रातस्तत्र महातपाः ॥
उपलिप्य ततस्तस्य शीर्षोपरि महच्छिवम्॥ ६८ ॥
स्वनाम्ना चिह्नितं स्थाप्य तदा यात्राफलं लभेत् ॥
कर्कोटकं तथा नागं महादुष्टनिवारणम् ॥ ६९ ॥
दृष्ट्वा गच्छेत्ततो देवीं या कृष्णेन विनिर्मिता ॥
कंसभेदं प्रथमतः श्रुतं यत्र कुमन्त्रितम् ॥ 160.७० ॥
सुखवासं च वरदं कृष्णस्याक्लिष्टकर्मणः ॥
सुखासीनं च तत्रैव स्थापितं शकुनाय वै ॥ ७१ ॥
स्वानुकूलः स्वरो यत्र प्रवेशे दक्षिणः स्वनः ॥
ध्याता स्वभावे कृष्णेन स्वसा सातिसुखप्रदा ॥ ७२ ॥
भयार्तेन च कृष्णेन ध्याता देवी च चण्डिका ॥
स्थापिता सिद्धिदा तत्र नाम्ना चार्त्तिहरा ततः ॥७३॥
दृष्ट्वा सर्वार्त्तिहरणं यस्या देव्याः सुखी नरः ॥
अग्रोत्तरं शुभवरं शकुनार्थं च याचतः ॥ ७४ ॥
कृष्णस्य कंसघातार्थं सम्भूता सा तथोत्तरे ॥
तां दृष्ट्वा मनुजः कामान्सर्वानिष्टानवाप्नुयात् ॥ ७५ ॥
वज्राननं ततो ध्यात्वा कृष्णो मल्लजिघांसया॥
निहत्य मल्लान्पश्चाद्धि वज्राननमकल्पयत्॥ ७६ ॥
वाञ्छितार्थफलं चक्रे कृष्णेनास्य मनोरथान्॥
यस्यै यस्यै देवतायै तस्यै तस्यै ददौ मखम्॥७७॥
उपयाचितं तु माङ्गल्यं सर्वपापहरं शुभम्॥
कृष्णस्य बालचरितं महापातकनाशनम् ॥ ७८ ॥
सूर्यं तं वरदं देवं माथुराणां कुलेश्वरम् ॥
दृष्ट्वा तत्रैव दानं च दत्त्वा यात्रां समापयेत् ॥ ७९ ॥
एवं प्रदक्षिणं कृत्वा नवम्यां शुक्लकौमुदे ॥
सर्वं कुलं समादाय विष्णुलोके महीयते ॥ 160.८० ॥
क्रमतः पदविन्यासाद्यावन्तः सर्वतो दिशः ॥
तावन्तः कुलसम्भूताः सूर्ये तिष्ठन्ति शाश्वते ॥ ८१ ॥
ब्रह्मघ्नश्च सुरापश्च चौरा भग्नव्रताश्च ये ॥
अगम्यागमने शीलाः क्षेत्रदारापहारकाः ॥ ८२ ॥
मथुराक्रमणं कृत्वा विपाप्मानो भवन्ति ते ॥
अन्यदेशागतो दूरात्परिभ्रमति यो नरः ॥ ८३ ॥
तस्य सन्दर्शनादन्ये पूताः स्युर्विगतामयाः ॥
श्रुतं यैश्च विदूरस्थैः कृतयात्रं नरं नरैः ॥८४॥
सर्वपापविनिर्मुक्तास्ते यान्ति परमं पदम् ॥८५॥
इति श्रीवराहपुराणे मथुरा परिक्रमप्रादुर्भावो नाम षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥