अथ मथुराप्रदक्षिणा विध्यादिकम् ॥
धरण्युवाच ॥
श्रुतं सुबहुशो देव तीर्थानां गुणविस्तरम् ॥
प्रोच्यमानं तु पुण्याख्यं त्वत्प्रसादाज्जनार्दन ॥ १ ॥
न दानैर्न तपोभिश्च न यज्ञैस्तादृशं फलम्॥
भूमेः प्रदक्षिणायाश्च यादृशं तीर्थसेवया ॥ २ ॥
भुवश्च चतुरन्तायास्तीर्थप्रक्रमणं हरे ॥
सर्वतीर्थाभिगमनमस्ति दुर्गतरं नृणाम् ॥ ३॥
अस्ति कश्चिदुपायोऽत्र येन सम्यगवाप्यते ॥
प्रसादसुमुखो भूत्वा तत्सर्वं कथयस्व मे ॥ ४ ॥
श्रीवराह उवाच ॥
भद्रे शृणु महत्पुण्यं पृथिव्यां सर्वतोदिशम् ॥
परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् ॥५॥
भूम्याः परिक्रमे सम्यक्योजनानां प्रमाणकम् ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥ ६ ॥
तीर्थान्येतानि देवाश्च तारकाश्च नभस्थले ॥
गणितानि समस्तानि वायुना जगदायुषा ॥ ७ ॥
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च ॥
जाम्बवत्याश्च पुत्रेण रावणेन हनूमता ॥८॥
एतैरनेकधा देवैः ससागरवना मही ॥
क्रमिता बलिना चैव बाह्यमण्डलरेखया ॥ ९ ॥
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना ॥
तथा च पूर्वं देवेन्द्रैः पञ्चभिः पाण्डुनन्दनैः ॥159.१०॥
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि ॥
क्रमिता न क्रमिष्यन्ति न पूर्वे नापरे जनाः ॥११॥
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः ॥
मनसापि न शक्यन्ते गमनस्य च का कथा ॥ १२ ॥
सप्तद्वीपे च तीर्थानां भ्रमणाद्यत्फलं भवेत् ॥
प्राप्यते चाधिकं तस्मान्मथुरायाः परिक्रमे॥ १३ ॥
मथुरां समनुप्राप्य यस्तु कुर्यात्प्रदक्षिणम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥१४॥
तस्मात्सर्वप्रयत्नेन सर्वकामानभीप्सुभिः॥
कर्त्तव्या मथुरां प्राप्य नरैः सम्यक्प्रदक्षिणा ॥१५॥
धरण्युवाच ॥
यथाविधानक्रमणं मथुरायामवाप्यते ॥
प्रदक्षिणाफलं सम्यगनुक्रमविधिं वद॥१६॥
श्रीवराह उवाच ॥
पुरा सप्तर्षिभिः पृष्टो ब्रह्मा लोकपितामहः ॥
इदमेव पुरा प्रोक्तं यथा पृष्टा त्वया ह्यहम् ॥१७॥
श्रुत्वा सर्वपुराणोक्तं तीर्थानुक्रमणं परम् ॥
पृथिव्याश्चतुरन्तायास्तथा तद्वक्तुमुद्यतः ॥१८॥
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥
सर्वदानेषु यत्प्रोक्तमिष्टापूर्त्तेषु चैव हि ॥ १९ ॥
यत्फलं लभ्यते विप्रास्तस्माच्छतगुणोत्तरम् ॥
प्रक्रमान्मथुरायास्तु सत्यमेतद्वदामि वः ॥ 159.२० ॥
इत्युक्त्वा ऋषयो जग्मुरभिवाद्य स्वयम्भुवम् ॥
आगत्य मथुरां देवीमाश्रमांश्चक्रिरे द्विजाः ॥ २१ ॥
ध्रुवेण सहिताश्चासन्कामयानास्तु तद्दिनम् ॥
कुमुदस्य तु मासस्य नवम्यां शुक्लपक्षके ॥ २२ ॥
मथुरोपक्रमं कृत्वा सर्वपापैः प्रमुच्यते ॥ २३ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रदक्षिणादिकं नामैकोनषष्ट्यधिकशततमोऽध्यायः ॥ १५९ ॥