अथ मथुरातीर्थप्रादुर्भावः ॥
श्रीवराह उवाच ॥
विंशतिर्योजनानां तु माथुरं मम मण्डलम् ॥
यत्रतत्र नरः स्नातो मुच्यते सर्वकिल्बिषैः ॥१॥
वर्षाकाले तु स्थातव्यं यच्च स्थानं तु हर्षदम् ॥
पुण्यात्पुण्यतरं चैव माथुरे मम मण्डले ॥२॥
सप्तद्वीपेषु तीर्थानि पुण्यान्यायतनानि च ॥
मथुरायां गमिष्यन्ति प्रसुप्ते तु सदा मयि ॥ ३ ॥
सुप्तोत्थितं तु दृष्ट्वा मां मथुरायां वसुन्धरे ॥
ते नरा मां प्रपश्यन्ति सर्वकालं न संशयः ॥ ४ ॥
सुप्तोत्थितं तु वसुधे दृष्ट्वा मे मुखपङ्कजम् ॥
सप्तजन्मकृतं पापं तत्क्षणादेव मुञ्चति ॥५॥
मथुरावासिनो लोकाः सर्वे ते मुक्तिभाजनाः ॥
मथुरां समनुप्राप्य दृष्ट्वा देवं तु केशवम् ॥ ६ ॥
स्नात्वा पुनस्तु कालिन्द्यां मम लोके महीयते ॥
स तत्फलमवाप्नोति राजसूयाश्वमेधयोः ॥ ७ ॥
प्रदक्षिणीकृतो येन मथुरायां तु केशवः ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥८॥
घृतपूर्णेन पात्रेण समग्रेण च वाससा ॥
केशवस्याग्रतो दत्त्वा दीपकं तु वसुन्धरे ॥ ९ ॥
पञ्चयोजनविस्तारमायामं पञ्च विस्तरम् ॥
दीपमालासमाकीर्णं विमानं लभते नरः ॥ 158.१० ॥
सर्वकामसमृद्धं तदप्सरोगणसेवितम् ॥
रम्यमालासमाकीर्णं भोगाढ्यं सर्वकामिकम् ॥११॥
समारोहति वै नित्यं प्रभामण्डलमण्डितम् ॥
ये देवा ये च गन्धर्वाः सिद्धाश्चारणपन्नगाः ॥ १२ ॥
तं स्पृहन्ति सदा देवि पुण्यमस्ति कृतं भुवि ॥
यदि कालान्तरे पुण्यं हीयतेऽस्य पुरा कृतम् ॥ १३ ॥
सतां पुण्यगृहे देवि जायते मानवो हि सः ॥
धरण्युवाच ॥
क्षेत्रं हि रक्षते देव कस्त्विदं पापनाशनम्॥१४॥
पशुभूतपिशाचैश्च रक्षोभूतविनायकैः ॥
एवमादिभिराकृष्टं तत्क्षेत्रं फलदं भवेत् ॥ १५ ॥
श्रीवराह उवाच ॥
मत्क्षेत्रं ते न पश्यन्ति मत्प्रभावात्कदाचन ॥
न विकुर्वन्ति ते दृष्ट्वा मत्पराणां हि देहिनाम् ॥ १६ ॥
रक्षार्थं हि मया दत्ता दिक्पालास्तु वरानने ॥
लोकपालास्तु चत्वारस्तीर्थं रक्षन्ति ये सदा ॥ १७ ॥
पूर्वां रक्षति इन्द्रस्तु यमो रक्षति दक्षिणाम् ॥
पश्चिमां रक्षते नित्यं वरुणः पाशभृत्स्वयम् ॥१८॥
उत्तरां वै कुबेरस्तु महाबलपराक्रमः ॥
मध्यं तु रक्षते नित्यं शिवो देव उमापतिः ॥१९ ॥
मथुरायां गृहं यस्तु प्रासादं कुरुते नरः ॥
चतुर्भुजस्तु विज्ञेयो जीवन्मुक्तो न संशयः ॥158.२०॥
मथुराया महाभागे कुण्डे च विमलोदके ॥
गम्भीरे सर्वदा देवि तिष्ठते च चतुर्भुजः ॥२१॥
तत्र मुञ्चेत यः प्राणान् स्नानं कृत्वा वसुन्धरे ॥
वैष्णवं लोकमासाद्य क्रीडते स सुखादिव ॥२२॥
तत्रैव तु सदाश्चर्यं कथ्यमानं मया शृणु ॥
यदुच्यते वै सुश्रोणि कुण्डे तु विमलोदके ॥ २३ ॥
हेमन्ते तु भवेच्चोष्णं शीतलं ग्रीष्मके भवेत् ॥
तेजसा मम सुश्रोणि तुषारतदृशोपमम् ॥ २४ ॥
न वर्द्धते च वर्षासु ग्रीष्मे चापि न हीयते ॥
एतच्च महदाश्चर्यं तस्मिन्कुण्डे परं मम ॥२५॥
पदे पदे तीर्थफलं मथुरायां वसुन्धरे॥
तत्र तत्र नरः स्नातो मुच्यते सर्वपातकैः ॥ २६ ॥
वर्षासु स्थूलतीर्थेषु स्नातव्यं तु प्रयत्नतः ॥
कूपे ह्रदे देवखाते गर्तेषु च नदीषु च ॥२७॥
प्रवाहेषु च दिव्येषु नदीनां सङ्मेषु च ॥
वर्षासु सर्वतः स्नायाद्यदीच्छेत्परमां गतिम् ॥ २८॥
अस्ति क्षेत्रं परं दिव्यं मुचुकुन्दं तु नामतः ॥
मुचुकुन्दः स्वपित्यत्र दानवासुरपातनः ॥ २९ ॥
तत्र कुण्डे नरः स्नात्वा प्राप्नोत्यभिमतं जलम् ॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ 158.३० ॥
27
इहजन्मकृतं पापमन्यजन्मकृतं च यत् ॥
शीघ्रं नश्यति तत्सर्वं कीर्त्तनात्केशवस्य तु ॥३१॥
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने॥
नरके पच्यमानस्य गतिर्देवि जनार्दनः ॥ ३२ ॥
कृत्वा प्रदक्षिणं देवि विश्रामं कुरुते तु यः ॥
नारायणसमीपे तु सोऽनन्तफलमश्नुते ॥३३॥
सुप्तोत्थितं हरिं दृष्ट्वा मथुरायां वसुन्धरे ॥
न तस्य पुनरावृत्तिर्जायते स चतुर्भुजः ॥ ३४॥
कुमुदस्य तु मासस्य नवम्यां तु वसुन्धरे ॥
प्रदक्षिणीकृत्य भुवं सर्वपापैः प्रमुच्यते ॥ ३५ ॥
ब्रह्मघ्नश्च सुरापश्च गोघ्नो भग्नव्रतस्तथा ॥
मथुरां तु परिक्रम्य पूतो भवति मानवः ॥ ३६ ॥
अष्टम्यां प्राप्य मथुरां दन्तधावनपूर्वकम् ॥
ब्रह्मचर्येण तां रात्रिं कृतसङ्कल्पमानसः ॥ ३७ ॥
धौतवस्त्रस्तु सुस्नातो मौनव्रतपरायणः ॥
प्रदक्षिणं तु कुर्वीत सर्वपातक नाशनम् ॥३८॥
प्रदक्षिणां प्रकुर्वाणमन्यो यः स्पृशते नरः ॥
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥३९॥
मथुरायां नरो गत्वा दृष्ट्वा देवं स्वयम्भुवम् ॥
प्रदक्षिणायां यत्पुण्यं तत्पुण्यं लभते नरः ॥ 158.४० ॥
देवस्याग्रे तु वसुधे कूपं तु विमलोदकम्॥
पितरश्चाभिनन्दन्ति पानीयं पिण्डमेव च ॥४१॥
चतुःसामुद्रिकं नाम त्रिषु लोकेषु विश्रुतम् ॥
तत्र स्नातो नरो भद्रे देवैश्च सह मोदते ॥ ४२ ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥४३ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रभावो नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥