अथ मलयार्जुनतीर्थादिस्नानादिप्रशंसा ॥
श्रीवराह उवाच ॥
यमुनापारमुल्लङ्घ्य तत्रैव च महामुने ॥
मलयार्जुनकं तीर्थं कुण्डं तत्र च विद्यते ॥ १ ॥
पर्यस्तं तत्र शकटं भिन्नभाण्डकुटीघटम् ॥
तत्र स्नानोपवासाभ्यामनन्तं फलमश्रुते ॥ २ ॥
द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासे वसुन्धरे ॥
तत्र स्नानेन दानेन महापातकनाशनम् ॥ ३ ॥
ज्येष्ठस्य शुक्लद्वादश्यां स्नात्वा सुनियतेन्द्रियः ॥
मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥ ४ ॥
यमुनासलिले स्नातः शुचिर्भूत्वा जितेन्द्रियः ॥
समभ्यर्च्याच्युतं सम्यक्प्राप्नोति परमां गतिम् ॥ ५ ॥
अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः ॥
अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ६ ॥
इति गायन्ति पितरः परलोकगताः सदा ॥
द्वादश्यां ज्येष्ठमासे तु समभ्यर्च्य जनार्दनम् ॥ ७ ॥
धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति ॥
तत्रैव तु महातीर्थे वने बहुलसञ्ज्ञके ॥ ८ ॥
तत्र स्नातो नरो देवि रुद्रलोके महीयते ॥
द्वादश्यां चैत्रमासे तु शुक्लपक्षे वसुन्धरे ॥ ९ ॥
तत्र स्नातो नरो याति मम लोकं न संशयः ॥
अस्ति भाण्डह्रदं नाम परपारेषु दुर्ल्लभम् ॥ 157.१० ॥
दृश्यन्तेऽहरहस्तत्र आदित्याः शुभकारिणः ॥
तत्र चार्कस्थले कुण्डे स्नानं यः कुरुते नरः ॥ ११ ॥
सर्वपापविनिर्मुक्तः सूर्यलोकं व्रजेन्नरः ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ १२ ॥
अर्कस्थलसमीपे तु कूपं तु विमलोदकम् ॥
सप्तसामुद्रिकं नाम देवानामपि दुर्ल्लभम् ॥ १३ ॥
तत्र स्नानेन वसुधे स्वच्छन्दगमनालयः ॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ १४ ॥
तत्र वीरस्थलं नाम क्षेत्रं गुह्यं परं मम ॥
आसन्नसलिलं चैव पद्मोत्पलविभूषितम् ॥ १९ ॥
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः ॥
स मत्प्रसादात्सुश्रोणि वीरलोके महीयते ॥ १६ ॥
अथाऽत्र मुञ्चते प्राणान्ममलोकं स गच्छति ॥
कुशस्थलं च तत्रैव पुण्यं पापहरं शुभम् ॥ १७ ॥
तत्र स्नातो नरो देवि ब्रह्मलोके महीयते॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥१८॥
तत्र पुष्पस्थलं नाम शिवक्षेत्रमनुत्तमम् ॥
तत्र स्नानेन मनुजः शिवलोके महीयते ॥ १९ ॥
ख्याता एते पञ्च देशा महापापविनाशनाः ॥
तेषु स्नानेषु वसुधे ब्रह्मणा सह मोदते ॥157.२०॥
तत्र गोपीश्वरो नाम महापातकनाशनः ॥
कृष्णस्य रमणार्थं हि सहस्राणि च षोडश ॥ २१ ॥
गोप्यो रूपाणि चक्रे च तत्र क्रीडनके हरिः ॥
यदा बालेन कृष्णेन भग्नार्जुनयुगं तथा ॥२२॥
शकटं च तदा भिन्नं घटभाण्डकुटीरकम् ॥
ताभिस्तत्रैव गोविन्दं क्रीडन्तं च यदृच्छया ॥ २३ ॥
परिष्वज्य हि धर्मेण व्याजेन च सुगोपितम् ॥
मातलिस्तत्र चागत्य देवैरुक्तं यथोदितम् ॥ २४ ॥
गोपवेषधरं देवमभिषेकं चकार ह ॥
आनीय सप्त कलशान्रत्नौषधिपरिप्लुतान् ॥ २९ ॥
गोपीमण्डलपातेन स्नापितो हेमकुण्डलः ॥
गोप्यो गायन्ति नृत्यन्ति कृष्ण कृष्ण इति ब्रुवन् ॥ २६ ॥
तत्र गोपीश्वरं देवं मातलिः स्थाप्य पूजितम् ॥
कूपं च स्थापयामास माङ्गल्यैः कलशैः शुभैः ॥ २७ ॥
सप्तसामुद्रिकं नाम कूपं तु विमलोदकम् ॥
देवस्याग्रे तु वसुधे गोपा यस्य महात्मनः ॥ २८ ॥
पितरश्चापि नन्दन्ति पानीयं पिण्डमेव च ॥
सप्तसामुद्रिके कूपे यः श्राद्धं सम्प्रदास्यति ॥२९॥
पितरस्तारितास्तेन कुलानां सप्तसप्ततिः ॥
सोमवारे त्वमायां वै पिण्डदानं करोति यः ॥ 157.३० ॥
पितरस्तस्य तृप्यन्ति कोटिवर्षशतान्यलम् ॥
गोविन्दस्य च देवस्य तथा गोपीश्वरस्य च ॥ ३१ ॥
मध्ये तु मरणं यस्य शक्रस्यैति सलोकताम् ॥
तथा बहुलरुद्रस्य गोविन्दस्यैव मध्यतः ॥३२॥
तद्वद्ब्रह्माणमाशास्य गोपीशस्यैव मध्यतः ॥
एतेषु स्नानदानेन पिण्डपातेन भामिनि ॥ ३३ ॥
नरस्तारयते पुंसां दश पूर्वान्दशापरान् ॥
एषु स्नातो नरो देवि देवैश्च सह मोदते ॥ ३४ ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति॥
वसुपत्रं महातीर्थं पुण्यं परममुत्तमम् ॥ ३५ ॥
मथुरादक्षिणे पार्श्वे क्षेत्रं फाल्गुनकं तथा ॥
तत्र स्नात्वा च पीत्वा च परलोके महीयते ॥ ३६ ॥
तत्र फाल्गुनके चैव तीर्थे परमदुर्ल्लभे ॥
वृषभाञ्जनकं नाम क्षेत्रं मे दुर्ल्लभं महत् ॥ ३७ ॥
तत्राभिषेकं यः कुर्यात्स देवैः सह मोदते ॥
तत्र यो मुञ्चते प्राणान्मम लोकं स गच्छति ॥ ३८ ॥
अस्ति तालवनं नाम धेनुकासुररक्षितम् ॥
मथुरापश्चिमे भागे अदूरादर्द्धयोजनम् ॥ ३९ ॥
तत्र कुण्डं स्वच्छजलं नीलोत्पलविभूषितम् ॥
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ॥ 157.४० ॥
अस्ति सम्पीठकं नाम अस्मिन् क्षेत्रे परं मम ॥
तत्र कुण्डं विशालाक्षि प्रसन्नसलिलं शुभम् ॥४१॥
तत्र स्नानं च ये कुर्युरेकरात्रोषिता नराः॥
अग्निष्टोम फलं चैव लभन्ते नात्र संशयः ॥ ४२ ॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
देवकीगर्भसम्भूतो वसुदेवगृहे शुभे ॥ ४३ ॥
तत्र पुण्येन हि मया रविराराधितः शुभः ॥
लब्धः प्राज्ञो मया पुत्रो रूपवांश्च गुणान्वितः ॥४४॥
तत्रैवं तु ततो दृष्टः पद्महस्तो दिवाकरः ॥
मासि भाद्रपदे देवी तिग्मतेजा विभावसुः ॥४५॥
सप्तम्यां कृष्णपक्षस्य रविस्तिष्ठति सर्वदा ॥
तस्मिन्नहनि यः स्नानं कुर्यात्कुण्डे समाहितः ॥४६॥
न तस्य दुर्ल्लभं लोके सर्वदाता दिवाकरः ॥
आदित्येऽहनि सम्प्राप्ते सप्तम्यां तु वसुन्धरे ॥ ४७ ॥
नरो वाप्यथवा नारी प्राप्नोत्यविकलं फलम् ॥
तत्रैव तु तपस्तप्तं राज्ञा शन्तनुना पुरा ॥ ४८ ॥
आदित्यं तु पुरः स्थाप्य प्राप्तो भीष्मो महाबलः ॥
शन्तनुः प्राप्य तं पुत्रं गतो ऽसौ हस्तिनापुरम् ॥४९॥
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ॥ 157.५० ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये मलयार्जुनतीर्थादिस्नानादि प्रशंसा नाम सप्तपञ्चाशदधिकशततमोध्यायः ॥ १५७ ॥