१५५

अथाऽक्रूरतीर्थप्रभावः ॥
श्रीवराह उवाच ॥
पुनरन्यत्प्रवक्ष्यामि मर्त्त्यलोके सुदुर्लभम् ॥
अनन्तं विदितं तीर्थमचलं ध्रुवमव्ययम् ॥ १ ॥
तत्र .नित्यं स्थितो देवि लोकानां हितकाम्यया ॥
मां दृष्ट्वा मनुजा देवि मुक्तिभाजो भवन्ति ते ॥ २ ॥
अयने विषुवे चैव तथा विष्णुपदीषु च ॥
अनन्तं तं समासाद्य मुच्यते सर्वपातकैः ॥ ३ ॥
अक्रूरेति च विख्यातं मम क्षेत्रं वसुन्धरे ॥
तत्र स्नात्वा महाभागे राहुग्रस्ते दिवाकरे ॥ ४ ॥
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥
तीर्थराजं हि चाक्रूरं गुह्यानां गुह्यमुत्तमम् ॥ ५ ॥
तत्स्नानात्फलमाप्नोति प्रयागस्नानजं फलम् ॥
अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ॥ ६ ॥
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि ॥
धनधान्यसमायुक्तः सुतयुक्तः सदैव हि ॥ ७ ॥
बन्धुपुत्रकलत्रैश्च गृहे प्रीतिरनुत्तमा ॥
पुत्रदारसमेतस्य मयि भक्तिर्वसुन्धरे ॥ ८॥
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा ॥
करोति गृहकृत्यानि धनोपायेन नित्यशः ॥ ९ ॥
मानकूटं तुलाकूटं न करोति स कर्हिचित् ॥
एवं च वसतस्तस्य बहवो वत्सरा गताः ॥ 155.१० ॥
नित्यं कालं च कुरुते हरिपूजनमुत्तमम् ॥
पुष्पदीपप्रदानेन चन्दनेन सुगन्धिना ॥ ११ ॥
उपहारेण दिव्येन धूपेन च सुगन्धिना ॥
एकादश्यां तु कुरुते पक्षयोरुभयोरपि ॥ १२ ॥
उपवासं तु कुरुते रात्रौ जागरणं तथा ॥
स गच्छति यथाकालमक्रूरं तीर्थमुत्तमम् ॥ १३ ॥
तत्रागत्य ममाग्रेऽसौ नृत्यते शुभदर्शनः ॥
सुधनस्तु वणिक्श्रेष्ठः कदाचिद्रात्रिजागरे ॥ १४ ॥
चलमानो गृहीतस्तु चरणे ब्रह्मरक्षसा ॥
कृष्णवर्णी महाकाय ऊर्ध्वकेशो भयङ्करः ॥ १५ ॥
पादे गृहीत्वा वसुधे इदं वचनमब्रवीत् ॥ १६ ॥
राक्षसोऽहं वणिक्श्रेष्ठ वसामि वनमाश्रितः ॥
त्वामद्य भक्षयिष्यामि तृप्तिं यास्यामि शाश्वतीम् ॥ १७ ॥
सुधन उवाच ॥
प्रतीक्षस्व क्षणं मेऽद्य दास्यामि तव पुष्कलम् ॥
भक्षयिष्यसि मे गात्रं मिष्टान्नपरिपोषितम् ॥ १८ ॥
जागरं देवदेवस्य कर्तुमिच्छामि राक्षस ॥
मम व्रतं सार्वकालं यज्जागर्मि हरेः पुरः ॥ १९ ॥
तत्र जागरणं कृत्वा प्रभाते तव सन्निधौ ॥
आगमिष्याम्यहं शीघ्रमादित्योदयनं प्रति ॥155.२० ॥
ततः खादिष्यसे गात्रं विनिवृत्तस्य जागरात् ॥
विष्णुतुष्ट्यै व्रतमिदमारब्धं सर्वकामदम् ॥ २१ ॥
मा कुरु व्रतभङ्गं मे रक्षो नारायणस्य हि ॥
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम् ॥ २२ ॥
सुधनस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः ॥
उवाच मधुरं वाक्यं वणिजं प्रति सादरम् ॥ २३ ॥
मिथ्या प्रभाषसे साधो त्वं पुनः कथमेष्यसि ॥
को हि रक्षोमुखाद्भ्रष्टो मानुषो यो निवर्त्तते॥२४॥
राक्षसस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत्॥
सत्यमूलं जगत्सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥२५॥
सिद्धिं लभन्ते सत्येन ऋषयो वेदपारगाः ॥
यद्यहं च वणिक् पूर्वं कर्मणा न हि दूषितः ॥२६॥
प्राप्तश्च मानुषो भावो विहितेनान्तरात्मना ॥
शृणु मत्समयं रक्षो येनाहं पुनरागमम्॥२७॥
कृत्वा जागरणं तत्र नृत्यं कृत्वा यथासुखम् ॥
पुनरेष्याम्यहं रक्षो नासत्यं विद्यते मयि ॥२८॥
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ॥
सत्योत्तीर्णा हि राजानः सत्येन वसुधा धृता ॥ २९॥
स्वर्गमिच्छन्ति सत्येन मोक्षः सत्येन लभ्यते॥
सत्येन सूर्यस्तपति सोमः सत्येन राजते ॥155.३०॥
यमः सत्येन हरति सत्यादिन्द्रो विराजते॥
तत्सत्यं मम नश्येत यद्यहं नागमे पुनः ॥ ३१ ॥
परदारांस्तु यो गच्छेत्काममोहप्रपीडितः ॥ ३२ ॥
तस्य पापेन लिप्येऽहं यदि नायामि ते पुरः ॥ ३३ ॥
दत्त्वा च भूमिदानं यो ह्यपकारं करोति च ॥
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ ३४ ॥
पूर्वं भुक्त्वा स्त्रियं यस्तु सुखमाप्य विहृत्य च ॥
द्वेषात्तां यदि चेज्जह्यात्तस्यायं मे भवत्वलम् ॥ ३५ ॥
पङ्क्तिभेदं तु यः कुर्यादेकपङ्क्त्याशिनां धुवम् ॥
तस्य पापेन लिप्येऽहं नागन्ता यदि ते पुरः ॥ ३६ ॥
अमावस्यां महारक्षः श्राद्धं कृत्वा स्त्रियं व्रजेत् ॥
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ ३७ ॥
अष्टाष्टमी त्वमावास्या उभे पक्षे चतुर्दशी ॥
अस्नातानां गतिं यास्याम्यहं वै नागमे पुनः ॥ ३८ ॥
गुरोर्भ्रातुः सुतस्यापि सख्युर्वै मातुलस्य च ॥
व्यवस्यति च यन्नारी यो मोहेन विमोहितः ॥ ३९ ॥
अभिगच्छति मन्दात्मा तत्पापं मे भवेत्तदा ॥
राजपत्नीं ब्रह्मपत्नीं विधवां योऽभिगच्छति ॥ 155.४० ॥
तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥
यस्तु कन्यां सकृद्दत्त्वा अन्यस्मै चेत्पुनर्ददेत् ॥ ४१ ॥
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥
राजयाजकयाज्याश्च ये च वै ग्रामयाजकाः ॥४२ ॥
तेषां पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे ॥४३॥
या गतिस्तां प्रपद्येऽहं यद्यहं नागमे पुनः ॥
श्रीवराह उवाच॥
सुधनस्य वचः श्रुत्वा सन्तुष्टो ब्रह्मराक्षसः ॥४४॥
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते॥
ब्रह्मराक्षसमुक्तोऽसौ वणिक् तु दृढनिश्चयः॥४५॥
पुनर्नृत्यति चैवाग्रे मम भक्तो व्यवस्थितः ॥
अथ प्रभातसमये नृत्यचित्तोऽति कोविदः॥४६॥
पुनः पुनर्वै उच्चार्य नमो नारायणाय च॥
निवृत्ते जागरे सोऽथ कालिन्दीसलिलाप्लुतः ॥४७॥
दृष्ट्वा मां दिव्यरूपं तु गतोऽसौ मथुरां पुरीम्॥
दृष्टश्चाग्रे त्वहं तेन पुरुषो दिव्यरूपवान् ॥४८॥
स च पृष्टो मया देवि क्व भवान्प्रस्थितो द्रुतम् ॥
पुरुषस्य वचः श्रुत्वा सुधनो वाक्यमब्रवीत् ॥४९॥
अहं गच्छामि त्वरितो ब्रह्मराक्षससन्निधौ ॥
निवारयामास तदा न गन्तव्यं त्वयानघ॥155.५०॥
जीवतो धर्ममाहात्म्यं मृते धर्मः कुतो यशः ॥
पुरुषस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत् ॥ ५१- ॥
तत्र सत्यं वदिष्यामि यास्ये राक्षससन्निधौ ॥
आगतोऽहं महाभाग नर्त्तयित्वा यथासुखम् ॥ ५२ ॥
विष्णवे लोकनाथाय चागतो हरिजागरात् ॥
इदं शरीरं मे रक्षो भक्षयस्व यथेप्सितम् ॥ ५३ ॥
यथान्यायं विधानेन यथा वा तव रोचते ॥
नोक्तपूर्वं मयाऽसत्यं कदाचिदपि राक्षस ॥ ५४ ॥
तेन सत्येन मां भुङ्क्ष्व ब्रह्मराक्षस दारुण ॥
वणिजस्तु वचः श्रुत्वा ततोऽसौ ब्रह्मराक्षसः ॥ ५५ ॥
उवाच मधुरं वाक्यं सुधनं तदनन्तरम् ॥
साधु तुष्टोऽस्मि भद्रं ते सत्यं धर्मश्च पालितः ॥५६॥
वणिक् त्वं चातिविज्ञस्तु यस्य ते गतिरीदृशी ॥
जागरस्य समस्तस्य मम पुण्यं प्रयच्छ वै ॥ ५७ ॥
सत्यपुण्यप्रभावेण यथाहं मुक्तिमाप्नुयाम् ॥
सुधन उवाच॥
नाहं दास्यामि ते पुण्यं नृत्यस्य नरभोजन ॥ ५८ ॥
अर्द्धं वाथ समस्तं वा प्रहरं चार्द्धमेव वा ॥
सुधनस्य वचः श्रुत्वा अब्रवीद्ब्रह्मराक्षसः ॥ ५९ ॥
एकनृत्यस्य मे पुण्यं दद त्वं वणिगुत्तम ॥
सुधन उवाच ॥
नाऽहं दास्यामि ते पुण्यं यथोक्तं च समाचर ॥ 155.६० ॥
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः ॥
यत्ते गुह्यं महाभाग सर्वं तत्कथयस्व मे ॥ ६१ ॥
सुधनस्य वचः श्रुत्वा विहसित्वाह राक्षसः ॥
किं त्वं मां च विजानासि प्रतिवासि ह्यहं तव ॥ ६२ ॥
अग्निदत्तस्तु वै नाम छान्दसो ब्राह्मणोत्तमः ॥
इष्टकांस्तु हरन्नित्यं परकीयांश्च सर्वदा ॥ ६३ ॥
मृतस्सुगृहकामेन राक्षसत्वमुपागतः ॥
मया त्वं हि यथा प्राप्त उपकारं कुरुष्व मे ॥ ६४ ॥
एकविश्रामपुण्यं मे देहि त्वं वणिगुत्तम ॥
कृपया तु समायुक्तो वणिग्वचनमब्रवीत् ॥ ६५ ॥
साधु राक्षस दत्तं ते एकनृत्यं मया तव ॥
एकनृत्यप्रभावेण राक्षसो मुक्तिमागतः ॥ ६६ ॥
श्रीवराह उवाच ॥
सुधनस्तु ततो देवि विश्वरूपं जनार्दनम् ॥
अग्रतस्तु स्थितं देवं दृष्ट्वाऽसौ धरणीं गतः ॥६७॥
उवाच मधुरं वाक्यं देवदेवो जनार्दनः॥
चतुर्भुजो दिव्यतनुः शङ्खचक्रगदाधरः ॥ ६८ ॥
विमानवरमारुह्य मम लोकं व्रजस्व च ॥
इत्युक्त्वा माधवो देवस्तत्रैवान्तरधीयत ॥ ६९ ॥
सुधनः सशरीरोऽपि सकुटुम्बो दिवं ययौ ॥
विमानवरमारुह्य विष्णोर्लोकं जगाम ह ॥ 155.७० ॥
एष तीर्थप्रभावो वै कथितस्ते वसुन्धरे ॥
अक्रूराच्च परं तीर्थं न भूतं न भविष्यति ॥ ७१ ॥
तस्य तीर्थप्रभावेण सुधनो मुक्तिमाप्तवान् ॥
द्वादशी शुक्लपक्षे तु कुमुदस्य च वा भवेत्॥७२॥
तस्मिन्स्नातस्य वसुधे राजसूयफलं भवेत् ॥
कार्त्तिकीं समनुप्राप्य तत्तीर्थे तु वसुन्धरे ॥७३॥
वृषोत्सर्गं नरः कुर्वंस्तारयेत्सकुलोद्भवान् ॥
श्राद्धं यः कुरुते सुभ्रु कार्तिक्यां प्रयतो नरः ॥ ७४ ॥
पितरस्तारितास्तेन सदैव प्रपितामहाः ॥ ७५ ॥
इति श्रीवराहपुरणे मथुरामाहात्म्ये अकूर तीर्थप्रभावो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥