१५४

अथ यमुनातीर्थप्रभावः ॥
वराह उवाच ॥
एवंविधां च मथुरां दृष्ट्वा तौ मुदमापतुः ॥
एवं तु वसतस्तस्य राज्ञस्तत्र वसुन्धरे ॥ १ ॥
पप्रच्छ च तदा भार्या यद्गुह्यं पूर्वभाषितम् ॥
पुरस्थेन तदा राज्ञा वक्ष्यामि मथुरां प्रति॥२॥ ॥
तन्मे वद महाराज यद्गोप्यं पूर्वभाषितम् ॥
राजाप्युवाच तां राज्ञीं त्वयाप्युक्तं पुरा मम ॥ ३ ॥
तद्वदस्व स्वकं गुह्यं पश्चाद्वक्ष्याम्यहं तव ॥
इत्युक्त्वा पीवरी ज्ञात्वा प्रहस्य तु गुणालया ॥ ४ ॥
प्रोवाच चैव राजानं मनसः प्रीतिकारणम् ॥
अहं तु पीवरी नाम गङ्गातीरनिवासिनी ॥ ५ ॥
आगतेमां पुरीं द्रष्टुं कुमुदस्य तु द्वादशीम् ॥
नावमारुह्य यान्तीह पतिता यमुनाजले ॥ ६ ॥
सद्यः प्राणैर्वियुक्ता च तत्तीर्थस्य प्रभावतः ॥
काशीराजपतेः कन्या यातास्मि वसुधाधिप ॥ ७ ॥
त्वया विवाहिता राजन्न च मां विजहात्स्मृतिः ॥
एतत्तीर्थप्रभावेण धर्मयुक्ता तथाऽनघ॥८॥
धारापतनके तीर्थे त्यक्त्वा जीवितमात्मनः॥
एतच्छ्रुत्वा ततो राजा कथां प्राग्जन्मसम्भवाम् ॥ ९ ॥
स्वां चाप्यकथयत्तस्यै यथा संयमने मृतः ॥
एवं तौ मथुरां प्राप्य स्नात्वा यामुनतीर्थके ॥ 154.१० ॥
मां पश्यन्तौ नियमतस्तत्रैव निधनं गतौ ॥
मृतौ सर्वपरित्यक्तौ गतौ मम सलोकताम् ॥ ११ ॥
एतत्ते कथितं देवि आश्चर्यं यदभून्महत् ॥
त्यक्त्वा चात्मतनुं तीर्थे धारापतनसञ्ज्ञके ॥ १२ ॥
नाकलोकमवाप्नोति त्यक्तपापो न संशयः ॥
यमुनेश्वरमासाद्य त्यक्त्वा जीवितमात्मनः ॥१३॥
विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः ॥
धारापतनके स्नात्वा नाकलोके स मोदते ॥१४॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
अतः परं नागतीर्थं तीर्थानामुत्तमोत्तमम्॥१५॥
यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
घण्टाभरणकं तीर्थं सर्वपापप्रमोचनम् ॥ १६॥।
यस्मिन्स्नातो नरो याति सूर्यलोकं न संशयः ॥
अथाऽत्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ १७ ॥
पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
तीर्थानामुत्तमं तीर्थं ब्रह्मलोकेषु विश्रुतम् ॥ १८ ॥
तत्र स्नात्वा च पीत्वा च नियतो नियताशनः ॥
ब्रह्मणा समनुज्ञातो मम लोकं स गच्छति ॥ १९ ॥
सोमतीर्थे तु वसुधे पवित्रे यमुनाम्भसि ॥
यत्र पश्यति मां सोमो द्वापरे युगसंस्थिते ॥ 154.२० ॥
तत्राभिषेकं कुर्वीत स्वकर्मपरिनिष्ठितः ॥
मोदते सोमलोके तु एवमेव न संशयः ॥ २१ ॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
सरस्वत्याश्च पतनं सर्वपापहरं शुभम् ॥ २२ ॥
तत्र स्नातो नरो देवि अवर्णोऽपि यतिर्भवेत् ॥
पुनरन्यत्प्रवक्ष्यामि माथुरे मम मण्डले ॥ २३ ॥
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः॥
स्नानमात्रेण मनुजो मुच्यते ब्रह्महत्यया ॥ २४ ॥
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
दशाश्वमेधमृषिभिः पूजितं सर्वदा मुदा ॥ २५ ॥
तत्र ये स्नान्ति नियतास्तेषां स्वर्गो न दुर्लभः ॥
मथुरापश्चिमे पार्श्वे सततं त्वृषिपूजितम् ॥ २६ ॥
ब्रह्मणा सृष्टिकाले तु मनसा निर्मितं पुरा ॥
मानसं नाम तीर्थं तु ऋषिभिः पूजितं पुरा ॥ २७ ॥
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
तीर्थं तु विघ्नराजस्य पुण्यं पापहरं शुभम् ॥ २८ ॥
यत्र स्नातान्मनुष्यांश्च विघ्नराजो न पीडयेत् ॥
अष्टम्यां च चतुर्दश्यां चतुर्थ्यां तु विशेषतः ॥ २९ ॥
तस्मिंस्तीर्थवरे स्नातं न पीडयति विघ्नराट् ॥
विद्यारम्भेषु सर्वेषु यज्ञदानक्रियासु च ॥ 154.३० ॥
अविघ्नं कुरुते तस्य सततं पार्वतीसुतः ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ ३१ ॥
ततः परे कोटितीर्थे पवित्रं परमं स्मृतम् ॥
तत्र वै स्नानमात्रेण गवां कोटिफलं लभेत् ॥ ३२ ॥
तथात्र मुञ्चते प्राणाल्ँलोभमोहविवर्जितः ॥
सोमलोकमतिक्रम्य मम लोकं च गच्छति ॥ ३३ ॥
अतः परं शिवक्षेत्रमर्द्धक्रोशं तु दुष्करम् ॥
तत्र स्थितो हरो देवो मथुरां रक्षते सदा ॥३४॥
तत्र स्नात्वा च पीत्वा च माथुरं लभते फलम् ॥
अथाऽत्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ ३५ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये यमुनातीर्थप्रभावो नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥ १५४ ॥