१५२

अथ मथुरातीर्थ प्रशंसा ॥
सूत उवाच ॥
श्रुत्वा देवस्य माहात्म्यं लोहार्गलनिवासिनः ॥
त्रैलोक्यनाथाधिपतेर्विस्मयं परमं गता ॥ १ ॥
धरण्युवाच ॥
पद्मपत्र विशालाक्ष लोकनाथ जगत्पते ॥
त्वत्प्रसादाच्च देवेश श्रुतं शास्त्रं महौजसम् ॥ २ ॥
तव शिष्या च दासी च त्वामहं शरणङ्गता ॥
जगद्धाता जगज्ज्योतिर्जगत्प्रभुरतन्द्रितः ॥ ३ ॥
तव सम्भावनाद्देव जातास्मि कनकोज्ज्वला ॥
अलङ्कृता च शस्ता च सर्वशास्त्रेण मानद ॥४ ॥
जगद्धातुर्जगच्छास्त्रकृते न हि परिश्रमः ॥
त्वय्यायत्तं जगत्सर्वं यच्च किञ्चित्प्रवर्त्तते ॥ ५ ॥
इति कृत्वा च मे देव त्वाह्लादो हृदि वर्त्तते ॥
लोहार्गलात् परं श्रेष्ठं गुह्यं परमदुर्लभम् ॥ ६ ॥
तीर्थं तद्वद कल्याणं तीर्थानामुत्तमोत्तमम् ॥
यदस्ति दुर्लभं तीर्थं तत्त्वं कथय मे प्रभो ॥ ७ ॥
श्रीवराह उवाच ॥
न विद्यते च पाताले नान्तरिक्षे न मानुषे ॥
समानं मथुराया हि प्रियं मम वसुन्धरे ॥ ८ ॥
सूत उवाच ॥
तच्छ्रुत्वा वचनं तस्य प्रियं च वसुधा तदा ॥
प्रणम्य शिरसा देवी वराहं पुनरब्रवीत् ॥९ ॥
पृथिव्युवाच॥
पुष्करं नैमिषं चैव पुरीं वाराणसीं तथा ॥
एतान्हित्वा महाभाग मथुरां किं प्रशंसति ॥ 152.१० ॥
श्रीवराह उवाच ॥
शृणु कार्त्स्न्येन वसुधे कथ्यमानं मयानघे ॥
मथुरेति च विख्यातं तस्मान्नास्ति परं मम ॥ ११ ॥
सा रम्या च सुशस्ता च जन्मभूमिस्तथा मम ॥
शृणु देवि यथा स्तौमि मथुरां पापहारिणीम् ॥ १२ ॥
तत्र वासी नरो याति मोक्षं नास्त्यत्र संशयः ॥
महामाघ्यां प्रयागे तु यत्फलं लभते नरः ॥ १३ ॥
तत्फलं लभते देवि मथुरायां दिने दिने ॥
पूर्णे वर्ष सहस्रं तु वाराणस्यां तु यत्फलम् ॥ १४ ॥
तत्फलं लभते देवि मथुरायां क्षणेन हि ॥
कार्त्तिक्यां चैव यत्पुण्यं पुष्करे तु वसुन्धरे ॥१५ ॥
तत्फलं लभते देवि मथुरायां जितेन्द्रियः ॥
मथुरां तु परित्यज्य योऽन्यत्र कुरुते रतिम् ॥ १६ ॥
मूढो भ्रमति संसारे मोहितो मम मायया ॥
यः शृणोति वरारोहे माथुरं मम मण्डलम् ॥ १७ ॥
अन्येनोच्चारितं शश्वत्सोऽपि पापैः प्रमुच्यते ॥
पृथिव्यां यानि तीर्थानि आसमुद्रं सरांसि च ॥ १८ ॥
मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने ॥
मथुरामण्डलं प्राप्य श्राद्धं कृत्वा यथाविधि ॥ १९ ॥
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः ॥
ये वसन्ति महाभागे मथुरामितरे जनाः ॥ 152.२० ॥
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ॥
कुब्जाम्रके सौकरवे मथुरायां विशेषतः ॥ २१ ॥
विना साङ्ख्येन योगेन मत्प्रसादान्न संशयः ॥
मथुरायां महापुर्यां ये वसन्ति शुचिव्रताः ॥२२ ॥
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः ॥
भविष्यामि वरारोहे द्वापरे युगसंस्थिते ॥ २३ ॥
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः ॥
भविष्यामि वरारोहे मथुरायां न संशयः ॥ २४ ॥
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः ॥
वत्सराणां शतं तत्र युद्धेषु कृतनिश्चयः ॥ २५ ॥
एका चन्दनसङ्काशा द्वितीया कनकप्रभा ॥
अशोकसदृशा चान्या अन्या चोत्पलसन्निभा ॥ २६ ॥
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ॥
पुण्यानि च पवित्राणि संसारच्छेदनानि च ॥ २७ ॥
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे ॥
दैत्यान्घोरान्महाभागे कंसादीन्धर्मदूषकान् ॥ २८ ॥
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ॥
वैवस्वतसुता रम्या यमुना यत्र विश्रुता ॥ २९॥
गङ्गां प्राप्य प्रयागे या वेणीति प्रथिता भुवि ॥
गङ्गाशतगुणा पुण्या माथुरे मम मण्डले ॥ 152.३० ॥
यमुना विश्रुता देवि नात्र कार्या विचारणा ॥
तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे ॥ ३१ ॥
येषु स्नाने नरो देवि मम लोके महीयते ॥
अथात्र मुञ्चते प्राणान्मम कर्मपरायणः ॥ ३२ ॥
न जायत स मर्त्त्येषु जायते च चतुर्भुजः ॥
अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम् ॥ ३३ ॥
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
विश्रान्तिसञ्ज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३४ ॥
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ॥
सर्वतीर्थेषु यत्स्नानं सर्वतीर्थेषु यत्फलम् ॥ ३५ ॥
तत्फलं लभते देवि दृष्ट्वा देवं गतश्रमः ॥
न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः ॥ ३६ ॥
तत्फलं लभते स्नातो यथा विश्रान्तिसञ्ज्ञके ॥
कालत्रयं तु वसुधे यः पश्यति गतश्रमः ॥ ३७ ॥
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ॥
अस्ति चान्यत्परं गुह्यं सर्वसंसारमोक्षणम् ॥३८॥
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ॥
प्रयागं नाम तीर्थं तु देवानामपि दुर्ल्लभम्॥३९॥
यस्मिन्स्नातो नरो देवि अग्निष्टोमफलं लभेत् ॥
इन्द्रलोकं समासाद्य नरोऽसौ देवि मोदते॥152.४०॥
अथात्र मुञ्चते प्राणान्मम लोके स गच्छति ॥
तथा कनखलं नाम तीर्थं गुह्यं परं मम ॥ ४१ ॥
स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ॥
अस्ति क्षेत्रं परं गुह्यं तिन्दुकं नाम नामतः॥४२॥
तस्मिन्स्नातो नरो देवि मम लोके महीयते ॥
अस्मिंस्तीर्थे पुरा वृत्तं तच्छृणुष्व वसुन्धरे ॥४३॥
पाञ्चालविषये देवि काम्पिल्यं च पुरोत्तमम्॥
धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् ॥ ४४ ॥
तस्मिंस्तु वसते देवि तिन्दुको नाम नापितः॥
तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे॥४५॥
कालेन महता तस्य कुटुम्बं च क्षयं गतम् ॥
क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः ॥ ४६ ॥
सर्वसङ्गं परित्यज्य सोऽगच्छन्मथुरां तदा ॥
ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे ॥४७॥
तस्य कर्मशतं कृत्वा स्नात्वैव यमुनां नदीम् ॥
नित्यं स यमुनां स्नाति चिरकालं दृढव्रतः॥४८॥
ततः कालेन महता पञ्चत्वं समुपागतः ॥
स च तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः ॥४९॥
तस्मिन् वरगृहे देवि ब्राह्मणो योगिनां वरः॥
जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ॥ 152.५० ॥
तत्तीर्थस्य प्रभावेण जाता मुक्तिः सुदुर्ल्लभा ॥
ततः परं सूर्यतीर्थं सर्वपापप्रमोचनम् ॥ ५१ ॥
वैरोचनेन बलिना सूर्यस्त्वाराधितः पुरा ॥
भ्रष्टराज्येन हि तथा धनकामेन सुन्दरि ॥५२ ॥
ऊर्द्ध्वबाहुर्निराहारस्तताप परमं तपः ॥
साग्रं संवत्सरं देवि ततः काममवाप्तवान् ॥५३॥
तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत॥
किं कारणं बले ब्रूहि तपस्यसि महत्तपः॥५४॥
बलिरुवाच॥
भ्रष्टराज्योऽस्मि देवेश पाताले निवसाम्यहम् ॥
वित्तेनापि विहीनस्य कुटुम्बभरणं कृतः ॥५५॥
मुकुटात्तस्य वै सूर्यो ददौ चिन्तामणिं ततः ॥
चिन्तामणिं समासाद्य पातालमगमद्बलिः ॥ ५६ ॥
तस्मिंस्तीर्थे नरः स्नातः सर्वपापैः प्रमुच्यते ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ ५७ ॥
आदित्याहनि सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः ॥
तस्मिन्स्नातो नरो देवि राजसूयफलं लभेत् ॥५८ ॥
ध्रुवेण यत्र सन्तप्तं स्वेच्छया परमं तपः ॥
तत्र वै स्नानमात्रेण ध्रुवलोके महीयते ॥ ५९ ॥
तत्राथ मुञ्चते प्राणान्मम लोके महीयते ॥
ध्रुवतीर्थे तु वसुधे यः श्राद्धं कुरुते नरः ॥152.६० ॥
पितॄंस्तारयते सर्वं पितृपक्षे विशेषतः ॥
दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्तितम् ॥ ६१ ॥
तस्मिन् स्नाते नरो देवि मम लोकं प्रपद्यते ॥
तद्दक्षिणे महादेवि ऋषितीर्थं परं मम ॥ ६२ ॥
तत्र स्नातो नरो देवि ऋषिलोकं प्रपद्यते ॥
अथात्र मुञ्चते प्राणान्मम लोके महीयते ॥६३॥
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥
तत्र वै स्नानमात्रेण मोक्षमेव प्रपद्यते ॥६४ ॥
तत्र वै कोटितीर्थं हि देवानामपि दुर्ल्लभम्॥
तत्र स्नानेन दानेन मम लोके महीयते ॥६५ ॥
कोटितीर्थे नरः स्नात्वा सन्तर्प्य पितृदेवताः ॥
तारिताः पितरस्तेन तथैव प्रपितामहाः ॥६६॥
कोटितीर्थे नरः स्नात्वा ब्रह्मलोके महीयते ॥
तत्रैव वायुतीर्थं तु पितॄणामपि दुर्ल्लभम् ॥ ६७ ॥
पिण्डदानात्तु तत्रैव पितृलोके स गच्छति ॥
गया पिण्डप्रदानेन यत्फलं लभते नरः ॥
तत्फलं लभते देवि ज्येष्ठे दानान्न संशयः ॥ ६८ ॥
द्वादशैतानि तीर्थानि देवानां दुर्ल्लभानि च ॥
स्नानं दानं जपं होमं सहस्रगुणितं भवेत् ॥६९॥
येषां स्मरणमात्रेण सर्वपापैः प्रमुच्यते॥
तीर्थानां चैव माहात्म्यं श्रुत्वा कामानवाप्नुयात् ॥152.७० ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रशंसा नाम द्वापञ्चाशदधिकशततमोऽध्यायः ॥ १५२॥