अथ सानन्दूरमाहात्म्यम् ॥
सूत उवाच ॥
द्वारकायास्तु माहात्म्यं श्रुत्वा ह्येतत्सुभाषितम् ॥
हृष्टावोचत्तदा देवं धर्मकामा वसुन्धरा ॥ १ ॥
धरण्युवाच ॥
अहो देव प्रसादश्च यत्त्वया परिकीर्त्तितम् ॥
श्रुत्वैतत्परमं पुण्यं प्राप्तास्मि परमां श्रियम् ॥ २ ॥
एतस्मादपि चेद्गुह्यं लोकनाथ जनार्दन ॥
यद्यस्ति प्रोच्यतां मह्यं कृपा चेत्परमा मयि ॥ ३ ॥
ततो महीवचः श्रुत्वा विष्णुः कमललोचनः ॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ॥४॥
श्रीवराह उवाच ॥
सानन्दूरेति विख्यातं भूमे गुह्यं परं मम॥
उत्तरे तु समुद्रस्य मलयस्य तु दक्षिणे ॥५॥
तत्र तिष्ठामि वसुधे उदीचीं दिशमाश्रितः ॥
प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका ॥ ६ ॥
आयसीं तां वदन्त्येके अन्ये ताम्रमयीं तया ॥
कांस्यां रीतिमयीमन्ये केचित्सीसकनिर्मिताम् ॥ ७ ॥
शिलामयीमित्यपरे महदाश्चर्यरूपिणीम् ॥
तत्र स्थानानि वै भूमे कथ्यमानानि वै शृणु ॥ ८ ॥
मनुजा यत्र मुच्यन्ते गताः संसारसागरम् ॥
तत्राश्चर्यं प्रवक्ष्यामि सानन्दूरे यशस्विनि ॥ ९ ॥
सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे ॥
यत्र रामगृहं नाम मम गुह्यं यशस्विनि ॥ 150.१०॥
तत्रापि शृणु चाश्चर्यं यश्चापि परिवर्त्तते ॥
एका तत्र लता वृक्षे उच्चैः स्थूलो महाद्रुमः ॥ ११ ॥
समुद्रमध्ये तिष्ठन्तं कोऽपि तत्र न पश्यति ॥
अन्यच्च ते प्रवक्ष्यामि महाश्चर्यं वसुन्धरे ॥ १२ ॥
मम भक्ता हि पश्यन्ति विद्यमाना स्वकर्मणा॥
बहुमत्स्यसहस्राणि कोट्यो ह्यर्बुदमेव च ॥ १३ ॥
क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्मिणा ॥
एकस्तत्र स्थूलमत्स्यो भूमे चक्रेण चाङ्कितः ॥ १४ ॥
तावत्कश्चिन्न गृह्णाति यावत्तेन न भक्षितः ॥
तत्र रामसरो नाम गुह्यं क्षेत्रं परं मम ॥ १५ ॥
अगाधं चाप्यपारं च रक्तपद्मविभूषितम् ॥
तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ॥ १६ ॥
बुधस्य भवनं गत्वा मोदते नात्र संशयः ॥
अथ प्राणान्प्रमुच्येत तस्मिन्सरसि सुन्दरि ॥१७॥
बुधस्य भवनं त्यक्त्वा मम लोकं प्रपद्यते ॥
तस्मिन्रामसरस्युच्चैराश्चर्यं शृणु सुन्दरि ॥१८ ॥
मनुजास्तन्न पश्यन्ति मम कर्मरता न ये ॥
तत्सरः क्रोशविस्तारं बहुगुल्मलतावृतम् ॥ १९ ॥
मनोज्ञं रमणीयं च जलजैश्चापि संवृतम् ॥
तत्र रूढानि पद्मानि द्योतयन्ति दिशो दश ॥150.२०॥
एकं तु दृश्यते श्वेतमब्जं रुक्ममयं तथा ॥
तत्र ब्रह्मसरस्युच्चैरुत्तरं पार्श्वमाश्रिता ॥२१ ॥
धारा चैका प्रपतति स्थूला मुसलसन्निभा ॥
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ॥ २२ ॥
ब्रह्मलोकं समासाद्य मोदते नात्र संशयः ॥
अथात्र मुञ्चते प्राणैर्भूमे ब्रह्मसरस्यपि ॥ २३ ॥
ब्रह्मणा समनुज्ञातो मम लोकं च गच्छति ॥
तत्राश्चर्यं महाभागे रम्ये ब्रह्मसरे शृणु ॥ २४ ॥
मद्भक्ता यच्च पश्यन्ति घोरसंसारमोक्षणम् ॥
चतुर्विंशतिद्वादश्यां सा धारा पृथुलेक्षणे ॥ २५ ॥
भूमे पतति मध्याह्ने यावत्सूर्यस्तु तिष्ठति ॥
परिवृत्ते तु मध्याह्ने सा धारा न पतेद्भुवि ॥ २६ ॥
एवं तत्र महाश्चर्यं पुण्यब्रह्मसरोवरे ॥
अस्ति सङ्गमनं नाम गुह्यं क्षेत्रं परं मम ॥ २७ ॥
समुद्रश्चैव रामश्च समेष्येते वराङ्गने ॥
तत्र कुण्डं महाभागे प्रसन्नविमलोदकम् ॥ २८ ॥
बहुगुल्मलताकीर्णं शोभितं च विहङ्गमैः ॥
समुद्रस्य तु पार्श्वेन ह्यदूरात्तत्र योजनात् ॥ २९ ॥
मण्डितं कुमुदैः पद्मैः सुगन्धैश्चोत्तमैस्तया ॥
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ॥ 150.३० ॥
समुद्रभवनं गत्वा मम लोकं प्रपद्यते ॥
तत्राश्चर्यं प्रवक्ष्यामि कुण्डं रामस्य सङ्गमे ॥ ३१ ॥
यद्दृष्ट्वा मनुजास्तत्र भ्रमन्ति विगतज्वराः ॥
यानि कानि च पर्णानि पतन्ति जलसंसदि॥३२॥
एकमप्यत्र पश्यन्ति न केपि वसुधे नराः ॥
अच्छिद्राणि च पत्राणि तस्मिन् रामस्य सङ्गमे॥३३॥
प्रपन्नेनापि मार्गं तच्छिद्रं तत्र न पश्यति॥
अस्ति शक्रसरो नाम गुह्यं क्षेत्रं परं मम॥३४॥
तत्र पूर्वेण पार्श्वेण ह्यदूरादर्द्धयोजनात् ॥
तस्य कुण्डस्य सुश्रोणि चतस्रो विषमाश्रिताः ॥ ३५ ॥
धाराः पतन्ति कल्याणि प्रसन्नसलिलास्तथा ॥
तत्र स्नानं प्रकुर्वीत चतुष्कालोषितो नरः ॥ ३६ ॥
चतुर्णां लोकपालानां लोकानाप्नोति चोत्तमान् ॥
अस्मिंश्च शक्रसरसि यदि प्राणान्प्रमुञ्चति ॥ ३७ ॥
लोकपालान्समुत्सृज्य मम लोकेषु मोदते ॥
तत्राश्चर्यं महाभागे दृश्यते तच्छृणुष्व मे ॥ ३८ ॥
शुद्धैर्भागवतैर्भूमे सर्वसंसार मोक्षणम् ॥
चतुर्धारास्ततो भद्रे पतन्ति चतुरो दिशः ॥ ३९ ॥
न च तद्वर्द्धते चाम्भो न चैव परिहीयते ॥
मासे भाद्रपदे चैव शुक्लपक्षे तु द्वादशी ॥ 150.४० ॥
श्रूयते गीतनिर्घोषः श्रुतिकर्ममनोहरः ॥
अस्ति सूर्पारकं नाम गुह्यं क्षेत्रं परं मम ॥ ४१ ॥
जामदग्न्यस्य रामस्य स्वाश्रमोऽथ भविष्यति ॥
तत्र तिष्ठाम्यहं देवि समुद्रतटमाश्रितः ॥ ४२ ॥
शाल्मलीं चाग्रतः कृत्वाधिष्ठितश्चोत्तरामुखः ॥
तत्र स्नानं प्रकुर्वीत पञ्चकालोषितो नरः ॥ ४३ ॥
ऋषिलोकं ततो गत्वा पश्येत्तत्राप्यरुन्धतीम् ॥
अथ प्राणान्विमुञ्चेत कृत्वा कर्म सुदुष्करम् ॥ ४४ ॥
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते ॥
तत्राश्चर्यं महाभागे नमस्कारं च कुर्वते ॥ ४५॥
वर्षाणि द्वादशैतेन नमस्कारः कृतो भवेत् ॥
तस्मिन्क्षेत्रे महाभागे पश्यन्ति परिनिष्ठिताः ॥ ४६ ॥
पापात्मानो न पश्यन्ति मम मायाविमोहिताः ॥
चतुर्विंशतिद्वादश्यां समुपायान्ति शाल्मलीम् ॥४७॥
तत्र पश्यन्ति सुश्रोणि शुद्धा भागवता नराः ॥
तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम ॥ ४८ ॥
जटाकुण्डमिति ख्यातं वायव्यां दिशि संस्थितम् ॥
तत्कुण्डस्य महाभागे समन्ताद्दशयोजनम् ॥ ४९ ॥
मलयस्य दक्षिणेन समुद्रस्योत्तरे तथा ॥
तत्र स्नानं तु कुर्वीत पञ्चकालोषितो नरः ॥ 150.५० ॥
अगस्तिभक्नं गत्वा मोदते नात्र संशयः ॥
अथ प्राणान्प्रमुञ्चेत मम चिन्तापरायणः ॥ ५१ ॥ ।
अगस्तिभवनं त्यक्त्वा मम लोकं तु गच्छति ॥
तस्य कुण्डस्य सुश्रोणि नव धारा न किञ्चन ॥ ५२ ॥
विस्तारश्च महाभागे अगाधश्च महार्णवः ॥
आश्चर्यं सुमहत्तत्र कथ्यमानं मया शृणु ॥ ५३ ॥
यच्च पश्यति सुश्रोणि समन्तादितरो जनः ॥
चतुर्विंशतिद्वादश्यां रवावभ्युदिते सति ॥ ५४ ॥
न वर्द्धते ततश्चाम्भो यावत्तिष्ठति तत्पुनः ॥
एतत्ते कथितं भद्रे सानन्दूरेति तन्मया ॥ ५५ ॥
आश्चर्यं च प्रमाणं च भक्तिकीर्त्तिविवर्द्धनम् ॥
गुह्यानां परमं गुह्यं स्थानानां परमं महत् ॥ ५६ ॥
यस्तु गच्छति सुश्रोणि अष्टभक्तपथे स्थितः ॥
प्राप्नोति परमां सिद्धिं ममैव वचनं यथा ॥५७॥
य एतत्पठते नित्यं यश्चैवं शृणुयान्मुदा ॥
कुलानि तेन तीर्णानि षट् च षट् च पुनश्च षट् ॥ ५८ ॥
एतन्मरणकाले न विस्मर्त्तव्यं कदाचन ॥
यदीच्छेद्विष्णुलोके हि निष्कलं गमनं नरः ॥ ५९ ॥
एतत्ते कथितं भद्रे त्वया पृष्टं च मां प्रति ॥
उक्तं भागवतार्थाय किमन्यत्परिपृच्छसि ॥150.६० ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे सानन्दूरमाहात्म्यं नाम पञ्चाशदधिकशततमोऽध्यायः ॥१५०॥