१४९

अथ द्वारकामाहात्म्यम् ॥
सूत उवाच ॥
श्रीस्तुतस्वामिमाहात्म्यं श्रुत्वा धर्मपरायणा ॥
परितुष्टमना देवी वाक्यमेतदुवाच ह॥१ ॥
धरण्युवाच॥
एतच्छ्रुत्वा तु माहात्म्यं देव देववर प्रभो ॥
मम चित्तस्य परमा जाता शान्तिरनुत्तमा ॥२॥
नाराचधारावरणासिधारी सुररिपुवधकारी धरणीधरः ॥
धृतशङ्खगदाब्जचक्रपाणिः स्वयमिह शास्त्रमुदावहत्प्रधानम्॥३॥
एवं हि गुणमाहात्म्यं स्तुतस्वामिनि मच्छ्रुतम् ॥
अस्माच्चेदं परं श्रेष्ठं तन्मे वद कृपानिधे ॥४ ॥
श्रीवराह उवाच ॥
एवं भूमे वरं श्रेष्ठे फुल्लपङ्कजमालिनि ॥
कथयिष्यामि चान्यत्ते गुह्यं पापभयापहम् ॥५ ॥
द्वापरं युगमासाद्य यादवानां कुलोद्वहः ॥
शौरीति तत्र विख्यातो भविष्यति पिता मम ॥ ६ ॥
द्वारकेति च विख्याता पुरी तत्र स्थिताऽभवत् ॥
या च देवपुरी रम्या विश्वकर्मविनिर्मिता ॥ ७ ॥
पञ्चयोजनविस्तारा दशयोजनमायता ॥
वसाम्यत्र वरारोहे शतपञ्चसमास्तथा ॥ ८ ॥
भारावतरणं कृत्वा देवानां सुमहत्प्रियम् ॥
पुनरप्यागमिष्यामि स्वर्लोकं प्रति सुन्दरि ॥ ९ ॥
भविष्यति वरारोहे ईश्वरः सदृशो मम॥
दुर्वासा इति विख्यातः शपिष्यति कुलं मम ॥ 149.१० ॥
तस्य शापाभिसन्तापाद्द्वारकावासिनो धरे ॥
वृष्ण्यन्धकाश्च भोजाश्च गमिष्यन्ति यमक्षयम् ॥ ११ ॥
चन्द्रपाण्डुरसङ्काशो वनमाली हलायुधः ॥
हलेनाकृष्य नगरं समुद्रं गमयिष्यति ॥ १२॥
नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा ॥
उभौ तौ चरणौ गृह्य पुनः पप्रच्छ माधवी ॥१३॥
धरण्युवाच ॥
लोकनाथोऽसि सर्वेषां देव मायाकरण्डक ॥
शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे ॥ १४ ॥
श्रीवराह उवाच ॥
तत्र जाम्बवती नाम मम पत्नी भविष्यति ॥
रूपयौवनसम्पन्ना मम भोगसमन्विता ॥ १५ ॥
तस्याः पुत्रो महाभागो रूपयौवनदर्पितः ॥
साम्ब इत्यभिविख्यातो ममैव सततं प्रियः ॥ १६ ॥
तेनैव क्रीडमानेन कृत्वा गर्भमतथ्यतः ॥
स पृष्टः परमश्रेष्ठ ऋषिरेषा प्रसोष्यति ॥ १७॥
पुत्रकामा त्वियं बाला मुने तत्प्रब्रवीहि मे ॥
साम्बोऽयमिति च ज्ञात्वा स मुनिः कोपमूर्च्छितः ॥ १८ ॥
उवाच तर्हि ते गर्भान्मुसलं कुलनाशनम् ॥
येन वृष्ण्यन्धकाः सर्वे गमिष्यन्ति यमक्षयम् ॥ १९ ॥
श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः ॥
शापेन सन्तप्तधियो मामूचुर्भयसंयुताः ॥149.२० ॥
ततस्तानागतान्दृष्ट्वा कुमारान् पृष्टवानहम् ॥
ते च मामब्रुवन्सर्वे यथावृत्तं समुत्सुकाः ॥ २१ ॥
तच्च तेषां वचः श्रुत्वा प्रोक्तवानस्मि तच्छृणु ॥
भविष्यति न सन्देहो दुर्वासा यदुवाच ह ॥२२॥
एवं ते कथितं भूमे वृष्ण्यादेः शापकारणम् ॥
तत्र स्थानानि मे भूमे कथ्यमानानि मे शृणु ॥ २३ ॥
द्वारकायां महाभागे वैष्णवानां सुखावहे ॥
अस्ति पञ्चसरो नाम गुह्यं क्षेत्रं परं मम ॥ २४ ॥
समुद्रतीरमुत्सृज्य मम कर्मसुखावहम् ॥
तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ॥ २५ ॥
मोदते नाकपृष्ठे तु अप्सरोगणसङ्कुले ॥
अथात्र मुञ्चते प्राणान्क्षेत्रे पञ्चसरे मम ॥२६॥
देवलोकं समुत्सृज्य मम लोके महीयते ॥
प्लक्षो वै तत्र सुश्रोणि शतशाखो महाद्रुमः ॥ २७ ॥
सुफलैः शोभनैः कुम्भाकृतिभिर्बहुभिः फलैः ॥
बहवस्तत्र गच्छन्ति लाभलौल्येन मानवाः॥२८॥
फलं न लभते कश्चिन्मुक्त्वा भागवतं नरम् ॥
लभन्ते ये फलं तत्र मुक्ताः पापेन कर्मणा ॥ २९ ॥
ते लभन्ते परां सिद्धिं मम कर्मणि संस्थिताः ॥
प्रभासमिति विख्यातं तस्मिंस्तीर्थे परे मम ॥ 149.३० ॥
मनुजा यं न पश्यन्ति रागलोभसमन्विताः ॥
तत्र स्नानं प्रकुर्वीत पञ्चभक्तोषितो नरः ॥ ३१ ॥
मोदते सप्तद्वीपेषु गुह्यानि च स गच्छति ॥
अथ चेन्मुञ्चते प्राणान्प्रभाते गतकिल्बिषः ॥३२ ॥
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ॥
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥३३॥
प्रभासे यत्र शृण्वन्ति सागरे न म (ग) रं प्रति ॥
मकरास्तत्र दृश्यन्ते भ्रममाणा इतस्ततः ॥३४॥ ॥
न किञ्चिदपराध्यन्ति स्नायमाना जले ततः ॥
अथात्र प्रक्षिपेत्पिण्डान्प्रसन्ने सलिले नरः ॥ ३५ ॥
असम्प्राप्ते च गृह्णन्ति एवमेतन्न संशयः ॥
पापकर्मरतस्यापि न गृह्णन्ति जलं प्रति ॥३६॥
धर्मात्मनां च गृह्णन्ति पिण्डमेव न संशयः ॥
पञ्चपिण्डमिति ख्यातं तस्मिन्गुह्यं परं मम ॥३७॥
अगाधस्याप्यपारस्य क्रोशविस्तार एव च ॥
तत्राभिषकं कुर्वीत पञ्चकालोषितो नरः ॥ ३८ ॥
मोदते शक्रलोके स एवमेतन्न संशयः ॥
अथात्र मुञ्चते प्राणान्पञ्चकुण्डे यशस्विनि ॥३९॥
शक्रलोकं परित्यज्य मम लोकं स गच्छति ॥
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥149.४० ॥
न पश्येत्पापकर्मा वै शुभकर्मैव पश्यति ॥
चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ॥४१ ॥
रौप्यं सुवर्णकं पद्मं दृश्यते नात्र संशयः ॥
क्षेत्रं सङ्गमनं नाम तस्मिंस्तीर्थे परं मम ॥४२॥
चतुर्धाराः पतन्त्यत्र मणिपूरगिरिं श्रिताः ॥
तत्राभिषेकं कुर्वीत चतुर्भक्तोषितो नरः ॥४३॥
वैखानसेषु लोकेषु मोदते नाऽत्र संशयः ॥
अथात्र मुञ्चते प्राणान्मम् भक्तिपरायणः ॥ ४४ ॥
त्यक्त्वा वैखानसाल्ँलोकान्मम लोकं स गच्छति ॥
तत्रापि परमाश्चर्यं कथ्यमानं शृणुष्व मे ॥ ४५॥
दृश्यन्ते यानि कुण्डेषु मणिपूरगिरौ तथा ॥
प्रक्षीयमाणे पापे तु नयते तज्जलं भुवि ॥४६॥
स्नायमानेषु पापेषु न पतेत्तद्यथा पुरा ॥
हंसकुण्डेति विख्यातं तस्मिन्क्षेत्रे परे मम ॥४७॥
धारा चैका पतत्यत्र मणिपूरगिरौ श्रिता ॥
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥ ४८ ॥
मुक्तसङ्गो महाभागे मोदते वरुणालये ॥
अथाऽत्र मुञ्चते प्राणान् हंसकुण्डे वरानने ॥४९॥
वारुणं लोकमुत्सृज्य मम लोके महीयते ॥
तत्राश्चर्यं प्रवक्ष्यामि हंसकुण्डे यशस्विनि ॥ 149.५० ॥
शुद्धाः पश्यन्ति मनुजाः पापकर्मा न पश्यति ॥
चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ॥५१॥
हंसाश्चैवात्र दृश्यन्ते चन्द्रकुन्दसमप्रभाः ॥
हंसान्पश्यति यस्तत्र भ्रममाणानितस्ततः ॥५२॥
लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः ॥
कदम्बमिति विख्यातं तस्मिन्क्षेत्रे परं मम ॥५३॥
वृष्णयो यत्र वै शुद्धाः सम्प्राप्ताश्च ममालयम् ॥
तत्राभिषेकं कुर्वीत चतुःकालोषितो नरः ॥ ५६ ॥
मोदते ऋषिलोकेषु पुण्यात्मा वै न संशयः ॥
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥ ५५ ॥
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते ॥
तत्राश्चर्यं महाभागे कथ्यमानं शृणुष्व मे ॥ ५६ ॥
कदम्बात्पतते धारा तत्र पूर्वविनिःसृता ॥
स कदम्बो महाभागे माघमासस्य द्वादशी ॥ ५७ ॥
पुष्पाणि वै प्रकटयत्युदयस्थे दिवाकरे ॥
ये वा लभन्ते तत्पुष्पं मम मार्गानुसारिणः ॥ ५८ ॥
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ॥
चक्रतीर्थमिति ख्यातं तस्मिन्क्षेत्रे परं मम ॥ ५९ ॥
पञ्च धाराः पतन्त्यत्र मणिपूरसमाश्रिताः ॥
तत्राभिषेकं कुर्वीत पञ्चकालोषितो नरः ॥ 149.६० ॥
दशवर्षसहस्राणि स्वर्गलोके स मोदते ॥
अथात्र मुञ्चते प्राणाल्ँलोभमोहविवर्जितः ॥ ६१ ॥
सर्वान्स्वर्गान्समुत्सृज्य मम लोकं स गच्छति॥
तत्राश्चर्यं प्रवक्ष्यामि कथ्यमानं शृणुष्व मे ॥ ६२ ॥
अन्यथैतन्न पश्यन्ति मम कर्मपरायणाः ॥
चतुर्विंशतिद्वादश्यामर्द्धरात्रे यशस्विनि ॥ ६३ ॥
श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः ॥
सुगन्धो वहते वायुर्बहुमाल्यसमन्वितः ॥ ६४ ॥
दुर्ल्लभः पापिनां चैव सुलभः पुण्यकर्मिणाम्॥
तस्य चोत्तरपार्श्वेन अशोकश्च महाद्रुमः ॥ ६५॥
पुष्प्यते सोऽथ तत्रापि सूर्ये चाभ्युदिते सति ॥
ये तत्र लभते पुष्पं मम मार्गानुसारिणः ॥६६॥
ते लभन्ते परां सिद्धिं एवं भूमे न संशयः ॥
अस्ति रैवतकं नाम तस्मिन् क्षेत्रे परं मम ॥६७॥
सर्वलोकेषु विख्यातं यत्र विक्रीडितं मया ॥
बहुगुल्मलताकीर्णं बहुपुष्पैश्च शोभितम् ॥६८॥
बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश ॥
वाप्यश्च कन्दराश्चैव देवानामपि दुर्ल्लभाः ॥ ६९ ॥
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥
गच्छेत्तु सोमलोकं तु कृतकृत्यो न संशयः ॥149.७०॥
अथात्र मुञ्चते प्राणान्मम कर्मसु निष्ठितः ॥
सोमलोकं समुत्सृज्य मम लोकं प्रपद्यते ॥ ७१ ॥
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥
पश्यन्ति मनुजाः सर्वे धर्मकामा न संशयः ॥ ७२ ॥
पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि ॥
एकं चापि न दृश्येत प्रसन्नं याति तज्जलम् ॥७३ ॥
स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः ॥
अपरो मम पार्श्वेन देवानामपि दुर्ल्लभः ॥ ७४ ॥
पञ्चक्रोशसुविस्तारः शोभते वै महाद्रुमः ॥
पद्मैश्चैवोत्पलैश्छन्नं सुगन्धिकुसुमैः सह ॥७५॥
बहुमत्स्यजलाकीर्णं सर्वतस्तु फलान्वितम्॥
शिलातलागुहाच्छन्नं सुगन्धिकुसुमैः सह॥ ७६ ॥
तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः ॥
मोदते नन्दने दिव्ये अप्सरोभिः समन्विते ॥ ७७ ॥
अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥
पश्यन्ति मनुजाः सर्वे धर्मकामा न संशयः ॥ ७८॥
मध्याह्ने च पुनः पूर्णश्चार्द्धरात्रे समो वहेत्॥
वर्द्धते क्षीयते चैव यथैव च महोदधिः ॥७९ ॥
तस्य पश्चिमपार्श्वे तु बिल्वश्चैव महाद्रुमः ॥
चतुर्विंशतिद्वादश्यां स पुष्यति च निष्कलम् ॥ 149.८० ॥
पश्येत्तु शुभकर्मा च पापकर्मा न पश्यति ॥
दृश्यते च महाभागे अस्तमेते दिवाकरे ॥ ८१ ॥
यस्तत्र लभते पुष्पं मम मार्गानुसारकः ॥
स लभेत परां सिद्धिमेवं भूमे न संशयः ॥ ८२ ॥
विष्णुसङ्क्रमणं नाम तस्मिन्क्षेत्रे परे मम ॥
विद्धोऽस्मि यत्र व्याधेन स्वमूर्त्तिं चास्थितः पुनः ॥ ८३ ॥
तत्र कुण्डं महाभागे मणिपूरगिरा श्रुतम् ॥
धारा चैका पतत्यत्र लाभालाभविवर्जितः ॥ ८४ ॥
सूर्यलोकं समुत्सृज्य मम लोके महीयते ॥
तत्राश्चर्यं प्रवक्ष्यामि विष्णुं शत्रुगणेश्वरम् ॥ ८५ ॥
पापिनां यस्तु दुर्दर्शः सुदृश्यः पुण्यचारिणाम् ॥
तस्य दक्षिणपार्श्वेन अश्वत्थो वै महाद्रुमः ॥ ८६ ॥
चतुर्विंशतिद्वादश्यां मध्याह्ने तु दिवाकरे ॥
फलते स यथान्यायं सर्वभागवतप्रियम् ॥ ८७ ॥
उच्चश्चैव विशालश्च मनोज्ञश्चैव शीतलः ॥
ये लभन्ते फलं तत्र मम मार्गानुसारिणः ॥ ८८ ॥
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ॥
तस्मिन् क्षेत्रे महाभागे तिष्ठामि चोत्तरामुखः ॥ ८९ ॥
सर्वभागवतप्रीतिं समुद्रतटमाश्रितः ॥
अहं रामेण सहितः सा चाप्येकादशी शुभा ॥ 149.९० ॥
त्रयस्तत्रैव तिष्ठामो द्वारकायां यशस्विनि ॥
तस्मिन् क्षेत्रे महाभागे त्रयो मोदामहे वयम् ॥ ९१ ॥
त्रिंशद्योजनविस्तारः सर्वतस्तु दिशो दश ॥
तत्र गत्वा वरारोहे ये मां द्रक्ष्यन्ति भक्तितः ॥ ९२ ॥
अदीर्घेणैव कालेन प्राप्नुवन्ति परां गतिम् ॥
आख्यानानां महाख्यानं शान्तीनां शान्तिरुत्तमा ॥ ९३ ॥
धर्माणां परमो धर्मो द्युतीनां परमा द्युतिः ॥
लाभानां परमो लाभः क्रियाणां परमा क्रिया ॥ ९४ ॥
श्रुतीनां परमं श्रेष्ठं तपसा च परं तपः ॥
एतन्मरणकालेऽपि मा कदाचित्तु विस्मरेत् ॥ ९९ ॥
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति ॥
य एतत्पठते भद्रे कल्यमुत्थाय मानवः ॥ ९६ ॥
सकुल्यास्तारितास्तेन सप्त सप्त च सप्त च॥
एतत्ते कथितं भद्रे द्वारकायाः सुनिश्चयम् ॥ ९७ ॥
उचितेनोपचारेण किमन्यत्परिपृच्छति ॥ ९८ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे द्वारकामाहात्म्यं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॥१४९॥