अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम् ॥
सूत उवाच ॥
शालग्रामस्य माहात्म्यं श्रुत्वा गुह्यं महौजसम् ॥
विस्मयं परमं गत्वा हृष्टा वचनमब्रवीत् ॥ १ ॥
धरण्युवाच ॥
अहो क्षेत्रस्य माहात्म्यं यत्त्वया भाषितं हरे ॥
एतच्छ्रुत्वा महाभाग जातास्मि विगतज्वरा ॥ २ ॥
रुरुषण्डमिति प्रोक्तं यत्त्वया परमार्च्चितम् ॥
रुरुर्नाम कथं को वा आसीत्पूर्वं जनार्दन ॥ ३ ॥
यन्नाम्ना परमं क्षेत्रं हृषीकेश त्वयाश्रितम् ॥
कथयस्व जगन्नाथ यद्यनुग्राह्यता मयि ॥ ४ ॥
श्रीवराह उवाच ॥
आसीत्पुरा महाभागो देवदत्त इति द्विजः ॥
भृगुवंशे समुत्पन्नो वेदवेदाङ्गपारगः ॥५॥
यज्ञविद्यासु कुशलो व्रतनिष्ठोऽतिथिप्रियः ॥
तत्राश्रमपदं पुण्यं पुण्यद्रुमलतान्वितम्॥६॥
शान्तैर्मृगगणैः कीर्णं कन्दमूलफलान्वितम् ॥
तत्र तीव्रं तपोऽतप्यद्देवदत्तो मुनीश्वरः ॥७॥
वर्षाणामयुतं साग्रं तत इन्द्रो व्यचिन्तयत् ॥
कामं वसन्तसहितं गन्धर्वान् स सखीन्पुनः ॥ ८ ॥
उवाच मधुरं वाक्यं क्षुब्धेन्द्रियमनाः प्रभुः ॥
अहो सखायः किञ्चिन्मे महत्कार्यमुपस्थितम् ॥ ९ ॥
तस्य मे चिन्तयानस्य यूयमेव परा गतिः ॥
भवत्प्रसादात्स्वस्थोऽहं निर्भयस्तद्विचिन्त्यताम् ॥ 146.१० ॥
तदिन्द्रस्य वचः श्रुत्वा ते काममलयानिलाः ॥
प्रत्यूचुर्देवराजानमाज्ञापय निजं प्रियम् ॥ ११ ॥
जितेन्द्रियस्यापि मनः कस्य सङ्क्षोभयामहे ॥
कं वा सुतीव्रात्तपसो भ्रंशयामः सुपेशलम् ॥ १२ ॥
आज्ञाप्रसादं ते लब्ध्वा वद शीघ्रं सुखी भव ॥
इत्युक्तः शतमन्युर्वै प्रत्युवाचाऽथ मानयन् ॥ १३ ॥
तदैव मे गता चिन्ता भवतां दर्शनं यदा ॥
जातमेवाऽखिलं कार्यं मम तच्छृणुताखिलाः ॥ १४ ॥
हिमशैले महारम्ये हृषीकेशाश्रितो मुनिः ॥
देवदत्त इति ख्यातस्तपस्यति महत्तपः ॥१५॥
जिघृक्षुर्मे पदं नूनं तत्तपो विनिवर्त्यताम् ॥
इत्युक्तास्ते तदाज्ञां वै गृहीत्वा शिरसा द्रुतम् ॥ १६ ॥
प्रस्थानाय मतिं चक्रुः कामदेवपुरःसराः ॥
प्रस्थाप्याग्रे वसन्तं च मलयानिलमेव च ॥ १७ ॥
ततः सुरपतिः शक्रः प्रम्लोचां नाम नामतः ॥
प्रशस्य प्रणयात्पूर्वं मानयन्निदमब्रवीत् ॥ १८॥
गच्छ स्वस्तिमती देवि विजयाय मुनेर्भुवि ॥
यत्राश्रमपदं तस्य देवदत्तस्य वै मुनेः ॥ १९ ॥
ललितैः स्वैर्विलासैस्तं मोहयित्वा वशं कुरु ॥
यथा मत्प्रीतिरतुला त्वं मे कार्यकरी सदा ॥146.२०॥
तथा कुरुष्व भद्रं ते हृषीकेशसमीपतः ॥
इन्द्रस्याज्ञां समादाय ययौ तस्याश्रमं प्रति ॥ २१ ॥
समीपोपवने रम्ये नानाद्रुमलताकुले ॥
मधुरालापबहुले कोकिलानां कलाकुले ॥ २२ ॥
रसालमञ्जरीव्याप्तरसामोदालिसङ्कुले ॥
गुञ्जन्मत्तालिसन्नादश्रुतिश्रुतिधरान्विते ॥ २३ ॥
गन्धर्वगीतसम्मिश्रे मलयानिलशीतले ॥
सम्फुल्लपङ्कजवने सुनिर्मलजलाशये ॥ २४ ॥
मुनिप्रभावसन्त्यक्तक्रौर्यस्थलजलाशये ॥
मधुरामोदमधुरे चित्तक्षोभविधायिनि ॥२५॥
प्रविश्य सा वरारोहा गीतं सुमधुरं जगौ ॥
यदा ध्यानादुपरतः समाधेर्विरताश्चिरात् ॥२६॥
गान्धर्वं प्रारभंस्ते तु गन्धर्वाः सुरसम्मताः ॥
तस्मिन्नेव क्षणे लब्ध्वाऽवसरं पञ्च सायकः ॥ २७ ॥
विचकर्ष धनुः पौष्पं सायकान् समयूयुजत् ॥
संलक्ष्य तं मुनिं शान्तं भाविदैवबलात्कृतम् ॥२८॥
श्रुत्वा तन्मधुरं गीतं पञ्चमालापसुन्दरम् ॥
क्षुब्धचित्तः समभवत्स मुनिः संशितव्रतः ॥२९॥
चकर्ष च धनुः कामः पुनःपुनरतन्द्रितः ॥
देवव्रतोऽपि स मुनिः क्षुब्धात्मा नियतोऽपि सन्॥146.३०॥
विचचाराश्रमपदं पश्यन्सन्तुष्टमानसः॥
दूराद्ददर्श तन्वङ्गीं क्रीडन्तीं कन्दुकेन ताम्॥३१॥
दृष्ट्वैव तां तु चार्वङ्गीं विद्धः कामेन पत्रिणा ॥
तस्याः समीपमगमत्स्मयमानो महामुनिः ॥३२॥
सापि दृष्ट्वा देवदत्तं सज्जन्ती हरिणेक्षणा ॥
कटाक्षयन्ती सहसा लज्जमाना विगूहति ॥ ३३ ॥
करेण कन्दुकं घ्नन्ती चञ्चलाक्षी सुपेशला ॥
स्रंसता केशपासेन गलत्पुष्पेण राजता ॥ ३४ ॥
मनो हरन्ती तस्यर्षेः ललितैर्विभ्रमोद्भवैः ॥
एतस्मिन्नन्तरे तस्या दक्षिणः पवनोऽहरत्॥३५॥
वासः सूक्ष्मङ्गलन्नीवि काञ्चीदामगुणान्वितम् ॥
पुष्पबाणोऽप्यविध्यत्तं दृष्ट्वा ऽवसरमन्तिके ॥३६॥
सम्मोहितः स तु मुनिर्गत्वान्तिकमथाब्रवीत् ॥
का त्वं कस्यासि सुभगे वनेऽस्मिन्किञ्चिकीर्षसि ॥ ३७ ॥
मादृशान्किं मृगयसे बाहुपाशेन वा मृगान् ॥
बद्ध्वा गृहीत्वा वामोरु किं वाऽस्मान्कर्त्तुमिच्छसि॥३८॥
सर्वथाऽस्मांस्तवाधीनान् यद्यद्वा कारयिष्यति ॥
तत्तत्कुर्मो वयं नित्यं तदधीनाः स्म सर्वथा ॥३९॥
अथ तां हसमानां च गृहीत्वा दक्षिणे करे॥
समालिङ्ग्य विषज्जन्तीं रमयामास मोहितः ॥146.४०॥’
रममाणस्तया सार्द्धं भुञ्जन्भोगान् मनोरमान् ॥
तपःप्रभावोपनतान्दिवारात्रमतन्द्रितः ॥४१ ॥
बहूनहर्गणानेवं रममाणो यदृच्छया ॥
सुप्तोत्थित इवाकस्माद्विवकेन समन्वितः ॥४२॥
निर्वेदं प्राप्तवान्सद्यस्तदोवाच भृशातुरः ॥
अहो भागवती माया ययाहं भृशमोहितः ॥ ४३ ॥
जानन्नपि तपोभ्रंशं प्राप्तो दैवबलात्कृतः ॥
अग्निकुण्डसमा नारी घृतकुम्भसमः पुमान् ॥४४॥
इति प्रवादो मूर्खाणां विचारान्महदन्तरम् ॥
घृतकुम्भोऽग्नि योगेन द्रवते न तु दर्शनात् ॥४५॥
पुमांस्त्रीदर्शनादेव द्रवते यद्विमोहितः ॥
नापराधस्त्वतो नार्याः स्वयं यदजितेन्द्रियः ॥४६॥
इत्युक्त्वाऽसौ निवृत्तात्मा विससर्ज सुराङ्गनाम् ॥
प्रम्लोचा दैववशगो मनस्येतदचिन्तयत् ॥ ४७ ॥
उपसर्गो महानत्र तपसो भ्रंशकारकः ॥
त्यक्त्वाश्रममिमं चान्यत्स्थानं गत्वा समाहितः ॥ ४८ ॥
तपस्तीव्रं समास्थाय शोषयिष्ये कलेवरम् ॥
इति निश्चित्य मनसा गत्वा भृग्वाश्रमं प्रति ॥४९॥
गण्डकीसङ्गमे स्नात्वा सन्तर्प्य पितृदेवताः ॥
विष्णुं शिवं च सम्पूज्य तपःस्थानं विचिन्तयन् ॥146.५० ॥
पश्यन्भृग्वाश्रमं रम्यमुत्तरं गतवान् शनैः ॥
गण्डक्याः पूर्वभागे तु विविक्तं विजनं शुभम् ॥ ५१ ॥
दृष्ट्वा तीरेषु विश्रान्तस्तपोभूमिमचिन्तयत् ॥
भृगुतुङ्गं समासाद्य शङ्कराराधने रतः ॥५२॥
अतप्यत तपो घोरं शिवदर्शनलालसः ॥
अथ दीर्घेण कालेन सन्तुष्टः स महेश्वरः ॥ ५३ ॥
लिङ्गरूपधरः साक्षादुपर्यपि तथा ह्यधः ॥
तिर्यक् च जलधाराभिर्युक्तस्तत्तापशान्तिकृत् ॥ ५४ ॥
उवाच च प्रसन्नात्मा मुने पश्य च मां शिवम् ॥
मामेवावेहि विष्णुं त्वं मा पश्यस्वान्तरं मम ॥ ५५ ॥
पूर्वमन्तरभावेन दृष्टवानसि यन्मम ॥
तेन विघ्नोऽभवद्येन गलितं त्वत्तपो महत् ॥ ५६ ॥
आवामेकेन भावेन पश्यंस्त्वं सिद्धिमाप्स्यसि ॥
तपःप्रभावाल्लिङ्गानि प्रादुर्भूतानि यत्र वै ॥५७॥
समङ्गमिति विख्यातमेतत्स्थानं भविष्यति ॥
स्नात्वाऽत्र गण्डकीतीर्थे मम लिङ्गानि योऽर्च्चयेत् ॥५८॥
तस्य योगफलं सम्यग्भविष्यति न संशयः ॥
इति दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥५९॥
देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् ॥
शिवोपदिष्टमार्गेण सायुज्यं परमं गतः ॥ 146.६० ॥
प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात् ॥
प्रसूतां कन्यकां त्यक्त्वा स्वर्गमेव जगाम ह ॥ ६१ ॥
पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता ॥
सापि कन्या मृगैस्तत्र रुरुभिर्वर्द्धिता सती ॥ ६२ ॥
रुरुरित्वेव विख्याता पितुरेवाश्रमे स्थिता ॥
युवभिः प्रार्थ्यमानापि चित्ते कञ्चन नाध्यगात् ॥५३॥
ततः सुनिश्चयं कृत्वा तपसे धृतमानसा ॥
चिन्तयन्ती जगन्नाथं भगवन्तं रमापतिम् ॥६४॥
मासे सा प्रथमे बाला फलाहारपरायणा ॥
एकान्तरं दिनं प्राप्य द्वितीये त्रिदिनान्तरे ॥ ६५॥
तृतीये पञ्चम दिने चतुर्थे सप्तमान्तरे ॥
पञ्चमे नवरात्रेण षष्ठे पञ्चदशाहके ॥ ६६ ॥
मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे ॥
त्यक्त्वा तान्यपि सा बाला वाय्वाहारा बभूव ह ॥ ६७ ॥
सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा ॥
समाधिना समा भूत्वा स्थाणुवन्निश्लाऽभवत् ॥ ६८ ॥
द्वन्द्वानि नाविदच्चापि आत्मभूतान्तरं विना ॥
परां काष्ठां समापन्ना प्रकाशमयकान्तिधृक् ॥ ६९ ॥
तत्तेजसा वृतं सर्वं तदा दृष्ट्वा वसुन्धरे ॥
अहं विस्मयमापन्नस्तस्याः प्रत्यक्षतां गतः ॥ 146.७० ॥
सन्निरुद्धेन्द्रियग्रामा नाचक्षत बहिःस्थितम् ॥
तदा हृषीकाण्याविश्य संहृत्य स्वं हृदो बहिः ॥ ७१ ॥
स्थितोऽहं वसुधे देवि अक्ष्णोः प्रत्यक्षतां गतः ॥
हृषीकाणि नियम्याहं यतः प्रत्यक्षतां गतः ॥ ७२ ॥
हृषीकेश इति ख्यातो नाम्ना तत्रैव संस्थितः ॥
सा मां यदैव नापश्यदुन्मील्य नयने ततः ॥ ७३ ॥
बहिः स्थितं च मां दृष्ट्वा प्रणनाम कृताञ्जलिः ॥
गद्गदस्वरसंयुक्ता अश्रुक्लिन्नविलोचना ॥ ७४ ॥
रोमाञ्चिततनुश्चासीत्कदम्बमुकुलाकृतिः ॥
तथा भूतां तु तां दृष्ट्वा प्रावोचमहमङ्गनाम् ॥ ७९ ॥
अयि बाले विशालाक्षि तुष्टोऽहं तपसस्तव ॥
वरं याचय मत्तस्त्वं यत्ते मनसि वर्त्तते ॥ ७६ ॥
अदेयमपि ते दद्मि यदन्येषां सुदुर्ल्लभम् ॥
इति श्रुत्वा प्रभोर्वाक्यं प्रणम्य च पुनः पुनः ॥ ७७ ॥
स्तुत्वा तं देवदेवेशं प्रबद्धकरसम्पुटा ॥
ददासि चेद्वरं मह्यं देवदेव जगत्पते ॥ ७८ ॥
अनेनैव स्वरूपेण भगवन्स्थातुमर्हसि ॥
स्थितोऽस्म्यत्रैव भद्रं ते अपरं वरयाशु मे ॥ ७९ ॥
दुर्लभं ते वरं दद्मि तपसाहं प्रतोषितः ॥
इत्युक्त्वा मां प्रणम्याह रुरुः सा संशितव्रता ॥ 146.८० ॥
यदि प्रसन्नो देवेश तदा मां कुरु पावनीम् ॥
मन्नाम्ना क्षेत्रमेतच्च ख्यातं भवतु नान्यथा ॥ ८१ ॥
तामहं देवि सुभगे प्रावोचं पुनरेव हि॥
तीर्थानां परमं तीर्थं तव देहो भवत्वयम् ॥ ८२ ॥
तव नाम्नां च विख्यातमेतत्क्षेत्रं भविष्यति ॥
तव तीर्थे कृतस्नानस्त्रिरात्रोपोषितो नरः॥८३॥
विलोक्य मां भवेत्पूतो मम वाक्यान्न संशयः ॥
ब्रह्महत्यादि पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि ॥ ८४ ॥
यास्यन्ति विलयं क्षिप्रमेवमेतन्न संशयः ॥
इति दत्त्वा वरांस्तस्यै तत्रैवान्तर्हितः स्थितः ॥ ८९ ॥
सापि कालेन सञ्जाता तीर्थभूता तथाऽभवत् ॥
एतत्ते कथितं देवि रुरुमाहात्म्यमुत्तमम् ॥ ८६ ॥
रुरुक्षेत्रस्य प्रभवमेतद्गुह्यं परं मम ॥८७॥
इति श्रीवराहपुराणे भगवच्छास्त्रे रुरुक्षेत्रऋषीकेशयोर्माहात्म्यं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः॥१४६॥