१४५

अथ सालग्रामक्षेत्रमाहात्म्यम् ॥
धरण्युवाच ॥
भगवन्देवदेवेश सालङ्कायनको मुनिः ॥
किं चकार तपः कुर्वंस्तव क्षेत्रे विमुक्तिदे ॥ १ ॥
श्रीवराह उवाच॥
अथ दीर्घेण कालेन स ऋषिः संशित व्रतः ॥
तप्यमानो यथान्यायं पश्यन्वै सालमुत्तमम् ॥ २ ॥
अभिन्नमतुलच्छायं विशालं पुष्पितं तथा ॥
मनोज्ञं च सुगन्धं च देवानामपि दुर्ल्लभम् ॥ ३ ॥
ऋषिर्ज्ञानपरिश्रान्तः सालङ्कायनकोऽद्भुतम् ॥
ददर्श च पुनः सालं शुभानां शुभदर्शनम् ॥ ४ ॥
ततो दृष्ट्वा महासालं परिश्रान्तो महामुनिः ॥
विश्रामं कुरुते तत्र द्रष्टुकामोऽथ मां मुनिः ॥ ५ ॥
सालस्य तस्य पूर्वेण स्थितः पश्चान्मुखो मुनिः ॥
मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत् ॥ ६ ॥
ततः पूर्वेण पार्श्वेन तस्य सालस्य सुन्दरि ॥
वैशाखमासद्वादश्यां मद्दर्शनमुपागतः ॥ ७ ॥
दृष्ट्वा मां तत्र स मुनिस्त पस्वी संशितव्रतः ॥
तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुनःपुनः ॥ ८ ॥
मत्तेजसा ताडिताक्षः शनैरुन्मील्य लोचने ॥
यावत्पश्यति मां तत्र स्तुवन्स तपसान्वितः ॥ ९ ॥
वृक्षस्य दक्षिणे पार्श्वे गतस्तावदहं धरे ॥
पूर्वस्थानं परित्यज्य स ऋषिः संशितव्रतः ॥ १४५.१० ॥
स्थित्वा मत्प्रमुखे चैव स्तुवन्नेवं मम प्रियम् ॥
ततोऽहं स्तूयमानौ वै ऋग्वेदस्यैव ऋग्गतैः ॥ ११ ॥
स्तोत्रैः सम्पूज्यमानो हि गतोऽहं पश्चिमां दिशम् ॥
ततः पश्चिमपार्श्वे तु स्थितस्तत्रैव माधवि ॥ १२ ॥
यजुर्वेदोक्तमन्त्रेण संस्तुतः पश्चिमां गतः ॥
स्तुवतीत्थं मुनौ देवि गतोऽहं चोत्तरां दिशम् ॥ १३॥
तत्रापि सामवेदोक्तैर्मन्त्रैस्तुष्टाव मां मुनिः ॥
ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि ॥ १४॥
प्राप्तश्च परमां प्रीतिं तमवोचमृषिं तदा ॥
साधु ब्रह्मन्महाभाग सालङ्कायन सत्तम ॥ १५ ॥
तपसानेन सन्तुष्टः स्तुत्या चैवानया तव ॥
वरं वरय भद्रं ते संसिद्धस्तपसा भवान् ॥ १६ ॥
एवमुक्तः स तु मया सालङ्कायनको मुनिः ॥
सालवृक्षं समाश्रित्य निभृतेनान्तरात्मना ॥ १७ ॥
ततो मां भाषते देवि स ऋषिः संशितव्रतः ॥
तवैवाराधनार्थाय तपस्तप्तं मया हरे ॥ १८ ॥
पर्यटामि महीं सर्वां सशैलवनकाननाम् ॥
इदानीं खलु दृष्टोऽसि चक्रपाणे महाप्रभो ॥ १९ ॥
यदि तुष्टोऽसि मे देव सर्वशान्तिकरः परः ॥
यदि देयो वरो मह्यं तपसाराधितेन च ॥ १४५.२० ॥
तदा देहि जगन्नाथ ममेश्वर समं सुतम् ॥
एष एव वरो मह्यं दीयतां मधुसूदन ॥ २१ ॥
एवं वरं याचितोऽस्मि मुनिना भीमकर्मणा ॥
पुत्रकामेन विप्रेण दीर्घ कालं तपस्यता ॥ २२ ॥
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य तपस्विनः ॥
मधुरां गिरमादाय प्रत्यवोचमृषिं प्रति ॥ २३ ॥
चिरकालं व्रतस्थेन यत्त्वया चिन्तितं मुने ॥
स कामस्तव सञ्जातः सिद्धोऽसि तपसा भवान् ॥ २४ ॥
ईश्वरस्य परा मूर्त्तिर्नाम्ना वै नन्दिकेश्वरः ॥
त्वद्दक्षिणाङ्गादुद्भूतः पुत्रस्तव मुनीश्वर ॥ २५ ॥
संहरस्व तपो ब्रह्मञ्शान्तिं गच्छ महामुने ॥
अथ चैतस्य जातस्य कल्पा वै सप्त सप्त च ॥ २६ ॥
त्वं न जानासि विप्रर्षे स जातो नन्दिकेश्वरः ॥
मायायोगबलोपेतो गोव्रजं स मया स्थितः ॥२७॥
मथुरायाः समानीय आमुष्यायणसञ्ज्ञितम् ॥
तव शिष्यं पुरस्कृत्य शूलपाणिरवस्थितः ॥२८॥
तत्राश्रमे महाभाग स्थित्वा त्वं तपसां निधे ॥
पुत्रेण परमप्रीतो मत्क्षेत्रेऽस्मत्समो भव॥२९॥
अन्यच्च गुह्यं वक्ष्यामि सालङ्कायन तच्छृणु ॥
तव प्रीत्या प्रवक्ष्यामि येनैतत्क्षेत्रमुत्तमम् ॥ १४५.३० ॥
शालग्राममिति ख्यातं तन्निबोध मुने शुभम् ॥
योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव न संशयः ॥ ३१ ॥
एतत्कोऽपि न जानाति विना देवं महेश्वरम् ॥
माययाऽहं निगूढोऽस्मि त्वत्प्रसादात्प्रकाशितः ॥ ३२ ॥
एवं तस्मै वरं दत्त्वा सालङ्कायनकाय वै ॥ ३३ ॥
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवम् ॥
वृक्षं दक्षिणतः कृत्वा जगाम स्वाश्रमं मुनिः ॥ ३४ ॥
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये ॥
शालग्राम इति ख्यातं भक्तसंसारमोक्षणम् ॥ ३५ ॥
तत्र गुह्यानि मे भूमे वक्ष्यमाणानि मे शृणु ॥
तरन्ति मनुजा येभ्यो घोरं संसारसागरम् ॥ ३६ ॥
गुह्यानि तत्र वसुधे तीर्थानि दश पञ्च च ॥
नाद्यापि किञ्चिज्जानन्ति मुच्यन्ते यैरिह स्थिताः ॥ ३७ ॥
तत्र बिल्वप्रभं नाम गुह्यं क्षेत्रं मम प्रियम् ॥
कुञ्जानि तत्र चत्वारि क्रोशमात्रे यशस्विनि ॥ ३८ ॥
हृद्यं तत्परमं गुह्यं भक्तकर्मसुखावहम् ॥
तत्र स्नानं तु कुर्वीत अहोरात्रोषितो नरः ॥ ३९ ॥
चतुर्णामश्वमेधानां फलं प्राप्नोति मानवः ॥
अथात्र मुञ्चते प्राणान्मम कर्मसु निष्ठितः ॥ १४५.४० ॥
अश्वमेधफलं भुक्त्वा मम लोके स मोदते ॥
चक्रस्वामीति विख्यातं तस्मिन्क्षेत्रे परं मम ॥ ४१ ॥
चक्राङ्कितशिलास्तत्र दृश्यन्ते च इतस्ततः ॥
चक्राङ्कितशिला यत्र वरवर्णिनि तिष्ठति ॥ ४२ ॥
तदेतद्विद्धि वसुधे समन्ता द्योजनत्रयम् ॥
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः ॥४३॥
त्रयाणामपि यज्ञानां फलं प्राप्नोति निश्चितम् ॥
अथात्र मुञ्चते प्राणान्मम कर्म परायणः ॥ ४४ ॥
वाजपेयफलं भुक्त्वा मम् लोकं च गच्छति॥
तत्र विष्णुपदं नाम क्षेत्रं गुह्यं परं मम ॥४५॥
तिस्रो धाराः पतन्त्यत्र हिमकूटं समाश्रिताः ॥
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः॥४६॥
त्रयाणामपि रात्रीणां फलं प्राप्नोति निष्कलम् ॥
तथैव मुञ्चते प्राणान्मुक्तसङ्गो गत क्लमः ॥ ४७ ॥
अतिरात्रफलं भुक्त्वा मम लोके महीयते ॥
तत्र कालीह्रदं नाम गुह्यं क्षेत्रं परं मम ॥ ४८ ॥
अत्र चैव ह्रदस्रोतो बदरीवृक्षनिःसृतः ॥
तत्र स्नानं तु कुर्वीत षष्टिकालोषितो नरः ॥ ४९ ॥
नरमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
अथात्र मुञ्चते प्राणान्मुक्तरागो गत क्लमः ॥ १४५.५० ॥
नरमेधफलं भुक्त्वा मम लोके च मोदते ॥
अन्यच्च ते प्रवक्ष्यामि महाश्चर्यं वसुन्धरे ॥ ५१ ॥
तत्र शङ्खप्रभं नाम गुह्यं क्षेत्रं परं मम॥
श्रूयते शङ्खशब्दश्च द्वादश्यामर्द्धरात्रके ॥ ५२ ॥
गदाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ॥
यत्र वै कम्पते स्रोतो दक्षिणां दिशामाश्रि तम् ॥ ५३ ॥
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः ॥
वेदान्तगानां विप्राणां फलं प्राप्नोति मानवः ॥ ५४ ॥
अथ वै मुञ्चते प्राणान्कृतकृत्यो गुणान्वितः ॥
गदापाणिर्महाकायो मम लोकं प्रपद्यते ॥ ५५ ॥
पुनश्चाग्निप्रभं नाम गुह्यं क्षेत्रं परं मम ॥
धारा पतति तत्रैका पूर्वोत्तरसमाश्रिता ॥५६॥
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः ॥
अग्निष्टोमात्पञ्चगुणं फलं प्राप्नोति मानवः ॥५७॥
अथात्र मुञ्चते प्राणान् मम कर्मसु निष्ठितः ॥
अग्निष्टोमफलं भुक्त्वा मम लोकं प्रपद्यते ॥५८॥
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥
हेमन्ते चोष्णकं तीर्थं ग्रीष्मे भवति शीतलम् ॥ ५९ ॥
गुह्यं सर्वायुधं नाम तत्र क्षेत्रे परं मम ॥
पतन्ति सप्त स्रोतांसि हिमवन्निःसृतानि वै ॥ १४५.६० ॥
तत्र स्नानं प्रकुर्वीत सप्तरात्रोषितो नरः ॥
राजा भवति सुश्रोणि सवार्युधकलान्वितः ॥ ६१ ॥
अथ वै मुञ्चते प्राणान्मम कर्माविनिश्चितः ॥
स भुक्त्वा राज्य भोज्यानि मम लोकं च गच्छति ॥ ६२ ॥
तत्र देवप्रभं नाम गुह्यं क्षेत्रं परं मम ॥
धाराः पञ्चमुखास्तत्र पतन्ति गिरिसंश्रिता ॥ ६२॥
तत्र स्नानं तु कुर्वीत त्वष्टकालोषितो नरः ॥
चतुर्णामपि वेदानां याति पारं न संशयः ॥ ६४ ॥
अथात्र मुञ्चते प्राणाल्ँलोभमोहविवर्ज्जितः ॥
वेदकर्म समुत्सृज्य मम लोके महीयते ॥ ६५ ॥
गुह्यं विद्याधरं नाम तत्र क्षेत्रं परं मम ॥
पञ्च धाराः पतन्त्यत्र हिमकूटविनिःसृताः ॥ ६६ ॥
यस्तत्र कुरुते स्नानं मेकरात्रोषितो नरः ॥
याति वैद्याधरं लोकं कृतकृत्यो न संशयः ॥६७॥
अथात्र मुञ्चते प्राणान्वीतरागो गतक्लमः ॥
भुक्त्वा वैद्याधरान्भोगान्मम लोकं स गच्छति ॥६८॥
तत्र पुण्यनदी नाम गुह्यक्षेत्रे परे मम ॥
शिलाकुञ्जलताकीर्णा गन्धर्वाप्सरसेविता ॥६९॥
तत्र स्नानं तु कुर्वीत अष्ट रात्रोषितो नरः ॥
सप्तद्वीपेषु भ्रमति स्वच्छन्दगमनालयः ॥ १४५.७० ॥
अथात्र मुञ्चते प्राणान्मम कमार्नुसारकः ॥
सप्तद्वीपान् समुत्सृज्य मम लोकं स गच्छति ॥७१॥
गन्धर्वेति च विख्यातं तस्मिन् क्षेत्रं परं मम ॥
एकधारा पतत्यत्र पश्चिमां दिशमाश्रिता ॥७२॥
तत्र स्नानं तु कुर्वीत चतूरात्रो षितो नरः ॥
मोदते लोकपालेषु स्वच्छन्दगमनालयः ॥ ७३ ॥
अथात्र मुञ्चते प्राणान्ममकर्मपरायणः ॥
लोकपालान्परित्यज्य मम लोकं स गच्छति ॥७४॥
तत्र देवह्रदं नाम मम क्षेत्रं वसुन्धरे ॥
यत्र कान्तासि मे भूमे बलेर्यज्ञविनाशनात्॥७५॥
स ह्रदो वरदः श्रेष्ठो मनोज्ञः सुखशीतलः ॥
अगाधः सौख्यदश्चापि देवानामपि दुर्ल्लभः ॥७६॥
तस्मिन् ह्रदे महाभागे मम वै नियमोदके ॥
मत्स्याश्चक्राङ्किताश्चैव पर्यटन्ते इतस्ततः ॥७७॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
महाश्चर्यं विशालाक्षि यत्र तत्परिवर्त्तते ॥७८॥
पश्येति श्रद्दधानस्तु न पश्यत्पापपूरुषः॥
तस्मिन्देवह्रदे पुण्यं चतुर्विंशतिर्द्वादश ॥७९॥
सौवर्णानि च पद्मानि दृश्यन्ते भास्करोदये ॥
तावत्पश्यन्ति भूतानि यावन्मध्यन्दिनं भवेत् ॥ १४५.८० ॥
यत्र स्नाता दिवं यान्ति शुद्धा वाक्कायजैर्मलैः ॥
तत्र स्नानं प्रकुर्वीत दशरात्रोषितो नरः ॥८१॥
दशानामश्वमेधानां प्राप्नोत्यविकलं फलम् ॥
अथाऽत्र मुञ्चते प्राणान्मम चिन्ताव्यवस्थितः ॥८२॥
अश्वमेधफलं भुक्त्वा भूमे मत्समतां व्रजेत् ॥
अन्यच्च ते प्रवक्ष्यामि क्षेत्रं गुह्यं परं मम॥८३॥
सम्भेदो देवनद्योस्तु समस्तसुखवल्लभः ॥
दिवोऽवतीर्य तिष्ठन्ति देवा यत्र सहप्रियाः ॥८४॥
गन्धर्वाप्सरसश्चैव नागकन्याः सहोरगैः ॥
देवर्षयश्च मुनयः समस्तसुरनायकाः ॥ ८५ ॥
सिद्धाश्च किन्नराश्चैव स्वर्गादवतरन्ति हि ॥
नेपाले यच्छिवस्थानं समस्तसुखवल्लभम् ॥ ८६ ॥
तेभ्यस्तेभ्यश्च स्थानेभ्यस्तीर्थेभ्यश्च विशेषतः ॥
महादेवजटाजूटान्नीलकण्ठाच्छिवालयः ॥ ८७ ॥
श्वतेगङ्गेति या प्रोक्ता तया सम्भूय सादरम् ॥
नाना नद्यः समायाता दृश्यादृश्यतया स्थिताः ॥ ८८॥
गण्डक्या कृष्णया चैव या कृष्णस्य तनूद्भवा ॥
तया सम्भेदमापन्ना या सा शिवतनूद्भवा ॥८९॥
त्रिशूलगङ्गेत्याख्याता सापि तत्र महानदी ॥
एवं नदीसमुद्भेदः सर्वतीर्थकदम्बकम् ॥ १४५.९० ॥
मम क्षेत्रे समाख्यातं पुण्यं परमपावनम् ॥
वसुधे त्वं विजानीहि देवानामपि दुर्ल्लभम् ॥ ९१ ॥
यच्च सिद्धाश्रम इति विख्यातः पुण्यवर्द्धनः ॥
शम्भोस्तपोवनं तत्र सर्वाश्रमवरं प्रति ॥ ९२ ॥
नानापुष्पफलोपेतं कदलीषण्डमण्डितम् ॥
निचुलैश्चैव पुन्नागैः केसरैश्च विराजितम् ॥ ९३ ॥
खर्ज्जूराशोकबकुलैश्चूतैश्चैव प्रियालकैः ॥
नारिकेलैश्च पूगैश्च चम्पकैर्जम्बुभिर्धवैः ॥ ९४ ॥
नारङ्गैर्बदरीभिश्च जम्बीरैर्मातुलुङ्गकैः ॥
केतकीमल्लिकाजातीयूथिकाराजिराजितम् ॥ ९५ ॥
कुन्दैः कुरवकैर्नागैः कुटजैर्दाडिमैरपि ॥
आगत्य यत्र क्रीडन्ति देवानां मिथुनानि च ॥ ९६ ॥
तस्मिन्ह्रदे महापुण्ये पुण्यनद्योस्तु सङ्गमे ॥
स्नानाच्छताश्वमेधानां फलं प्राप्नोति मानवः ॥ ९७ ॥
स्नात्वा तत्र तु वैशाखे गोसहस्रफलं भवेत् ॥
माघमासे पुनः स्नात्वा प्रयागस्नानजं फलम् ॥९८॥
कार्त्तिके मासि यः स्नाति तुलासंस्थे दिवाकरे ॥
विधिना नियतः सोऽपि मुक्तिभागी न संशयः ॥ ९९ ॥
यस्त्रिरात्रमुषित्वा तु नियते नियता शनः ॥
राजसूयफलं प्राप्य मोदते देववद्दिवि ॥ १४५.१०० ॥
यज्ञस्तपोऽथवा दानं श्राद्धमिष्टस्य पूजनम् ॥
यत्किञ्चित्क्रियते कर्म तदनन्तफलं भवेत् ॥ १०१ ॥
भूमे तस्यापराधांश्च सर्वानेव क्षमाम्यहम् ॥
गङ्गायमुनयोर्यद्वत्सङ्गमो मर्त्त्यदुर्ल्लभः ॥ १०२ ॥
तथैवायं देवनद्यो सङ्गमः समुदाहृतः ॥
एतद्गुह्यं परं देवि मम क्षेत्रे वसुन्धरे ॥ १०३ ॥
अहमस्मिन्महाक्षेत्रे धरे पूर्वमुखः स्थितः ॥
शालग्रामे महाक्षेत्रे भूमे भागवत प्रियः ॥ १०४ ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
अन्तर्गुह्यं परं श्रेष्ठं यन्न जानन्ति मोहिताः ॥ १०५ ॥
शिवो मे दक्षिणस्थाने तिष्ठन्वै विगतज्वरः ॥
लोकानां प्रवरः श्रेष्ठः सर्वलोकवरो हरः ॥१०६॥
तं ये विन्दन्ति ते देवि नूनं मामेव विन्दति ॥
ये मां विदन्ति देवेशि ते विदन्ति शिवं परम् ॥१०७॥
अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे ॥
तत्राहमपि तिष्ठामि आवयोर्नान्तरं क्वचित् ॥१ ०८॥
शिवं यो वन्दते भूमे स हि मामेव वन्दते ॥
लभते पुष्कलां सिद्धिमेवं यो वेत्ति तत्त्वतः ॥ १०९ ॥
एवमेतन्महाभागे क्षेत्रं हरिहरात्मकम् ॥
मृता येऽत्र गतिं यान्ति मम कर्मानुसारिणः ॥१४५.११०॥
मुक्तिक्षेत्रं प्रथमतो रुरुखण्डं ततः परम् ॥
सम्भेदो देवनद्योश्च त्रिवेणी च ततः परम् ॥१११॥
क्षेत्रं प्रमाणं विज्ञेयं गण्डकी सङ्गतं परम् ॥
एवं सा गण्डकी देवि नदीनामुत्तमा नदी ॥११२॥
गङ्गया मिलिता यत्र भागीरथ्या महाफला ॥
अपरं तन्महत्क्षेत्रं हरिक्षेत्रमिति स्मृतम् ॥११३॥
आदौ सा गण्डकी पुण्या भागीरथ्या च सङ्गता ॥
तस्य तीर्थस्य महिमा ज्ञायते न सुरैरपि ॥११४॥
एतत्ते कथितं भद्रे शालग्रामस्य सुन्दरि ॥
गण्डक्याश्चैव माहात्म्यं सर्वकल्मषनाशनम् ॥११५॥
पूर्वपृष्टं तया यच्च पुण्यं भागवतप्रियम् ॥
आख्यानानां महाख्यानं द्युतीनां परमा द्युतिः ॥११६॥
पुण्यानां परमं पुण्यं तपसां च महत्तपः ॥
गुह्यानां परमं गुह्यं गतीनां परमा गतिः ॥११७ ॥
महालाभस्तु लाभानां नास्त्यस्मादपरं महत् ॥
पिशुनाय न दातव्यं न शठाय गुरुद्रुहे ॥११८॥
ये च पापाः कृतघ्नाश्च द्विजदेवापराधिनः ॥
कुशिष्याय न दातव्यं न दद्याच्छास्त्रदूषके ॥१ १९॥
नीचाय न च दातव्यं ये न जानन्ति सेवितुम् ॥
सुशिष्याय च दातव्यं धीराय शुभ बुद्धये ॥१४५.१२०॥
लोभमोहमदाद्यैर्ये वर्जिताः पुण्यबुद्धयः ॥
य एतत्पठते नित्यं कल्यमुत्थाय मानवः ॥१२१॥
कुलानि तारितान्येवं सप्त सप्त च सप्त च ॥
एवं मरणकाले तु न कदाचिद्विमुह्यते ॥१२२॥
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति ॥
क्षेत्रस्य शालग्रामस्य माहात्म्यं परमं मया ॥१२३॥
कथितं ते महादेवि किमन्यच्छ्रोतुमिच्छसि ॥१२४॥
इति श्रीवराहपुराणे भगवच्छास्त्रे शालग्रामक्षेत्रमाहात्म्यं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ १४५॥