१४४

अथ सोमेश्वरादिलिङ्गमुक्तिक्षेत्रत्रिवेण्यादिमाहात्म्यम्
॥ सूत उवाच ॥
श्रुत्वा मन्दारमाहात्म्यं धर्मकामा वसुन्धरा ॥
विस्मयं परमं गत्वा पुनः पप्रच्छ माधवम् ॥ १॥
धरण्युवाच ॥
मया देवप्रसादेन श्रुतं मन्दारवर्णनम् ॥
मन्दारात्परमं स्थानं विष्णो तद्वक्तुमर्हसि ॥ २ ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि ॥
कथयिष्यामि मे गुह्यं शालग्राममिति स्मृतम् ॥ ३ ॥
द्वापरे तु युगे भूमे यदूनां कुलसङ्कुले ॥
तत्र शूर इति ख्यातो यदूनां वंशवर्द्धनः ॥४॥
तस्य पुत्रो महाभागो सर्वकर्मपरायणः ॥
वसुदेवो गृहे जातो यादवानां कुलोद्वहः ॥ ५ ॥
तस्य भार्या च वसुधे सर्वावयवसुन्दरी ॥
देवकी नाम नामा च मनोज्ञा शुभदर्शना ॥ ६ ॥
तस्या गर्भे महाभागे भविष्यामि न संशयः ॥
वासुदेव इति ख्यातो देवानामरिमर्दनः ॥ ७ ॥
ततोऽपि संस्थिते तत्र यादवानां कुलोद्वहे ॥
तत्र ब्रह्मर्षिपरमः साल ङ्कायन एव च ॥ ८ ॥
ममैवाराधनार्थाय भ्रमते स दिशो दश ॥
पुत्रार्थं स तपस्तेपे मेरुशृङ्गे समाहितः ॥ ९ ॥
ततः पिण्डारके गता मम क्षेत्रे वसुन्धरे ॥
लोहार्गले ततो गत्वा सहस्रं चैव तिष्ठति ॥ १४४.१० ॥
ईश्वरेण समं पूर्वं सर्वयोगेश्वरं स्थितम् ॥
न च पश्यति मां देवि मार्गमाण इतस्ततः ॥ ११ ॥
ईश्वरेण समं पूर्वमहमासं वसुन्धरे ॥
तस्यैव तप्यमानस्य सालङ्कायनकस्य ह ॥ १२ ॥
तस्मिन्क्षेत्रे हरो देवो मत्स्व रूपेण संयुतः ॥
शालग्रामे गिरौ तस्मिञ्छिलारूपेण तिष्ठति ॥ १३ ॥
अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यशः ॥
तस्मिञ्छिलाः समग्रास्तु मत्स्वरूपा न संशयः ॥ १४ ॥
पूजनीयाः प्रयत्नेन किम्पुनश्चक्रलाञ्छिताः ॥
लिङ्गरूपेण च हरस्तत्र देवालये गिरौ ॥ १५ ॥
शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः ॥
सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः ॥ १६ ॥
सोमेन तत्र संस्थाप्य स्वनाम्ना लिङ्गमुत्तमम् ॥
वर्षाणां तु सहस्रं वै स्वशापस्य निवृत्तये ॥ १७ ॥
ततः शापाद्विनिर्मुक्तः तेजसा च परिप्लुतः ॥
स्वकं तेजोबलं प्राप्य तुष्टाव गिरिजा पतिम् ॥ १८ ॥
सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम् ॥ १९ ॥
सोम उवाच ॥
शिवं सौम्यमुमाकान्तं भक्तानुग्रहकातरम् ॥
नतोऽस्मि पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥ १४४.२० ॥
शशाङ्कशेखरं दिव्यं सर्वदेवनमस्कृतम् ॥
पिनाकपाणिं देवेशं भक्तानामभयप्रदम् ॥ २१ ॥
त्रिशूलिनं डमरुणा लसद्धस्तं वृषध्वजम् ॥
नानामुखैर्गणैर्जुष्टं नानारूपैर्भयानकैः ॥ २२ ॥
त्रिपुरघ्नं महाकालमन्धकादिनिषूदनम् ॥
गजाजिनावृतं स्थाणुं व्याघ्रचर्मविभूषितम् ॥ २३ ॥
नागभोगोपवीतं च रुद्रमालधरं प्रभुम् ॥
अरूपमपि सर्वेशं भक्तेच्छोपात्तविग्रहम् ॥२४॥
वह्निसोमार्क नयनं मनोवाचामगोचरम् ॥
जटाजूटप्रकटितं गङ्गासम्मार्ज्जितांहसम् ॥ २५ ॥
कैलासनिलयं शम्भुं हिमाचलकृताश्रमम् ॥
एवं स्तुतस्तदा शम्भुरिन्दुं वचनमब्रवीत् ॥ २६ ॥
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥
दुर्ल्लभं दर्शनं यस्मात्प्राप्तवानसि गोपते ॥ २७ ॥
सोम उवाच ॥
वरं ददासि चेद्देव मम लिङ्गे सदा वस ॥
एतल्लिङ्गस्य भक्तानां पूरयस्व मनोरथम् ॥ २८ ॥
देवदेव उवाच ॥
विष्णुसान्निध्यमप्यत्र सदैव निव साम्यहम् ॥
विशेषतस्त्वदीयेऽस्मिन्नद्यप्रभृतिगोपते ॥ २९ ॥
ममैवान्या परा मूर्त्तिस्तं शशाङ्क न संशयः ॥
एतल्लिङ्गार्च्चकानां च भक्तानां मम सर्वदा ॥ १४४.३० ॥
वरान्दास्यामि भद्रं ते देवानामपि दुर्लभान् ॥
सालङ्कायनकाख्यस्य मुनेस्तु तपसो बलात् ॥ ३१ ॥
विष्णुना सह सम्मन्त्र्य स्थितावावां कलानिधे ॥
शालग्रामगिरिर्विष्णुरहं सोमेश्वराभिधः ॥ ३२ ॥
तयोः पर्वतयोर्या वै शिला विष्णुशिवाभिधा ॥
रेवया च कृतं पूर्वं तपः शिवसुतुष्टिदम् ॥३३ ॥
मम त्वत्सदृशः पुत्रो भूयादिति मनीषया॥
अहं कस्यापि न सुतः किं करोमीति चिन्तयन् ॥३४॥
रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन ॥
निश्चित्यैवं तदा प्रोक्तः प्रसन्नेनान्तरात्मना ॥ ३५ ॥
लिङ्गरूपेण ते देवि गजाननपुरस्कृतः ॥
गर्भे तव वसिष्यामि पुत्रो भूत्वा शिवप्रिये॥३६॥
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा॥
शिवशक्तिविभेदेन आवामेकत्रसंस्थितौ॥३७॥
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता ॥
रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥३८॥
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधो ॥
शीर्णपर्णाशनं कृत्वा वायुभक्षाऽप्यनन्तरम् ॥३९॥
दिव्यवर्षशतं तेपे विष्णुं चिन्तयती तदा ॥
ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥ १४४.४०॥
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ॥
गण्डकि त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनषे ॥४१॥
अनविच्छिन्नया भक्त्या वरं वरय सुव्रते ॥
किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ॥४२॥
गण्डक्यपि पुरा दृष्ट्वा शङ्खचक्रगदाधरम् ॥
दण्डवत्प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे ॥ ४३ ॥
अहो देव मया दृष्टो दुर्दर्शो योगिनामपि ॥
त्वया सर्वमिदं सृष्टं जगत्स्थावरजङ्गमम् ॥ ४४ ॥
तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन चोच्यते ॥
त्वल्लीलोन्मीलिते विश्वे कः स्वतन्त्रोऽस्ति वै पुमान् ॥४५॥
अनाद्यन्तमपर्यन्तं यद्ब्रह्म श्रुतिबोघितम् ॥
तदेव त्वं महाविष्णो यस्त्वां वेद स वेदवित्॥ ४६॥
तवैवाद्या जगन्माता या शक्तिः परमा स्मृता ॥
तां योगमायां प्रकृति प्रधानमिति चक्षते ॥ ४७ ॥
निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपो निरञ्जनः ॥
आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः ॥ ४८ ॥
स्वां योगमायामाविश्य कर्तृत्वं प्राप्तवानसि ॥
प्रकृत्या सृज्यमानेऽस्मिन्द्रष्टा साक्षी निग द्यते ॥ ४९ ॥
प्रकृतैस्त्रिगुणैरस्मिन्सृज्यमानेऽपि नान्यथा ॥
सान्निध्यमात्रतो देव त्वयि स्फुरति कारणे ॥१४४.५०॥
स्फटिके हि यथा स्वच्छे जपा कुसुमरागतः ॥
प्रकाश्यते त्वप्रकाशाज्ज्योतीरूपं नताऽस्मि तत् ॥ ५१ ॥
ब्रह्मादयोऽपि कवयो न विदन्ति यथार्थतः ॥
तत्कथं वेद्म्यहं मूढा तव रूपं निरञ्जनम् ॥ ५२ ॥
मूढस्य जगतो मध्ये स्थिता किञ्चिदजानती ॥
त्वया धृता कृता चास्मि योग्यायोग्यमविन्दती ॥ ५३ ॥
तेन लोके महत्त्वं च त्वत्प्रसादेन चैषिता ॥
ययाचेऽज्ञतयोदार तन्मे दातुं त्वमर्हसि ॥५४॥
दयालुरसि दीनेषु नेति मां न वद प्रभो ॥
ततः प्रोवाच भगवान्देवि यद्यत्त्वमिच्छसि ॥ ५५ ॥
तद्याचय वरारोहे अदेयमपि सर्वथा ॥
यद्दुर्लभं मनुष्याणां शीघ्रं याचय मां प्रति ॥ ५६ ॥
मद्दर्शनमनु प्राप्य को वाऽपूर्णो मनोरथः ॥
ततो हिमांशो सा देवी गण्डकी लोकतारिणी ॥ ५७ ॥
प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ॥
यदि देव प्रसन्नोऽसि देयो मे वाञ्छितो वरः ॥ ५८ ॥
मम गर्भगतो भूत्वा विष्णो मत्पुत्रतां व्रज ॥
ततः प्रसन्नो भगवांश्चिन्तयामास गोपते ॥ ५९॥
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ॥
दास्यामि याचितं येन लोकानां भवमोक्षणम् ॥ १४४.६०॥
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्॥
गण्डकीमवदत्प्रीतः शृणु देवि वचो मम ॥६१ ॥
शालग्रामशिलारूपी तव गर्भगतः सदा ॥
स्थास्यामि तव पुत्रत्वे भक्तानुग्रहकारणात॥।६२॥
मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि ॥
दर्शनात्स्पर्शनात्स्नानात्पानाच्चैवावगाहनात् ॥६३॥
हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ॥
यः स्नास्यति विधानेन देवर्षिपितृतर्पकः॥ ६४॥
तर्पयेत्स्वपितॄंश्चापि तारयित्वा दिवं नयेत् ॥
स्वयं मम प्रियो भूत्वा ब्रह्मलाके गमिष्यति ॥६५॥।
यदि त्वय्युत्सृजेत्प्राणान् मम कर्मपरायणः ॥
सोऽपि याति मम स्थानं यत्र गत्वा न शोचति॥६६॥
एवं दत्त्वा वरान्देव्यै तत्रैवान्तरधीयत॥
ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिञ्छशलाञ्छन ॥६७॥
अहं च भगवान्विष्णुर्भक्तेच्छोपात्तविग्रहः ॥
एवमुक्त्वा द्विजपतिमन्वगृह्णाद्धरः प्रभुः॥६८॥
प्रभासयन्नुडुपतेरङ्गानि प्रममार्ज्ज ह ॥
शङ्करेण करेणापि नीरुजानि विधाय च ॥६९ ॥
पश्यतस्तस्य तु विधोस्तत्रैवान्तरधीयत ॥
सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै ॥ १४४.७० ॥
रावणेन प्रकटिता जलधाराऽतिपुण्यदा ॥
बाणगङ्गेति विख्याता या स्नाता चाघहारिणी ॥७१ ॥
सोमेशात्पूर्व दिग्भागे रावणस्य तपोवनम् ॥
यत्र स्थित्वा त्रिरात्रेण तपसः फलमश्रुते ॥ ७२ ॥
यत्र नृत्येन देवेशस्तुष्टस्तस्मै वरं ददौ ॥
तेन रावणनृत्येन प्रख्यातो नर्त्तनाचलः ॥७३ ॥
स्नात्वा तु बाणगङ्गायां दृष्ट्वा बाणेश्वरं प्रभुम् ॥
गङ्गास्नानफलं प्राप्य मोदते देववद्दिवि ॥ ७४ ॥
सालङ्कायनकोऽप्याशु क्षेत्रे तस्मिन्परं मम ॥
शालग्रामे महातीव्रमास्थितं परमं तपः ॥ ७५ ॥
अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे ॥
तप्यतस्तस्य तु मुने रीश्वरेण समं सुतम् ॥७६॥
प्राप्यामीति परं भावं ज्ञात्वा देवो महेश्वरः ॥
सुन्दरं त्वपरं रूपं धृत्वा दृष्टिसुखावहम् ॥ ७७ ॥
सालङ्कायनपुत्रत्वं योगमायामुपाश्रितः ॥
प्राप्तोऽपि तं न जानाति दक्षिणं पाश्वर्मास्थितः ॥७८॥
मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक् ॥
रूपवान् गुणवांश्चैव वपुषादित्यसन्निभः ॥ ७९ ॥
स तं न ज्ञायते जातं ममैवाराधने स्थित. ॥
अथ नन्दी प्रहस्याह महादेवाज्ञया मुनिम् ॥ १४४.८० ॥
उत्तिष्ठ मुनि शार्दूल सफलस्ते मनोरथः ॥
त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्रस्ते शाधि मां प्रभो ॥८१ ॥
त्वया तपः समारब्धमीश्वरेण समं सुतम् ॥
प्राप्स्यामीति ततो मह्यं सदृशोऽन्यो न कश्चन ॥८२॥
विचार्येति तवाहं वै जातोऽस्मि स्वयमेव च ॥
तपसाराधयन्देवं शङ्खचक्रगदाधरम् ॥८३॥
प्राप्तोऽसि परमां सिद्धिं त्वत्पुत्रोऽहं यतः स्थितः ॥
श्रुत्वा तन्नन्दिनो वाक्यं प्रहृष्टवदनो मुनिः ॥ ८४ ॥
विस्मितस्तु तदोवाच कथं नाद्यापि मे हरिः॥
दृग्गोचरत्वमायाति जातं चेत्तपसः फलम् ॥ ८५ ॥
यावत्तं न समीक्षिष्ये तावन्न विरतं तपः ॥
अहमत्रैव वत्स्यामि यावदच्युतदर्शनम् ॥८६॥
त्वमपि योगेन मथुरां व्रज सत्वरम् ॥
मदाश्रमे तत्र पुण्ये धनं गोव्रजसङ्कुलम् ॥ ८७ ॥
आमुष्यायणमादाय शीघ्रमत्र समानय ॥ ८८ ॥
ततस्त्वाज्ञां समादाय नन्दी सत्वरमाव्रजत् ॥
गत्वा च मथुरां तस्य ऋषेराश्रममीक्ष्य च॥ ८९ ॥
दृष्ट्वामुष्यायणं तत्र पृष्ट्वा नाम तमप्युत ॥
गृहे वित्ते च कुशलमपृच्छद्गोधनेषु च ॥ १४४.९० ॥
सालङ्कायनशिष्योऽपि आमुष्यायणसञ्ज्ञितः ॥
सर्वत्र कुशलं साधो प्रभावात्तु गुरोर्मम ॥९१ ॥
गुरोश्च कुशलं ब्रूहि कुत्रास्ते स तपोधनः ॥
भवान् कुतः समायातः किमत्रागमकारणम् ॥९२ ॥
तन्मे विस्तरतो ब्रूहि अर्घ्यश्चैवोपगृह्यताम् ॥
इत्युक्तः सोऽर्घ्यमादाय विश्रम्य च ततो गुरोः ॥ ९३ ॥
वृत्तान्तं कथयामास त्वागमस्य च कारणम् ॥
ततस्तेनैव सहितो गोधनं तत्प्रगृह्य च ॥ ९४ ॥
दिनैः कतिपयैश्चैव गण्डकीतीरमाश्रितः ॥
शनैरुत्तीर्य च ततस्त्रिवेणीं प्राप्य हर्षितः ॥ ९५ ॥
देविका नाम देवानां प्रभावाच्च तपस्यताम् ॥
नियमार्थं समुद्भूता गण्डक्या मिलिता शुभा ॥ ९६ ॥
आश्रमादपरा चासीत्पुलस्त्यपुलहाश्रमात् ॥
गण्डक्या मिलिता सापि त्रिवेणी गण्डकीत्यभूत् ॥ ९७॥
कामिकं तन्महातीर्थं पितॄणामतिवल्लभम् ॥
तत्र स्थितं महालिङ्गं त्रिजलेश्वरसञ्ज्ञितम् ॥९८॥
मुक्तिभुक्तिप्रदं देवि दर्शनादघनाशनम् ॥ ९९ ॥
धरण्युवाच ॥
प्रयागे या त्रिवेणीति यत्र देवो महेश्वरः ॥
शूलटङ्क इति ख्यातः सोमेश इति चापरः ॥ १४४.१०० ॥
वेणीमाधवनाम्नाऽपि यत्र विष्णुः स्वयं स्थितः ॥
गङ्गा च यमुना चैव सरस्वत्यपरा नदी ॥ १०१ ॥
सर्वेषां चैव देवानामृषीणां सरसामपि॥
सर्वेषां चैव तीर्थानां समाजस्तत्र मे श्रुतः ॥१०२॥
यत्राप्लुता दिवं यान्ति मृता मुक्तिं प्रयान्ति च ॥
तीर्थराज इति ख्यातं तत्तीर्थं केशवप्रियम् ॥ १०३॥
सैव त्रिवेणी विख्याता किमपूर्वां प्रशंससि ॥
एतद्गुह्यतमं प्रोक्तं त्वया विष्णो न संशयः ॥१०४ ॥
तत्कथ्यतां महाभाग लोकानां हितकाम्यया ॥
मय्यनुक्रोशुबुद्ध्या च कृपां कुरु दयानिधे ॥ १०५ ॥
श्रीवराह उवाच ॥
शृणुष्व देवि भद्रं ते यद्गुह्यं परि पृच्छसि ॥
अत्र ते कीर्त्तयिष्यामि सेतिहासां कथां शुभाम् ॥ १०६ ॥
पुरा विष्णुस्तपस्तेपे लोकानां हितकाम्यया ॥
हिमालये गिरौ रम्ये देवतागणसेविते ॥ १०७ ॥
ततो बहुतिथे काले याते सति तपस्यतः॥
तीव्रं तेजः प्रादुरासीद्येन लोकाश्चराचराः ॥१०८ ॥
तस्योष्मणा समुद्भूतः स्वेदपूरस्तु गण्डयोः ॥
तेन जाता धुनी दिव्या लोकानामघहारिणी ॥ १०९ ॥
महर्लोकादयः सर्वे विस्मिताः सर्वतो दिशम् ॥
तस्य प्रभवमिच्छन्तो ज्ञातुं नेशुः कथञ्चन॥१४४.११०॥
देवाः सर्वे ततो जग्मुर्ब्रह्माणं प्रति चोत्सुकाः॥
पप्रच्छुः प्रभवं तस्य प्रणम्य च पुनःपुनः॥१११॥
ब्रह्मापि हि न जानाति मोहितस्तस्य मायया ॥
ततो देवैः समं ब्रह्मा शङ्करं प्रत्युपस्थितः ॥ ११२ ॥
तं दृष्ट्वा सहसा देवैः समेतं प्रत्युपस्थि तम्॥
पप्रच्छ तं महादेवस्तदामनकारणम्॥११३॥
ब्रह्मा तं च महादेवं पप्रच्छ प्रणतः स्थिताः॥
अत्यद्भुतं महत्तेजश्चाद्भुतं किं महेश्वर ॥११४ ॥
येन प्रत्याहता क्ष्माऽसौ जगद्व्यतिकरावहा ॥
किन्नु स्यात्कथमतेत्स्यात्कश्चास्य प्रभवो विभो ॥ ११५ ॥
शिवः क्षणं ततो ध्यात्वा ब्रह्माद्यान् प्रत्युवाच ह ॥
महसोऽस्य समुत्पत्तिं महतो दर्शयामि वः ॥ ११६ ॥
जगाम देवसहितः सोमः सहगणः प्रभुः ॥
यत्रास्ते भगवान्विष्णुर्महता तपसान्वितः ॥ ११७ ॥
उवाच परमप्रीतस्तदा शम्भुः स्मयन्निव ॥
तपस्यसि किमिच्छन्तस्त्वं कर्त्ता जगतां प्रभुः ॥ ११८ ॥
सर्वाधारोऽ खिलाध्यक्षस्तत्किं यत्तव दुर्ल्लभम् ॥
एवमुक्तः प्रत्युवाच प्रणम्य जगतां प्रभुः ॥ ११९ ॥
अहं लोकहितार्थाय तपस्तप्तुं समुद्यतः ॥
त्वत्तो वरानभीप्सन्वै त्वद्दर्शनसमुत्सुकः ॥ १४४.१२० ॥
त्वद्दर्शनममनुप्राप्य कृतार्थोऽस्मि जगत्पते ॥ १२१ ॥
शिव उवाच ॥
मुक्तिक्षेत्रमिदं देव दर्शनादेव मुक्तिदम् ॥
गण्डस्वेदोद्भवा यत्र गण्डकी सरितां वरा ॥ १२२ ॥
भविष्यति न सन्देहो यस्या गर्भे भविष्यति ॥
त्वयि स्थिते जग न्नाथे तव सान्निध्यकारणात् ॥ १२३ ॥
अहं ब्रह्मा च देवाश्च ऋषिभिः सह केशव ॥
सर्वे वेदाश्च यज्ञाश्च सर्वतीर्थानि चाप्युत ॥ १२४ ॥
वसिष्यामः सदैवात्र गण्डक्यां जगतां पते ॥
कार्त्तिकं सकलं मासं यः स्नास्यति नरः प्रभो ॥ १२५ ॥
सर्वपापविनिर्मुक्तो मुक्तिभागी न संशयः ॥
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ॥१२६ ॥
यत्र स्नानेन लभ्येत गङ्गास्नानफलं नरैः ॥
स्मरणाद्दर्शनात्स्पर्शान्निष्पापो जायते नरः ॥ १२७ ॥
यस्यास्तत्समतां कान्या लभेद्गङ्गां विना नदीम् ॥
यत्र सा परमा पुण्या गण्डकी भुक्तिमुक्तिदा ॥ १२८ ॥
अपरा देविका नाम्ना गण्डक्या सह सङ्गता ॥
पुलस्त्यपुलहौ पूर्वं तेपाते परमं तपः ॥ १२९ ॥
यत्र सृष्टिविधानार्थं कृत्वाश्रमपदं पृथक् ॥
सृष्टेर्विधानसामर्थ्यं यत्र लब्धं ततः परम् ॥ १४४.१३० ॥
ततोऽभूद्ब्रह्मतनया पुण्या सा सरितां वरा ॥
गण्डक्या यत्र मिलिता ब्रह्मपुत्री यशस्विनी ॥ १३१ ॥
त्रिवेणी सा महापुण्या देवानामपि दुर्ल्लभा ॥
धरे जानीहि तत्क्षेत्रं योजनं परमार्च्चितम्॥१३२॥
पुरा वेदनिधेः पुत्रौ जयो विजय एव च ॥
यजनाय गतौ राज्ञा वृतौ तौ कर्दमात्मजौ ॥१३३॥
तृणबिन्दोः सुतौ पापौ जातौ दृष्ट्यैव सुव्रतौ ॥
यज्ञविद्यासुनिपुणौ वेदवेदाङ्गपारगौ ॥१३४॥
पूजयन्तौ हरिं भक्त्या तन्निष्ठेन्द्रियमानसौ ॥
ययोः पूजयतोर्नित्यं सान्निध्यं किल केशवः ॥ १३५ ॥
ददाति पूजावसरे भक्त्या किल वशीकृतः ॥
मरुत्तेन कदाचित्तावाहूतौ कुशलौ द्विजौ ॥ १३६ ॥
राज्ञा समाप्तयज्ञेन पूजयित्वा पुरस्कृतौ ॥
दक्षिणाभिस्तोषयित्वा विसृष्टौ गृह मागतौ ॥ १३७ ॥
विभागं कर्त्तुमारब्धौ पस्पर्द्धाते परस्परम् ॥
समो विभागः कर्त्तव्य इति ज्येष्ठोऽभ्यभाषत ॥१३८ ॥
विजयश्चाब्रवीच्चैनं येन लब्धं हि तस्य तत् ॥
जयोऽब्रवीदसामर्थ्यं मन्वानो मां ब्रवीषि किम् ॥ १३९ ॥
न ददासि गृहीत्वा यत्तस्माद्ग्राहत्वमाप्नुहि ॥
विजयोऽप्यब्रवीन्नूनमन्धीभूतोऽति किं धनैः ॥ १४४.१४० ॥
गजो भव मदान्धस्त्वं यो मामेवं प्रभाषसे ॥
एवं तौ ग्राहमातङ्गावभूतां शापतः पृथक् ॥ १४१ ॥
गण्डक्यामेव सञ्जातो ग्राहः पूर्वस्मृतिर्द्विजः ॥
त्रिवेणीक्षेत्रमध्ये तु जयोऽभूद्वै महान्गज॥१४२॥
करिशावैर्गजीभिश्च क्रीडमानो वने वसन् ॥
बहून्यब्दसहस्राणि व्यतीतानि तयोस्तदा॥१४३॥
वने विहरतोर्भूमे शापमोहितयोः सतोः ॥
कदाचित्स गजः स्नातुं करेणु गणसंवृतः ॥ १४४ ॥
त्रिवेणीमभितो यातोऽवगाहनपरायणः ॥
सिञ्चन्करेणूस्ताभिश्च सिच्यमानो जलं पिबन् ॥ १४५ ॥
स्वयं च पाययंस्ताश्च चिक्रीड प्रीतमानसः ॥
एवं सङ्क्रीडतस्तत्र दैवयोगेन तस्य हि ॥ १४६ ॥
ग्राहः सम्प्रेरितः पूर्वं वैरयोगमनुस्मरन् ॥
जग्राह सुदृढं पादं गजोऽपि च विषाणतः ॥ १४७ ॥
ग्राहं विव्याध सोऽप्येनमाकर्षयत तज्जले ॥
तयोर्युद्धं समभवदनेकाब्दं विकर्षणैः ॥ १४८ ॥
आकर्षणैश्च बहुभिर्द्दन्तभेदैः परस्परम्॥
प्रयुध्यतोस्तयोरेवं मत्सरग्रस्तयोः सतोः ॥१४९॥
तत्त्वानि पीडितान्यासन्ननेकानि क्षयं ययुः ॥
ततो जलेश्वरो राजा भगवन्तं व्यजिज्ञपत् ॥१४४.१५०॥
तेन विज्ञापितो देवो भगवान्भक्तवत्सलः ॥
सुदर्शनेन चक्रेण ग्राहास्यं समपाटयत् ॥ १५१ ॥
क्षिप्तं पुनः पुनस्तत्तु शिलाः सङ्घट्टयद्धरे ॥
सङ्घट्टनात्तु चक्रस्य शिलाश्चक्रेण लाच्छिताः ॥ १५२ ॥
बाहुल्येन बभूवुर्हि तस्मिन्क्षेत्रे परे मम ॥
वज्रकीटैश्च ज्ञातानि सन्ततानि विलोकय ॥ १५३ ॥
न सन्देहस्त्वया कार्यस्त्रिवेणीं प्रति सुन्दरि ॥
त्रिवेणीक्षेत्रमहिमा एवं ते परिकीर्त्तितः ॥ १५४ ॥
यदा च भरतो राजा पुलस्त्यस्याश्रमान्तिके ॥
स्थित्वा पर्यचरद्विष्णुं त्रिजलेशमपूजयत् ॥ १५५ ॥
ततःप्रभृति तस्यासीद्भरतेनारतिः स्फुटम् ॥
पुनश्च मृगदेहान्ते जडः स भरतोऽभवत् ॥ १५६ ॥
तैनैव पूजितो यस्माज्जलेश्वर इति स्मृतः ॥
यस्य सम्पूजनाद्भक्त्या योगसिद्धिः प्रजायते ॥ १५७ ॥
शालग्रामे परे क्षेत्रे यदाहं सुभगे स्थितः ॥
तत्र ज्ञात्वा जलेशेन स्तुतोऽहं वसुधे महि ॥ १५८ ॥।
ततो भक्तकृपावेशात्क्षिप्तवांस्तत्सुदर्शनम् ॥
प्रथमं पतितं यत्र तत्र तीर्थं ततोऽभवत् ॥ १५९ ॥
तत्र स्नानेन तेजस्वी सूर्यलोके महीयते ॥
यदि प्राणैर्वियुज्येत मम लोके महीयते ॥१४४.१६०॥
भक्तसंरक्षणार्थाय मयाज्ञप्तं सुदर्शनम् ॥
यत्र यत्र भ्रमति तत्तत्र तत्राङ्किताः शिलाः ॥ १६१॥
एवं तद्वै भ्रमाक्षिप्तं सर्वं चकमयं त्वभूत् ॥
ततः स पञ्चरात्राणि स्थित्वा वै विधिपूर्वकम् ॥ १६२ ॥
गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह ॥
हरिणाधिष्ठितं क्षेत्रं पूजनीयं ततः स्मृतम् ॥ १६३ ॥
यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः ॥
स्थितवांस्तद्दिनादेतत्ख्यातं हरिहरप्रभम्॥१६४॥
देवानामटनाच्चैव देवाट इति सञ्ज्ञितम् ॥
तस्य देवस्य महिमा केन वक्तुं हि शक्यते ॥१६५॥
स शूलपाणिर्देवेशो भक्ताभयविधायकः ॥
मुनिभिर्द्देवगन्धर्वैः सेव्यतेऽचिन्त्यशक्तिमान् ॥ १६६ ॥
तस्मिन्स्थाने महादेवः सालङ्कायनकस्य हि ॥
पुत्रत्वं नन्दिरूपेण प्राप्तः साक्षाच्छिवः प्रभुः ॥ १६७ ॥
स्वयं चैव महायोगी योगसिद्धिविधायकः ॥
आस्थितः परमं पीठं तीर्थे चैव त्रिधारके ॥ १६८ ॥
त्रिजटाभ्योऽभवन्धारा स्तिस्रो वै परमाद्भुताः ॥
गङ्गा च यमुना चैव पुण्या चैव सरस्वती ॥ १६९ ॥
एतत्त्रैधारिकं तीर्थं त्रिजटाभ्यः समुत्थितम् ॥
यत्र शम्भुः स्थितः साक्षान्महायोगी महेश्वरः ॥ १४४.१७० ॥
शालग्रामाभिधे क्षेत्रे हरिशीलनतत्परः ॥
दिशञ्ज्ञानं स्वभक्तानां संसाराद्येन मुच्यते ॥ १७१ ॥
तीर्थे त्रिधारे यः स्रात्वा सन्तर्प्य पितृदेवताः ॥
महायोगिनमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥ १७२ ॥
तस्यैव पूर्वदिग्भागे हंसतीर्थमिति स्मृतम् ॥
तत्रैकं कौतुकं वृत्तं तच्छृणुष्व महत्तरम् ॥ १७३ ॥
कदाचिच्छिवरात्र्यां तु भक्तैः पूजामहोत्सवे ॥
नैवेद्यैर्विविधैः सृष्टैः पूजयित्वा तु योगिनम् ॥ १७४ ॥
तत्र काकाः समुत्पेतुरन्ने तस्मिन्बुभुक्षिताः ॥
गृहीत्वान्नं तु तत्काकस्तेन चोड्डीय निर्गतः ॥१७५॥।
तद्गृहीतुं परः काक स्तेनायुध्यत चाम्बरे ॥
तावुभौ युध्यमानौ तु कुण्डे तस्मिन्निपेततुः ॥१७६॥
तत्र हंसौ ततो भूत्वा निर्गतौ चन्द्रवर्चसौ ॥
तद्दृष्ट्वा महदाश्चर्यं तत्र ये मिलिता जनाः ॥ १७७ ॥
हंसतीर्थमिति प्रोचुस्ततःप्रभृति सत्तमे ॥
ततः प्रभृति तत्तीर्थं हंसतीर्थमिति स्मृतम् ॥ १७८ ॥
पूर्वं यक्षकृतं तत्तु यक्षतीर्थमिति स्मृतम् ॥
तत्र स्नातो नरः शुद्धो यक्षलोके महीयते ॥ १७९ ॥
तत्राऽथ मुञ्चते प्राणाञ्छिवभक्तिपरायणः ॥
यक्षलोकमतिक्रम्य मम लोकं प्रपद्यते ॥ १४४.१८० ॥
एवं प्रभावं तत्तीर्थं महायोगिप्रभावतः ॥
अहं शिवश्च लोकानामनुग्रहपरायणौ ॥ १८१ ॥
एतत्ते सर्वमाख्यातं क्षेत्रं गुह्यं वसुन्धरे ॥
आरभ्य मुक्तिक्षेत्रं तत्क्षेत्रं द्वादशयोजनम् ॥ १८२॥
शालग्रामस्वरूपेण मया यत्र स्थितं स्वयम् ॥
स्वभक्तानां विशेषेण परमानन्ददायकम् ॥ १६३ ॥
गुह्यानां परमं गुह्यं किमन्यच्छ्रोतुमिच्छसि ॥ १८४ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे सोमेश्वरादिलिङ्ग हरिहरमुक्तिक्षेत्र त्रिवेण्यादिमहिमानिरूपणं नाम चतुश्चत्वारिंशदधिकशततमोध्यायः ॥ १४४ ॥