१४२

अथ गुह्यकर्ममाहात्म्यम् ॥
सूत उवाच ॥
ततो देववचः श्रुत्वा धर्मकामा वसुन्धरा ॥
कृताञ्जलिपुटा भूत्वा प्रसादयति माधवम् ॥ १ ॥
धरण्युवाच ॥
दास्यां मे प्रणयं कृत्वा विज्ञाप्यं शृणु माधव ॥
मृदुना च स्वभावेन वक्ष्यामि त्वां जनार्दन ॥ २ ॥
अल्पप्राणबला नार्यो यत्त्वया परिभाषितम् ॥
अशक्ताः सहितुं ह्येताः क्षुधात्वनशनेऽबलाः ॥ ३ ॥
भुञ्जमाना नरा ह्यत्र रजसा यान्ति शं परम् ॥
अन्नं ह्यनुग्रहं देव येन ते कर्म संश्रिताः ॥ ४ ॥
तस्यास्तद्वचनं श्रुत्वा माधव्याः स तु माधवः ॥
प्रहस्य भावशुद्धात्मा तत एवमभाषत ॥ ५ ॥
श्रीवराह उवाच ॥
साधु देवि वरारोहे मम कर्मव्यवस्थिते ॥
पृष्टोऽहं परमं गुह्यं मम भक्तसुखावहम् ॥ ६ ॥
स्पृष्टा या रजसा देवि मम कर्मपरायणा ॥
मां संस्पृशन्तु तत्रस्थं यत्र तिष्ठामि सुन्दरि ॥ ७ ॥
यदि भावस्तदा कश्चिद्भोजने कायसाधने ॥
चित्तं न्यस्य मयि क्षोणि भोक्तव्यं च न संशयः ॥ ८ ॥
न सा लिप्यति दोषेण भुञ्जमाना रजस्वला॥
अञ्जलिं शिरसा कृत्वा मयोक्तं मन्त्रमुत्तमम् ॥९ ॥
( अनादिमध्यान्तमजं पुराणं रजस्वला देववरं नमामि ॥)
तत एतेन मन्त्रेण भुक्त्वा देवि रजस्वला ॥
करोति यानि कर्माणि न तैर्दुष्येत कर्हिचित् ॥ 142.१० ॥
स्नात्वा सा तु महाभागे पञ्चमात्तु दिनात्पुनः ॥११ ॥
यथार्हं कुरुते कर्म मच्चित्ता मत्परायणा ॥
प्राप्नुयात्पुरुषत्वं च न्यस्तसंसारचिन्तनात् ॥ १२ ॥
धरण्युवाच ॥
पुरुषा वा स्त्रियो वापि न पुमांसो न वा स्त्रियः ॥
कथं दोषेण मुच्यन्ते जन्मसंसारबन्धनात् ॥१३ ॥
श्रीवराह उवाच ॥
इन्द्रियाणि निगृह्याथ चित्तमप्यनुवेश्य च ॥
मयि सन्न्यासयोगेन मम कर्मपरायणः ॥ १४ ॥
मम योगेषु सन्न्यासमेकचित्तो दृढव्रतः ॥
एवं कुर्वन्महाभागे स्त्रियो वा पुन्नपुंसकम् ॥ १५ ॥
ज्ञानसन्न्यासयोगं वा यदीच्छेत्परमां गतिम् ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ १६ ॥
मनो बुद्धिश्च चित्तं च ते ह्यनीशाः शरीरिणाम् ॥
एकचित्तं मनः कृत्वा ज्ञानेन पृधुलोचने ॥ १७ ॥
समचित्तं प्रपद्यन्ते न ते लिप्यन्ति मानवाः ॥
सर्वभक्ष्याणि भक्षन्तः पेयापेयांस्तथैव च ॥ १८॥
समं चित्तं मयि यदि तदा तस्य न च क्रिया ॥
चित्तं मनश्च बुद्धिश्च मत्संस्थं च समं यदि ॥१९॥
यत्किञ्चित्कुर्वतः कर्म पद्मपत्रमिवाम्भसि ॥
संयोगान्न च लिप्येत समत्वादेव नान्यथा ॥142.२०॥
रात्रिन्दिवं मुहूर्तं वा क्षणं वा यदि वा कला॥
निमेषं वा त्रुटिं वाथ देवि चित्तं समं कुरु॥२१॥
सदा दिवानिशोश्चैव कुर्वन्तः कर्मसङ्करम् ॥
तेऽपि यान्ति परां सिद्धिं यदि चित्तं व्यवस्थितम्॥२२॥
जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि वा ॥
यो मां चित्ते चिन्तयति मच्चिन्तस्य च किं भयम् ॥२३॥
दुर्वृत्तमपि चाण्डालं ब्राह्मणं चाऽपथि स्थितम् ॥
तं तु देवि प्रशंसामि नान्यचित्तं कदाचन ॥ २४ ॥
यजन्तः सर्वधर्मज्ञा ज्ञानसंस्कारसंस्कृताः ॥
मयि चित्तं समाधाय मम कर्मपरायणाः ॥२५॥
ये मत्कर्माणि कुर्वन्ति मया हृदि समाश्रिताः ॥
सुखं निद्रां समाधाय स्वपन्तः कर्मसंस्थिताः ॥ २६ ॥
येषां प्रशान्तं चित्तं वै तेऽपि देवि मम प्रियाः ॥
सर्वमात्मनि कर्म स्वं शुभं वा यदि वाऽशुभम् ॥२७॥
प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः ॥
चित्तं नाशो हि लोकस्य चित्तं मोक्षस्य कारणम् ॥२८॥।
तस्माच्चित्तं समादाय मां प्रपद्यस्व मेदिनि ॥
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम् ॥ २९ ॥
मच्चित्तः सततं यो मां भजेत नियतव्रतः ॥
मत्पार्श्वं प्राप्य परमं मद्भावायोपपद्यते ॥ 142.३० ॥
मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे ॥
मासे मासे तु गन्तव्यमृतुकाले व्यवस्थितम् ॥ ३१ ॥
एकचित्तं समादाय यदीच्छेत्तु मम प्रियम् ॥
न गच्छेद्यदि मासे तु ऋतुकालव्यवस्थितम् ॥ ३२ ॥
पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः ॥
न तत्र कामलोभेन मोहेन च वसुन्धरे ॥ ३३ ॥
त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत् ॥
द्वितीयां न स्पृशेन्नारीं लोभमोहात्कथञ्चन ॥ ३४ ॥
न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन ॥
कृते सम्भोगधर्मे तु कृतकौतुकसंस्थितः ॥ ३५ ॥
शयने न स्त्रियं पश्येद्यदीच्छेच्छुद्धिमुत्तमाम् ॥
कौतुके कृतकृत्ये तु मम कर्मपरायणः ॥ ३३ ॥
जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम् ॥
अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम् ॥३७ ॥
रेतःपाः पितरस्तस्य एवमेतन्न संशयः ॥
एकां तु पुरुषो याति द्वितीयां काममोहितः ॥३८ ॥
तृतीयां वा चतुर्थीं वा तदा स पुरुषोऽधमः ॥
सर्वस्यैव तु लोकस्य समयोऽयं हि मत्कृतः ॥ ३९ ॥
ऋतुकाले तु सर्वासां पित्रर्थं भोग इष्यते ॥
ऋतुकालाभिगामी यो ब्रह्मचार्येव सम्मतः ॥ 142.४० ॥
न गच्छति च यः क्रोधान्मोहाद्वा पुरुषाधमः ॥
ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन् ॥ ४१ ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे॥
ज्ञानं तु चित्तयोगस्य कर्मयोगस्य यत्क्रिया॥४२॥
कर्मणा यान्ति मत्स्थानं यान्ति मद्गाननिष्ठिताः ॥
यान्ति योगविदः स्थानं नास्ति चान्या परा गतिः ॥ ४३ ॥
ज्ञानं योगं च साङ्ख्यं च नास्ति चित्तव्यपाश्रितम् ॥
लभन्ते पुष्कलां सिद्धिं मम मार्गानुसारिणः ॥ ४४ ॥
यस्तु भागवतो भूत्वा ऋतुकाले व्यवस्थितः ॥
वायुभक्षस्ततस्तिष्ठेद्भूमे त्रीणि दिनानि च ॥४९ ॥
अथ तत्र चतुर्थे तु दिने प्राप्ते वसुन्धरे ॥
कृत्वा वै सिद्धिकर्म्माणि न गच्छत्यपराणि च ॥ ४६ ॥
ततः स्नानेन कुर्वीत शिरसो मलशोधनम् ॥
शुक्लाम्बरधरो भूत्वा चित्तं कृत्वा समाहितम् ॥ ४७ ॥
ततो बुद्धिं मनश्चैव समं कृत्वा वसुन्धरे ॥
पश्चात्कुर्वन्ति कर्माणि सदा ते मे हृदि स्थिताः ॥ ४८ ॥
मम प्रापणकं कृत्वा ततः कुर्वन्ति भोजनम् ॥
अञ्जलिं शिरसा कृत्वा मयोक्तं कर्म सस्मितम् ॥ ४९ ॥
तत्र मन्त्रः –
आदिर्भवान्गुप्तमनन्तमध्यो रजस्वला देव वयं नमामः ॥
उपोषितास्त्रीणि दिनानि चैवं मुक्तौ रतं वासुदेवं नमामः ॥ 142.५० ॥
तत एतेन मन्त्रेण शुद्धा भूमे रजस्वलाः ॥
ये तु कुर्वन्ति कर्माणि स्नातास्नातानि भागशः ॥ ५१ ॥
एवं दुष्यति नो देवि नारी वा पुरुषोऽपि वा ॥
कुर्वन्ति मम कर्माणि ते यथावन्मम प्रियाः ॥ ५२ ॥
सर्वाण्यनुदिनं भद्रे मम चित्तानुसारिणः ॥
प्राप्नुयात्पुरुषः स्त्री वा रजसा दूषिता अपि ॥ ५३ ॥
एकचित्तस्ततो भूत्वा भूमे चेन्द्रियनिग्रहात् ॥
मम योगेष्टसन्न्यासं यदीच्छेत्परमां गतिम् ॥५४ ॥
एवं कुर्वन्ति ये नित्यं स्त्रियः पुंसो नपुंसकम् ॥
ज्ञाने सत्यप्ययोगानां मम कर्मसु कर्मणाम् ॥ ५५ ॥
अद्यापि मां न जानन्ति नराः संसारसंश्रिताः ॥
ते वै भूमे विजानन्ति ये तद्भक्त्या व्यवस्थिताः ॥ ५६ ॥
मातापितृसहस्राणि पुत्रदारशतानि च ॥
चक्रवत्परिवर्तन्ते यन्मोहान्मां न जानते ॥ ५७ ॥
अज्ञानेनावृतो लोको मोहेन च वशीकृतः ॥
सङ्गैश्च बहुभिर्बद्धस्तेन चित्तं न सन्न्यसेत् ॥ ५८ ॥
गच्छत्यन्यत्र माता वै पिता चान्यत्र गच्छति ॥
पुत्राश्चान्यत्र गच्छन्ति दासश्चान्यत्र गच्छति ॥ ५९ ॥
जायन्ते चात्मनः स्थाने स्वस्वकर्मसमुद्भवे ॥
ज्ञानमूढा वरारोहे नराः संसारमोहिताः ॥ 142.६० ॥
अल्पकालपरं चैव माससंवत्सरेति च ॥
भविष्यन्ति पुनः कृत्वा न मे मूर्त्या सहासते ॥ ६१ ॥
यस्यैतद्विदितं सर्वं न्यासयोगं वसुन्धरे ॥
योगे न्यस्य सदात्मानं मुच्यते न च संशयः ॥ ६२ ॥
य एतच्छृणुयान्नित्यं कल्यमुत्थाय मानवः ॥
पुष्कलां लभते सिद्धिं मम लोकं च गच्छति ॥ ६३ ॥
एतत्ते कथितं भद्रे रहस्यं परमं महत्॥
त्वया पृष्टं च यद्देवि मम भक्तसुखावहम् ॥ ६४ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे गुह्यकर्ममाहात्म्यवर्णनं नाम द्वाचत्वारिंशदधिकशततमोऽध्यायः ॥ १४२ ॥