अथ बदरिकाश्रममाहात्म्यम् ॥
श्रीवराह उवाच ॥
तस्मिन्हिमवतः पृष्ठे परं गुह्यमतः शृणु ॥
बदरीति च विख्याता देवानामपि दुर्ल्लभा ॥१ ॥
न तत्प्राप्नोति मनुजः कृत्वा कर्म सुदुष्करम् ॥
प्राप्नुवन्ति च भक्ता ये बदरीं विश्वतारिणीम् ॥ २ ॥
दुर्ल्लभं तन्मम क्षेत्रं हिमकूटशिलातले ॥
यस्तत्प्राप्नोति हि क्षेत्रं कृतकृत्यो भवेन्नरः ॥ ३ ॥
ब्रह्मकुण्डमिति ख्यातमास्ते तत्र शिलोच्चये ॥
हिमसंस्थं तथात्मानं कृत्वा तिष्ठामि माधवि ॥ ४ ॥
स्नानं करोति यस्तत्र त्रिरात्रोपोषितो नरः ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ९ ॥
मुञ्चेत्प्राणांस्तत्र यदि व्रतनिष्ठो जितेन्द्रियः ॥
सत्यलोकमतिक्रम्य मम लोकं च गच्छति ॥ ६ ॥
अग्निसत्यपदं नाम तस्मिन्क्षेत्रे परं मम ॥
शृङ्गत्रयात्पतन्त्यत्र धारा मुसलसन्निभाः ॥ ७ ॥
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥
सत्यवादी भवेद्दक्षो मम कर्मपरायणः ॥ ८ ॥
यस्तत्र मुञ्चते प्राणान्यदि कृत्वा जलाशयम् ॥
सत्यलोकमतिक्रम्य मम लोके स मोदते ॥ ९ ॥
इन्द्रलोकमिति ख्यातो बदर्यां च ममाश्रमः ॥
तत्राहं देवि शक्रेण निष्कलं परितोषितः ॥141.१० ॥
तत्र चैव तु शृङ्गेभ्यः स्थूलधारा पतेत्पुनः ॥
स्थूले शिलातले तत्र मम धर्मो व्यवस्थितः ॥११ ॥
स्नानं करोति यस्तत्र एकरात्रोषितो नरः॥
सत्यवादी शुचिर्भूत्वा सत्यलोके महीयते॥१२॥
अथात्र मुञ्चते प्राणान्कृत्वा चानाशकं व्रतम्॥
सत्यलोकमतिक्रम्य मम लोकेषु तिष्ठति ॥१ ३॥
अस्ति पञ्चशिखं नाम बदर्याश्रमतीर्थकम् ॥
यत्र धाराः पतन्त्यत्र पञ्चशृङ्गसमाश्रिताः ॥१४॥
यस्तत्र कुरुते स्नानं पञ्चस्रोतसि मानवः ॥
अश्वमेधफलं प्राप्य देवैश्च सह मोदते ॥ १५ ॥
यद्यत्र मुञ्चते प्राणान् कृत्वा कर्म सुदुष्करम् ॥
स्वर्गलोकमतिक्रम्य मम लोके महीयते ॥१६॥
चतुःस्रोत इति ख्यातं तस्मिन्क्षेत्रे परे मम ॥
चतुर्धाराः पतन्त्यत्र चतस्रो दिश आश्रिताः ॥१७॥
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः ॥
मोदते नाकपृष्ठे तु मम भक्तश्च जायते॥१८॥
अथ प्राणान्परित्यज्य कृत्वा कर्म सुदुष्करम्॥
नाकपृष्ठमतिक्रम्य मम लोकं प्रपद्यते॥१९॥
वेदधारमिति ख्यातं तस्मिन्क्षेत्रे परे मम ॥
यत्र ब्रह्ममुखाद्भ्रष्टा वेदाश्चत्वार एव च ॥ 141.२० ॥
तत्रैव हिमवत्पृष्ठे चतुःशृङ्गाद्बृहत्तराः ॥
चतुर्धाराः पतन्त्यत्र विषमाश्च शिलोच्चये ॥२१॥
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः ॥
चतुर्णामपि वेदानां ग्रहणे कारणं भवेत्॥२२॥
अथात्र मुञ्चते प्राणान्मम कर्मपथे स्थितः।
देवलोकमतिक्रम्य मम लोकं प्रतिष्ठते ॥ २३ ॥
द्वादशादित्यकुण्डेति तस्मिन्क्षेत्रे परे मम ॥
यत्र ते द्वादशादित्या देवि संस्थापिता मया ॥२४॥
तत्र पर्वतशृङ्गे तु स्थूलमूले शिलातले ॥
द्वादश पतन्ति धारा मम कर्मसुखावहाः ॥ २५॥
यस्तत्र कुरुते स्नानं यां काञ्चिद्द्वादशीं यदि॥
यत्र ते द्वादशादित्यास्तत्र गच्छेन्न संशयः॥२६॥
अथात्र मुञ्चते प्राणान्मम कर्मणि संस्थितः ॥
समतिक्रम्य चादित्यान् मम लोके महीयते॥२७॥
लोकपालमिति ख्यातं तस्मिन्क्षेत्रे परे मम॥
तत्र ते लोकपालास्तु मया संस्थापिताः पुरा॥२८॥
तत्र पर्वतमध्ये तु स्थलकुण्डं बृहन्मम ॥
भित्वा पर्वतमुद्गीर्णं यत्र सोमसमुद्भवः ॥ २९ ॥
तत्र स्नानं तु कुर्वीत ज्येष्ठमासस्य द्वादशीम् ॥
मोदते लोकपालेषु मम भक्तश्च जायते॥141.३० ॥
अथात्र मुञ्चते प्राणान्मम कर्मसु तत्परः ॥
लोकपालानतिक्रम्य मम लोकं प्रपद्यते॥३१ ॥
अस्ति मेरोर्वरं नाम तस्मिन् गुह्यं परं मम ॥
तत्र स्थितेन वै भूमे मेरुः संस्थापितः स्वयम् ॥ ३२ ॥
धारास्तिस्रः पतन्त्यत्र सुवर्णसदृशप्रभाः ॥
पतेत्तु तज्जलं भूमौ व्यक्तिं नैवोपलभ्यते ॥३३॥
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥
मोदते मेरुशृङ्गेषु मम भक्तश्च जायते ॥३४॥
अथ तत्र मृतो देवि तस्मिन् गुह्ये परे मम ॥
मेरुपृष्ठमतिक्रम्य मम लोकं तु गच्छति ॥ ३५ ॥
मानसोद्भेदमिति च तत्रान्यत्तीर्थमुत्तमम् ॥
पृथ्वीमुद्भिद्य मध्ये तु जलं गच्छति सत्वरम् ॥३६॥
देवा अपि न जानन्ति तं देशं तत्र संस्थितम् ॥
मानुषा हि विजानन्ति भूम्यां पतति तज्जलम् ॥३७॥
यस्तत्र कुरुते स्नानमहोरात्रोषितो नरः ॥
मोदते मानसे दिव्ये मम भक्तश्च जायते ॥३८॥
अस्ति पञ्चशिरं नाम तस्मिन्गुह्यं परं मम ॥
ब्रह्मणा च्छिद्यते यत्र शिरश्चैव महाद्युति ॥ ३९॥
तत्र वै पञ्च कुण्डानि स्थूलशीर्षशिलोच्चये ॥
पञ्चात्र शिरसः स्थाने बहुधारासमन्विताः ॥ 141.४० ॥
यत्र तन्मध्यमं कुण्डं छिन्नमेव स्वयम्भुवा ॥
तत्र रक्तजला भूमिर्दृश्यते धारसङ्कुला ॥४१॥
यस्तत्र कुरुते स्नानं पञ्चरात्रोषितो नरः ॥
मोदते ब्रह्मलोकस्थो मम भक्तश्च जायते ॥४२॥
तथात्र मुञ्चते प्राणान् गुह्ये पञ्चशिरे मम ॥
जलचान्द्रायणं कृत्वा मम कर्मसु निष्ठितः ॥४३॥
बुद्धिमान्मतिमांश्चैव रागमोहविवर्जितः ॥
ब्रह्मलोकमतिक्रम्य मम लोकं स गच्छति॥४४॥
अस्ति सोमाभिषेकेति तीर्थमन्यत्परं मम।
राजत्वे ब्राह्मणानां तु मया सोमोऽभिषेचितः ॥४५ ॥
तत्राहं तोषितस्तेन अत्रिपुत्रेण माधवि ॥
नवपञ्चककोट्यस्तु कृत्वा कर्म सुदुष्करम् ॥४६॥
प्राप्तश्च परमां सिद्धिं मत्प्रसादाद्वसुन्धरे ॥
तदायत्तं जगत्सर्वं व्रीहयः परमौषधीः ॥४७॥
जायतेऽस्मिन्प्रलीयन्ते स्कन्देन्द्राः समरुद्गणाः ॥
भूमे सोममयं सर्वं मम संस्थं भविष्यति ॥४८॥
तत्र सोमगिरिर्नाम यत्र धारा पतेद्भुवि ॥
कुण्डेऽरण्ये विशाले तु एतत्ते कथितं मया ॥ ४९ ॥
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥
मोदते सोमलोकेषु एवमेतन्न संशयः ॥141.५० ॥
अथात्र म्रियते देवि कृत्वा कर्म सुदुष्करम् ॥
सोमलोकमतिक्रम्य मम लोकं प्रपद्यते ॥५१॥
अस्ति चोर्वशिकुण्डेति गुह्यं क्षेत्रे परं मम ॥
यत्र चैवोर्वशी भित्त्वा दक्षिणोरुमजायत ॥५२॥
तत्र तप्याम्यहं देवि देवानामपि कारणात् ॥
न मां कश्चिद्विजानाति स्वात्मानो हि विजानते ॥५३॥
ततो मे तप्यमानस्य बहुवर्षव्यतिक्रमात् ॥
देवा अपि न जानन्ति वज्रिब्रह्ममहेश्वराः ॥५४॥
एकैकेन फलेनाऽत्र बदर्यां तु सुनिश्चितम् ॥
बहुवर्षसहस्रं तु तपश्चीर्णं मया भुवि ॥५५॥
तत्राहं दश कोट्यस्तु दशवर्षं दशार्बुदम् ॥
दश भूमे तथान्यानि पद्मानि तपसि स्थितः ॥५६॥
ततस्ते मां न पश्यन्ति देवा गुह्यपथे स्थितम् ॥
विस्मयं परमं जग्मुर्देवा दुःखपरायणाः ॥ ५७॥
अहं पश्यामि सर्वं वै तपःसंस्थो वसुन्धरे ॥
न मां सर्वे प्रपश्यन्ति योगमायासमावृताः ॥ ५८ ॥
ततस्ता देवताः सर्वाः प्रत्यूचुश्च पितामहम् ॥
विष्णुना च विना लोके शान्तिं नैव लभामहे ॥ ५९ ॥
देवानां तु वचः श्रुत्वा ब्रह्मा लोकापितामहः ॥
योगमायापटच्छन्नं कथयामास मां तदा ॥ 141.६० ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥
तत्र जग्मुर्महाभागे तुष्यन्तः परमं मुदा ॥ ६१ ॥
विभावयन्ति मां तत्र देवा इन्द्रपुरोगमाः ॥
त्वया नाथ परित्यक्ता दुःखिताः श्रमवर्जिताः ॥ ६२ ॥
त्रायस्व नो हृषीकेश परमानुग्रहेण वै ॥
एतत्कृत्वा विशालाक्षि देवान् प्रणतिपूर्वकम् ॥ ६३ ॥
मया विलोकिताः सर्वे परां निर्वृतिमागताः ॥
एतस्मिन्नुर्वशीकुण्डे एकरात्रोषितो नरः ॥ ६४ ॥
यः स्नाति सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
उर्वशीलोकमासाद्य क्रीडते कालमक्षयम् ॥ ६५ ॥
यस्तत्रोत्सृजते प्राणान्मम कर्मपरायणः ॥
पुण्यपापविनिर्मुक्तो याति मल्लीनतां प्रिये ॥ ६६ ॥
श्रीबदर्याश्रमं पुण्यं यत्र यत्र स्थितः स्मरेत् ॥
स याति वैष्णवं स्थानं पुनरावृत्तिवर्जितः ॥ ६७ ॥
य इदं शृणुयान्नित्यं मद्भक्तः सततं पठेत् ॥
ब्रह्मचारी जितक्रोधः सत्यवादी जितेन्द्रियः ॥ ६८ ॥
ध्यानयोगरतो नित्यं स मुक्तिफलभाग्भवेत् ॥
यस्यैतद्विदितं सर्वं ध्यानयोगं वसुन्धरे ॥ ६९ ॥
योऽवगच्छति चात्मानं स गच्छेत्परमां गतिम् ॥141.७० ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे बदरिकाश्रममाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥१४१ ॥