अथ पूजादिसामयिकापराधेषु प्रायश्चित्तानि ॥
श्रीवराह उवाच ॥
मुक्त्वा तु मम कर्माणि मम कर्मपरायणः ॥
प्रायश्चित्तविधिं देवि यस्तु वाक्यं प्रभाषते ॥ १ ॥
मूर्खो भवति सुश्रोणि मम कर्मपरायणः ॥
प्रायश्चित्तविधिं देवि येन मुच्येत किल्बिषात् ॥ २ ॥
आकाशशयनं कृत्वा दिनानि दश पञ्च च ॥
मुच्यते किल्बिषात्तत्र देवि चैव न संशयः ॥ ३ ॥
इति मौनत्यागप्रायश्चित्तम् ॥
श्रीवराह उवाच ॥
भूषितो नीलवस्त्रेण यो हि मामुपपद्यते ॥
वर्षाणां हि शतं पञ्च कृमिर्भूत्वा स तिष्ठति ॥ ४ ॥
तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम् ॥
प्रायश्चित्तं विशालाक्षि येन मुच्येत किल्बिषात् ॥ ५ ॥
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्मणा ॥
मुच्यते किल्बिषाद्भूमे एवमेतन्न संशयः ॥ ६ ॥
अविधानेन संस्पृश्य यो हि मामुपसर्पति ॥
स मूर्खः पापकर्मा च मम विप्रियकारकः ॥ ७ ॥
तेन दत्तं वरारोहे गन्धमाल्यसुगन्धितम् ॥
प्रापणं च न गृह्णामि मृष्टं चापि कदाचन ॥ ८ ॥
ततो नारायणवचः श्रुत्वा सा संशितव्रता ॥
उवाच मधुरं वाक्यं धर्मकामा वसुन्धरा ॥ ९ ॥
धरण्युवाच ॥
यन्मां त्वं भाषसे नाथ आचारस्य व्यतिक्रमम् ॥
उपस्पृश्य समाचारं रहस्यं वक्तुमर्हसि ॥ 134.१० ॥
केन कर्मविधानेन भूत्वा भागवता भुवि ॥
उपस्पृश्योपसर्पन्ति तव कर्मपरायणाः ॥ ११ ॥
एतन्मे संशयं देव परं कौतूहलं हि मे ॥
तव भक्तसुखार्थाय निष्कलं वक्तुमर्हसि ॥ १२ ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ॥
कथितं मम तत्त्वेन गुह्यमेतत्परं महत् ॥ १३ ॥
विमुच्य सर्वकर्माणि यो हि मामुपसर्पति ॥
तस्य वै शृणु सुश्रोणि उपस्पृश्य च या क्रिया ॥ १४ ॥
भूत्वा पूर्वमुखस्तत्र पादौ प्रक्षाल्य चाम्बुभिः ॥
उपस्पृश्य यथान्यायं तिस्रो वै गृह्य मृत्तिकाः ॥ १५ ॥
ततः प्रक्षालितं हस्तं जलेन तदनन्तरम् ॥
सप्तकोशं ततो गृह्य जलेन क्षालयेत्ततः ॥ १६ ॥
पादमेकैकशस्तद्वत्पञ्च पञ्च वदेत्ततः ॥
कोशौ सम्मृज्यतां तत्र यदीच्छेत्तु मम प्रियम् ॥ १७ ॥
त्रीणि कोशान्पिबेत्तत्र सर्वपापविशोधनम् ॥
मुखं कराभ्यां मार्जेत सर्वमिन्द्रियनिग्रहम् ॥ १८ ॥
प्राणायामं ततः कृत्वा मम चिन्तापरायणः ॥
कर्मणा विधिदृष्टेन कुर्यात्संसारमोक्षणम् ॥१९॥
त्रीणि वारान्स्पृशेत्तत्र शिरो ब्रह्मणि संस्थितः ॥
त्रीणि वारान्पुनस्तत्र उभे ते कर्णनासिके ॥ 134.२० ॥
स्पृशेत्तु निष्कलस्तत्र यो हि यत्र प्रतिष्ठितः ॥
विक्षिपेत्त्रीणि वाराणि सलिलं प्रवरं त्रयम् ॥ २१ ॥
एवमुक्तस्य कर्त्तव्यं ममाभिगमनेषु च ॥
उपस्पृश्य तनुं वामे यदीक्षेत प्रियं मम ॥ २२ ॥
एवं च कुर्वतस्तस्य मम कर्मव्यवस्थितः ॥
अपराधं न विन्देत एवं देवि न संशयः ॥ २३ ॥
ततो नारायणवचः श्रुत्वा देवी वसुन्धरा ॥
उवाच मधुरं वाक्यं सर्वभागवतप्रियम् ॥२४॥
धरण्युवाच॥
उपस्पृश्य विधानेन यस्तु कर्माणि चाप्नुयात् ॥
तापनं शोधनं चैव तद्भवान्वक्तुमर्हति॥२५॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे भूमे इमं गुह्यमनिन्दिते ॥
यां गतिं च प्रपद्यन्ते मम कर्मबहिष्कृताः ॥ २६ ॥
व्यभिचारं च मे कृत्वा यश्च मामुपसर्पति ॥
दशवर्षसहस्राणि दशवर्षशतानि च ॥ २७ ॥
कृमिर्भूत्वा यथान्याय्यं तिष्ठते नात्र संशयः ॥
प्रायश्चित्तं प्रवक्ष्यामि तस्य मूर्खस्य माधवि ॥ २८ ॥
यच्च कृत्वा महाभागे कृतकृत्यः पुनर्भवेत् ॥
महासान्तपनं कृत्वा तप्तकृच्छ्रं च निष्कलम् ॥ २९ ॥
ब्राह्मणः क्षत्रियो वैश्यो मम ये च मते स्थिताः ॥
अनेन विधिना कृत्वा प्रायश्चित्तं यशस्विनि ॥ 134.३० ॥
किल्बिषात्तु प्रमुक्तास्ते गच्छन्ति परमां गतिम् ॥
यस्तु क्रोधसमाविष्टो मम भक्तिपरायणः ॥ ३१ ॥
स्पृशेत मम गात्राणि चित्तं कृत्वा चलाचलम् ॥
न चाहं रागमिच्छामि क्रुद्धमेव यशस्विनि ॥ ३२ ॥
इच्छामि च सदा दान्तं शुभं भागवतं शुचिम् ॥
पञ्चेन्द्रियसमायुक्तं लाभालाभविवर्जितम् ॥ ३३ ॥
अहङ्कारविनिर्मुक्तं कमर्ण्यभिरतं मम ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वरानने ॥ ३४ ॥
मां यदा लभते क्रुद्धः शुद्धो भागवतः शुचिः ॥
चिल्ली जातो वर्षशतं श्येनो वर्षशतं पुनः ॥ ३५ ॥
भेकस्त्रिशतवर्षाणि यातुधानः पुनर्दश ॥
अपुमान्षट् च वर्षाणि रेतोभक्षस्तु जायते ॥ ३६ ॥
अन्धो जायेत सुश्रोणि पञ्च सप्त तथा नव ॥
गृध्रो द्वात्रिंशवर्षाणि चक्रवाको दशैव तु ॥ ३७ ॥
शैवालभक्षिता चैव ह्याकाशगमनं तथा ॥
ब्राह्मणो जायते भूमे क्रोधस्य च पथे स्थितः ॥ ३८ ॥
आत्मकर्मापराधेन प्राप्तः संसारसागरे ॥
धरण्युवाच ॥
अहो वै परमं गुह्यं यत्त्वया पूर्वभाषितम् ॥ ३९ ॥
जातं मे विह्वलं चित्तं न स्थिरं जायते क्वचित् ॥
यत्त्वया भाषितं हीदं भक्तानां च दुरासदम् ॥ 134.४० ॥
श्रुत्वा सुदुस्तरं सारं भीतास्मि परिदेविता ॥
नाहमाज्ञापयामि त्वां देवदेव जगत्पते ॥ ४१ ॥
मम चैव प्रियार्थाय सर्वलोकसुखावहम् ॥
येन मुच्यन्ति संशुद्धा बुधाः कर्मपरायणाः ॥ ४२ ॥
अल्पसत्त्वा गतभया लोभमोहसमन्विताः ॥
तरन्ति येन दुर्गाणि प्रायश्चित्तं च मे वद ॥ ४३ ॥
ततः कमलपत्राक्षो वराहः सम्मुखे स्थितः ॥
सनत्कुमारो मे भक्तो पुनर्नारायणोऽब्रवीत् ॥ ४४ ॥
ततो भूम्या वचः श्रुत्वा ब्रह्मणश्च सुतो मुनिः ॥
सनत्कुमारो योगज्ञः प्रत्युवाच वसुन्धराम् ॥ ४५ ॥
धन्या चैव सुभाग्या च यत्त्वया परिपृच्छितम् ॥
वराहरूपी भगवान्सर्वमायाकरण्डकः ॥ ४६ ॥
किं त्वया भाषितो देवि सर्वयोगाङ्गयोगवित् ॥
देवो नारायणस्तत्र सर्वधर्मविदां वरः ॥ ४७ ॥
कुमारवचनं श्रुत्वा तं मही प्रत्यभाषत ॥
शृणु तत्त्वेन मे ब्रह्मन्यन्मया परिपृच्छितम् ॥ ४८ ॥
कार्यं क्रियां च योगं च आध्यात्म्यं पार्थिवस्थितम् ॥
एतन्मे पृच्छते ब्रह्मन्देवो नारायणः प्रभुः ॥ ४९ ॥
ततो मां भाषते ब्रह्मन्विष्णुर्मायाकरण्डकः ॥
क्रुद्धा भागवता ब्रह्मन्येन शुद्ध्यन्ति किल्बिषात् ॥ 134.५० ॥
कृत्वा तेन व्रतं चैव मम कर्मपरायणः ॥
षष्ठे काले तु भुञ्जीत गृहभिक्षामनिन्दिताम् ॥ ५१ ॥
अष्टौ भिक्षा यथान्यायं शुद्धभागवतां गृहे ॥
य एतेन विधानेन ब्रह्मकर्माणि कारयेत् ॥ ५२ ॥
मुच्यते किल्बिषात्तस्मादेवमाह जनार्दनः ॥
यदीच्छसि परां सिद्धिं विष्णुलोकं जनार्दनात् ॥ ५३ ॥
शीघ्रमाराधयेद्विष्णुं द्विजमुख्यो न संशयः ॥
ततो भूमेर्वचः श्रुत्वा ब्रह्मणश्च सुतो मुनिः ॥ ५४ ॥
प्रत्युवाच विशालाक्षीं धर्मकामो वसुन्धराम् ॥
अहो गुह्यं रहस्यं च यत्त्वया देवि भाषितम् ॥ ५५ ॥
तस्य ये मुखनिष्क्रान्ता धर्मास्तान्वक्तुमर्हसि ॥
धरण्युवाच ॥
ततः स पुण्डरीकाक्षः शङ्खचक्रगदाधरः ॥ ५६ ॥
वराहरूपी भगवाँल्लोकनाथो जनार्दनः ।
उवाच मधुरं वाक्यं मेघदुन्दुभिनिःस्वनः ॥ ५७ ॥
भक्तकर्मसुखार्थाय गुणवित्तसमन्विताम् ॥
अनेनैव विधानेन आचारेण समन्वितः ॥ ५८॥
देवि कारयते कर्म मम लोकं स गच्छति ॥
क्रुद्धेन न च कर्त्तव्यं लोभेन त्वरया न च ॥ ५९ ॥
मत्पूजनं विधानेन यदीच्छेत्परमां गतिम् ॥
ये मां देवि यजिष्यन्ति क्रोधं त्यक्त्वा जितेन्द्रियाः ॥ 134.६० ॥
संसारं ते न गच्छन्ति अपराधविवर्ज्जिताः ॥
श्रीवराह उवाच ॥
अकर्मण्येन पुष्पेण यो मामर्चयते भुवि ॥ ६१ ॥
पातनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
नाहं तत्प्रतिगृह्णामि न च ते वै मम प्रियाः ॥ ६२॥
मूर्खा भागवता देवि मम विप्रियकारिणः ॥
पतन्ति नरके घोरे रौरवे तदनन्तरम् ॥ ६३॥
अज्ञानस्य च दोषेण दुःखान्यनुभवन्ति च ॥
वानरो दश वर्षाणि मार्जारश्च त्रयोदश ॥ ६४ ॥
मूकः पञ्च च वर्षाणि बलीवर्दश्च द्वादश ॥
छागश्चैवाष्टवर्षाणि मासं वै ग्रामकुक्कुटः ॥ ६५ ॥
त्रीणि वर्षाणि महिषो भवत्येव न संशयः ॥
एतत्ते कथितं भद्रे पुष्पं यन्मे न रोचते ॥ ६६ ॥
अकर्मण्यं विशालाक्षि पुष्पं ये च ददन्ति वै ॥
धरण्युवाच ॥
भगवन्यदि तुष्टोऽसि विशुद्धेनान्तरान्मना ॥ ६७ ॥
येन शुध्यन्ति ते भक्तास्तव कर्मपरायणाः ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि ॥ ६८ ॥
प्रायश्चित्तं महाभागे येन शुध्यन्ति मानवाः ॥
एकाहारं ततः कृत्वा मासमेकं वरानने ॥ ६९ ॥
वीरासनविधींश्चैव कारयेत्सप्त सप्त च ॥
चतुर्थं भक्ष्यमेकेन मासेन घृतपायसम् ॥ ॥ 134.७० ॥
यावकान्नं त्रीण्यहानि वायुभक्षो दिनत्रयम् ॥
य एतेन विधानेन देवि कर्माणि कारयेत् ॥७१ ॥ ।
सवर्पापप्रमुक्तश्च मम लोकं स गच्छति ॥ ७२ ॥
इति श्रीवराहपुराणे पूजादिसामयिकापराधप्रायश्चित्तं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ १३४ ॥