१३०

अथ राजान्नभोगे प्रायश्चित्तम् ॥
सूत उवाच ॥
एवं दीक्षां ततः श्रुत्वा नारायणमुखान्मही ॥
विशुद्धमानसा देवी नारायणमथाब्रवीत् ॥ १ ॥
धरण्युवाच ॥
अहो ते दीक्षामाहात्म्यं यस्य वै व्युष्टिरुत्तमा ॥
श्रुत्वाहं तु महाभाग जातास्मि विमला विभो ॥ २ ॥
अहो देवस्य माहात्म्यं लोकनाथस्य तत्त्वतः ॥
येन सा कारिता दीक्षा चातुर्वर्ण्यसुखावहा ॥ ३ ॥
एकं मे परमं गुह्यं यदीश हृदि वर्त्तते ॥
भव भक्तसुखार्थाय तत्त्वं मे वक्तुमर्हसि ॥ ४ ॥
देव पूर्वापराधास्ते द्वात्रिंशदपि कीर्तिताः ॥
एवं कृत्वापराधानि मनुजा ह्यल्पचेतसः ॥ ५ ॥
कर्मणा केन शुद्ध्यन्ति अपराधस्य कारिणः ॥
तन्ममाचक्ष्व तत्त्वेन मम प्रीत्या च माधव ॥ ६ ॥
तद्वै भूम्या वचः श्रुत्वा हृषीकेशो महामनाः ॥
दिव्यं ध्यानं समादाय प्रत्युवाच वसुन्धराम् ॥ ७ ॥
श्रीवराह उवाच ॥
शुद्धा भागवता भूत्वा मम कर्मपरायणाः ॥
ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन वा ॥ ८ ॥
आपद्गता हि भुञ्जन्ति राजान्नं तु वसुन्धरे ॥
दशवर्षसहस्राणि पच्यन्ते नरके नराः ॥ ९ ॥
भगवद्वचनं श्रुत्वा कम्पिता च वसुन्धरा ॥
दिनानि सप्त दश च भयं तीव्रमजायत ॥ 130.१० ॥
ततो दीनमना भूत्वा सा मही संशितव्रता ॥
उवाच मधुरं वाक्यं सर्वलोकसुखावहम् ॥११॥
धरण्युवाच ॥
शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् ॥
को नु दोषोऽस्ति राज्ञां हि तन्मे त्वं वक्तुमर्हसि ॥१२॥
ततो भूम्या वचः श्रुत्वा सर्वधर्मविदां वरः ॥
प्राह नारायणो वाक्यं धर्मकामां वसुन्धराम् ॥ १३ ॥
श्रीवराह उवाच ॥
शृणु सुन्दरि तत्त्वेन गुह्यमेतदनिन्दिते ॥
राजान्नं तु न भोक्तव्यं शुभैभार्गवतैः सदा ॥ १४ ॥
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते ॥
राजसं तामसं वापि कुर्वन्कर्म सुदारुणम् ॥ १५ ॥
अपि वा गर्हितं तेन राजान्नं तु वसुन्धरे ॥
धर्मसन्धारणार्थाय न तु मे रोचते भुवि ॥ १६ ॥
ततो यद्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यथा राज्ञां तु भोज्यं वै शुद्धैर्भागवतैर्नरैः ॥ १७ ॥
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्मणा ॥
धनधान्यसमृद्धानि दत्त्वा भागवतैरपि ॥ १८ ॥
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् ॥
भुञ्जानस्तु वरारोहे न स पापेन लिप्यते ॥ १९ ॥
एवं विष्णुवचः श्रुत्वा धरणी संशितव्रता ॥
वराहरूपिणं देवं प्रत्युवाच वरानना ॥ 130.२० ॥
धरण्युवाच ॥
राजान्नं तु नरो भुक्त्वा शुद्धो भागवतः शुचिः ॥
कर्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्दन ॥ २१ ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ॥
तरन्ति पुरुषा येन राजान्नस्योपभुञ्जकाः ॥ २२ ॥
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रं च पुष्कलम् ॥
कुर्यात्सान्तपनं चैकं शीघ्रं मुच्यन्ति किल्बिषात् ॥ २३ ॥
न तस्य चापराधोऽस्ति वसुधे वै वचो मम ॥
एवमेव न भोक्तव्यं राजान्नं वै कदाचन ॥
ममात्र पूजाकामेन यदीच्छेत्परमां गतिम् ॥ २४ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे राजान्नप्रायश्चित्तं नाम त्रिंशदधिकशततमोऽध्यायः ॥ १३० ॥