अथ चतुर्वर्णदीक्षा ॥
श्रीवराह उवाच ॥
भूषितालङ्कृतं कृत्वा मम कर्मपरायणः ॥
शुक्लं यज्ञोपवीतं च देयं नवगुणं तथा॥१॥
शिरसा चाञ्जलिं कृत्वा वसुधा पुनरब्रवीत् ॥
धरण्युवाच ॥
एतन्मां परमं गुह्यं तद्भक्तां वक्तुमर्हसि ॥
सन्ध्यां वै केन मन्त्रेण तव कर्मपरायणाम् ॥
वद भागवतीं शुद्धां तव कर्मविनिश्चिताम् ॥
ततो भूमिवचः श्रुत्वा भूतानां प्रभवोऽव्ययः ॥
वराहरूपो भगवान्प्रत्युवाच वसुन्धराम्॥
श्रीवराह उवाच॥
माधवि तत्त्वेन यन्मां त्वं परिपृच्छसि॥
कथयिष्यामि ते भद्रे प्रवरं गुह्यमुत्तमम् ॥
यथावद्विदितं भूपैः पुण्या भागवताः शुभाः ॥
कृत्वा तु मम कर्माणि शुचिसंसारमोक्षणीम् ॥
कुर्वीतैव परां सन्ध्यां यथावदिति निश्चितम् ॥
जलाञ्जलिं ततो गृह्य मम भक्त्या व्यवस्थितः ॥
मुहूर्तध्यानमास्थाय इमं मन्त्रमुदाहरेत् ॥
मन्त्रः - भवोद्भवमादिव्यक्तरूपमात्रं सर्वे देवा ब्रह्मा रुद्रस्त्वादृक्सममासीद्ध्यानयोगस्थिता ते सन्ध्यासंस्था वासुदेवं नमति वयं देवमादिव्यक्तरूपमात्मसप्तदिवसं तथापि संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमोऽस्तु ते॥
मन्त्राणां परमो मन्त्रस्तपतां परमं तपः ॥
आचारं कुरुते ह्येवं मम लोकं स गच्छति ॥
गुह्यानां परमं गुह्यं रहस्यं परमुत्तमम्॥
य एवं पठते नित्यं न स पापेन लिप्यते॥
नादीक्षिताय दातव्यं नोपवीते कथञ्चन ॥
दीक्षितायैव दातव्यमुपपन्ने तथैव च ॥
पुनरन्यत्प्रवक्ष्यामि देवि तत्त्वेन मे शृणु ॥
न दीपमपि गृह्णाति दत्तं भागवतैः शुभैः॥
कृत्वा तु मम कर्माणि गृह्य दीपकमुत्तमम् ॥
जानुसंस्थां ततः कृत्वा इमं मन्त्रमुदीरयेत॥
मन्त्रः –
ॐ नमो भगवतेऽनुग्रह तेजसे विष्णो सर्वदेवास्त्वाग्निसंस्थाः प्रविष्टा एवं चाग्निस्तव तेजसा भविष्यति स्वतेजसा मामाशु मन्त्रस्य तेजसा संसारार्थं देव गृह्यं दीपकं मन्त्रं मूर्त्तिमन्त्रं श्वो भूत्वा इमं कर्म निष्फलम् ॥
तत्करोति यथान्याय्यं दीपकं ददते नरः ॥
तारिताः पितरस्तेन निष्कलाश्च पितामहाः ॥)
गन्धेन तिलकं दद्याल्ललाटे मम सुन्दरि ॥
अन्यच्च ते प्रवक्ष्यामि कर्म लोकसुखावहम् ॥ २॥
येन मन्त्रेण दातव्यं ललाटे तिलकं मम ॥ ३ ॥
मन्त्रः –
मुखमण्डनं चिन्तया वासुदेव त्वया प्रयुक्तं च मयोपनीतम् ॥
एतेन चित्रं कुरु वासुदेव मम चैवं कुरु संसारमोक्षम् ॥ ४ ॥
एतेन मन्त्रेण चित्रकं मे दद्याल्ललाटे तिलकं धरित्रि ॥
ततः सुमनसो गृह्य इमं मन्त्रमुदाहरेत् ॥ ५ ॥
मन्त्रः –
इमाः सुमनसः सौमनस्याय भगवन् सर्वं सुमनसं कुरु त्वयैते सौमनस्याय निर्मिता गृहीताः स्वाहा ॥ ६ ॥
एवं सुमनसो दत्त्वा धूपं चैव निवेदयेत् ॥
ततो गृहीत्वा धूपं तु सुगन्धं सुमनोहरम् ॥ ७ ॥
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥
मन्त्रः –
सुगन्धानि तवाङ्गानि स्वभावेनैव केशव ॥ ८ ॥
अमुना चैव धूपेन धूपितानि तवाऽनघ ॥
तवाङ्गानां सुगन्धेन सर्वं सौगन्धिकं कुरु ॥ ९ ॥
गृहाणेमं च मे धूपं सर्वसंसारमोक्षणम् ॥
पुनरन्यत्प्रवक्ष्यामि यथा दीपं निवेदयेत् ॥ 129.१० ॥
यथावृत्तं तु गृह्णामि मम भक्तैः सुखावहम् ॥
कृत्वा तु मम कर्माणि गृह्य दीपमनुत्तमम् ॥ ११ ॥
जानुसंस्थं ततः कृत्वा इमं मन्त्रमुदीरयेत् ॥ १२ ॥
मन्त्रः –
नमो भगवते तेजते विष्णो सर्वे देवास्त्वग्निसंस्थाः प्रतिष्ठा ॥
एवं चाग्निस्तव तेजसा प्रतिष्ठितो तेजश्चात्मा स्वयमेव ॥ १३ ॥
मन्त्रश्च –
तेजः संसारान्मोचयितुं देव गृह्णीष्व दीपं द्युतिमन्तश्च ॥
मूर्तिश्च भूत्वा इदं कर्म निष्कलम् ॥ १४ ॥
मां करोति यथान्यायं दीपकं ददते नरः ॥
तारिताः पितरस्तेन निष्कलाश्च पितामहाः ॥ १५ ॥
नारायणवचः श्रुत्वा विस्मिता च वसुन्धरा ॥
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ॥ १६ ॥
श्रुता मया भागवतास्तव कर्मपरायणाः ॥
शेषसंश्रवणार्थाय मनो धावति सत्पथे ॥ १७ ॥
तव प्रापणकं कृत्यं केषु पात्रेषु कारयेत् ॥
एतदाचक्ष्व तत्त्वेन येन तुष्यति माधव ॥ १८ ॥
ततो भूमेर्वचः श्रुत्वा लोकनाथोऽब्रवीदिदम् ॥
शृणु तत्त्वेन मे देवि यानि पात्राणि रोचते ॥ १९ ॥
तानि ते कथयिष्यामि त्वया मे पूर्वपृच्छितम् ॥
सौवर्णं राजतं कांस्यं येषु दद्यात्प्रपाणकम् ॥ 129.२० ॥
सर्वाणि तानि त्यक्त्वेह ताम्रं च मम रोचते ॥
एतन्नारायणाच्छ्रुत्वा धर्मकामा वसुन्धरा ॥ २१ ॥
उवाच मधुरं वाक्यं लोकनाथं जनार्द्दनम् ॥
एतन्मे परमं गुह्यं ताम्रं ते रोचते कथम् ॥ २२ ॥
ततो भूमेर्वचः श्रुत्वा अनादिरपराजितः ॥
लोकानां प्रवरः श्रेष्ठः प्रत्युवाच वसुन्धराम् ॥ २३ ॥
शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे ॥
एकाग्रं चित्तमाधाय येन ताम्रं मम प्रियम् ॥ २४ ॥
सप्तयुगसहस्राणि आदिकालेऽथ माधवि ॥
यथा ताम्रं समुत्पन्नं यथैव प्रियदर्शनम् ॥ २५ ॥
पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः ॥
ताम्ररूपं समादाय ममैवाराधने रतः ॥ २६ ॥
तत आराधितस्तेन वर्षाणां तु चतुर्दश ॥
सहस्राणि विशालाक्षि धर्मकामेन निश्चलम् ॥ २७ ॥
अहं तु तपसा तुष्टस्तीव्रेण कृतनिश्चयात् ॥
ततस्ताम्रमये रम्ये यत्र ताम्रसमुद्भवः ॥२८॥
दृष्ट्वाश्रमं महादेवि किञ्चिदेव सुभाषितम् ॥
ततो जानुस्थितो भूत्वा मम एष विचिन्तयेत् ॥ २९ ॥
चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः ॥
प्रणतः प्राञ्जलिः प्राह शिरो भूमौ निधाप्य सः ॥
तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ॥ 129.३० ॥
गुडाकेश महाभाग ब्रूहि किं करवाणि ते ॥
तोषितोऽस्म्यनया भक्त्या दुराराध्योऽपि सुव्रत ॥ ३१ ॥
यत्त्वया चिन्तितं सौम्य कर्मणा मनसा गिरा ॥
वरं ब्रूहि महाभाग तुभ्यं यद्रोचतेऽनघ ॥ ३२ ॥
एवं मम वचः श्रुत्वा गुडकेशोऽब्रवीदिदम् ॥
कराभ्यामञ्जलिं कृत्वा विशुद्धेनान्तरात्मना ॥ ३३ ॥
यदि तुष्टोऽसि मे देव समस्तेनान्तरात्मना ॥
जन्मनां तु सहस्रणि त्वयि भक्तिर्दृढाऽस्तु मे ॥ ३४ ॥
चक्रेण वधमिच्छामि त्वया मुक्तेन केशव ॥ ३५ ॥
चकेण पातितस्यैतद्वसामांसानि किं चन ॥
ताम्रं नाम भवेदेव पवित्रीकरणं शुभम् ॥ ३६ ॥
तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः ॥
तस्मिन्प्रापणकं कृत्वा शुद्धे वै ताम्रभाजने ॥ ३७ ॥
निवेदिते परा प्रीतिर्भवत्वेतन्मनोगतम् ॥
प्रसन्नो यदि मे देव ह्येष मे दीयतां वरः ॥ ३८ ॥
यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता ॥
बाढमित्येव सोऽप्युक्तो यावल्लोकस्थितिर्मया ॥ ३९ ॥
तावत्ताम्रस्थितो भूत्वा मम संस्थो भविष्यसि ॥
ततः प्रभृति ताम्रात्मा गुडाकेशो व्यवस्थितः ॥ 129.४० ॥
तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम् ॥
अतुला तेन मे प्रीतिर्भूमे जानीहि सुव्रते ॥ ४१ ॥
मङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम ॥
त्वं च द्रक्ष्यसि तच्चक्रं मध्यसंस्थे दिवाकरे ॥ ४२ ॥
वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी ॥
मम तेजोमयं चक्रं त्वां वधिष्यत्यसंशयम् ॥ ४३ ॥
एष्यसे मम लोकाय एवमेतन्न संशयः ॥
एवमुक्त्वा गुडाकेशं तत्रैवान्तर्हितोऽभवम् ॥ ४४ ॥
चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः ॥
दिने दिने विशिष्टं तु शुभं कुर्वंस्तपस्यति ॥ ४६ ॥
विष्णुसंस्थो भविष्यामि कदाहमिति चिन्तयन्॥
एवं स्थितस्य तस्याथ वैशाखस्य तु द्वादशी ॥ ४६ ॥
शुक्लपक्षस्य सम्प्राप्ता तस्यां धर्मविनिश्चितः ॥
विष्णुपूजां ततः कृत्वा प्रार्थयामास मां प्रतिं ॥ ४७ ॥
मुञ्च मुञ्च प्रभो चक्रमपि वह्निसमप्रभम् ॥
आत्मा मे नीयतां शीघ्रं निकृत्त्याङ्गानि सर्वशः ॥ ४८ ॥
तदैव चक्रेण विपाटितोऽसौ प्राप्तोऽपि मां भागवतप्रधानः ॥
ताम्रं तु तन्मांसमसृक् सुवर्णमस्थीनि रूप्यं बहुधातवश्च ॥
रङ्गं च सीसं त्रपुधातुसंस्थं कांस्यं च रीतिश्च मलस्तु तेषाम् ॥४९ ॥
ताम्रपात्रेण वै भूमे प्रापणं यत्प्रदीयते ॥
सिक्थे सिक्थे फलं तस्य शृणुष्व गदतो मम ॥ 129.५० ॥
एतद्भागवतैः कार्यं मम प्रियकरैः सदा ॥
एवं ताम्रं समुत्पन्नमिति मे रोचते हि तत् ॥ ५१ ॥
दीक्षितैर्वै भागवतैः पाद्यार्घ्यादौ च दीयते ॥
एवं दीक्षाविधिः प्रोक्त एवं ताम्रसमुद्भवः ॥ ५२ ॥
देवि तत्त्वेन कथितः किमन्यत् परिपृच्छसि ॥
भूमिरुवाच ॥
देवदेव कथं सन्ध्यां दीक्षितः कुरुते वद ॥ ५३ ॥
केन मन्त्रेण वा भक्तस्तव कर्मपरायणः ॥
श्रीवराह उवाच ॥
शृणु माधवि तत्त्वेन सन्ध्यामन्त्रमनुत्तमम् ॥ ५४ ॥
यथा वदन्ति वै सूर्यं सन्ध्यां पूर्वां परां तथा ॥
जलाञ्जलिं गृहीत्वा तु मम भक्त्या व्यवस्थितः ॥ ५५ ॥
मुहूर्त्तं ध्यानमास्थाय इमं मन्त्रमुदीरयेत् ॥
सिक्थानि तत्र यावन्ति ताम्रप्रापणके धरे ॥ ५६ ॥
तावद्वर्षसहस्राणि मम लोके स मोदते ॥ ५७॥
मन्त्रः –
भवोद्भवमादिव्यक्तरूपमादित्यं सर्वे देवा ब्रह्मरुद्रेन्द्रास्त्वां च ॥
कृष्णे यथासीद्ध्यानयोगस्थितास्ते सन्ध्यासंस्था वासुदेवं नमन्ति ॥ ५८ ॥
वयं देवमादिमव्यक्तरूपं कृत्वा चात्मनि देव संस्थास्तथापि ॥
संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमो नमः ॥ ५९ ॥
अनेनैव हि मन्त्रेण सन्ध्यां कुर्यात्तु दीक्षितः ॥ 129.६० ॥
इति श्रीवराहपुराणे चतुर्वर्णदीक्षाताम्रवर्णनं नामोनत्रिंशदधिकशततमोऽध्यायः ॥ १२९ ॥