अथ ब्राह्मणदीक्षासूत्रवर्णनम् ॥
सूत उवाच ॥
एवं धर्मांस्ततः श्रुत्वा बहुमोक्षार्थकारणात् ॥
प्रत्युवाच ततो भूमिर्लोकनाथं जनार्दनम् ॥ १ ॥
अहो प्रभावः क्षेत्रस्य कथ्यमानोऽतिपुष्कलम् .॥
अहं भारभराक्रान्ता लघुर्जातास्मि धावती ॥ २ ॥
विमोहा च विशुद्धा च शृण्वानाहं त्विमां प्रभो ॥
अहं लोकेषु विख्याता मुखात्तव विनिस्सृता ॥ ३ ॥
पुनः पृच्छामि ते देव संशयं धर्मसंहितम् ॥
येन धर्मविधानेन दीक्षा प्राप्यते पुष्कला ॥४॥
एतन्मे परमं गुह्यं परं कौतूहलं च मे ॥
धर्मसङ्ग्रहणार्थाय तद्भवान्वक्तुमर्हसि ॥ ५ ॥
ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः ॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ॥ ६ ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे देवि मम धर्मं सनातनम् ॥
देवा एतन्न जानन्ति ये च योगव्रते स्थिता। ॥ ७ ॥
एतं धर्मं वरारोहे मङ्गल्यं मुखनिःसृतम् ॥
अहमेको विजानामि मद्भक्ता ये जना भुवि ॥ ८॥
यच्च पृच्छसि मे भद्रे दीक्षां भागवतीं कथाम् ॥
तच्छृणुष्व वरारोहे कर्मसंसारमोक्षणम् ॥९॥
मयोक्तां लभते कश्चिद्दीक्षां चैव सुखावहाम् ॥
चातुर्वर्ण्यविधानेन तां दीक्षां शृणु सुन्दरि ॥ 127.१० ॥
हरन्ति मनुजा येन गर्भसंसारसागरात् ॥
मयि शान्तं मनः कृत्वा तदुत्कृष्टं च सुन्दरि ॥ ११ ॥
अभिगच्छेद्गुरुं देवि शाधि शिष्योऽस्मि मां गुरो ॥
तदाज्ञां तु पुरस्कृत्य दीक्षाद्रव्यानथाहरेत् ॥ १२ ॥
लाजा मधु कुशाश्चैव घृतं चामृतसन्निभम् ॥
गन्धं सुमनसो धूपं दीपं प्रापणकादिकम् ॥ १३ ॥
कृष्णाजिनं च पालाशं दण्डं चैव कमण्डलुम् ॥
घटं वासः पादुके च शुक्लयज्ञोपवीतकम् ॥ १४ ॥
यन्त्रिकामर्घपात्रं च चरुस्थालीं सदर्विकाम् ॥
तिलव्रीहियवांश्चैव विविधं च फलोदकम् ॥ १५ ॥
भक्ष्यभोज्यान्नपानं च कर्मण्यांश्चैव सञ्चयान् ॥
दीक्षिता यदि भुञ्जन्ति मम कर्मपरायणाः ॥ १६ ॥
यानि कानि च बीजानि रत्नानि विविधानि च ॥
काञ्चकादीनि सुश्रोणि तानिं शीघ्रमुपाहरेत् ॥ १७ ॥
एतान्येवोपहार्याणि गुरुमूले ततः परम् ॥
स्नात्वा मङ्गलसंयुक्तो दीक्षाकामश्च ब्राह्मणः ॥ १८ ॥
गुरोस्तु चरणौ गृह्य ब्रूहि किं करवाणि ते ॥
ततस्तु गुर्वनुज्ञातो वेदिं कुर्याच्च पुष्कलाम् ॥ १९ ॥
ब्राह्मणो दीक्षमाणस्तु चतुरस्रां तु षोडशहस्तां कृत्वा तत्र च कलशोपरि युञ्जेत् ॥ 127.२० ॥
प्रतिष्ठाप्य विधानेन धान्योपरिदृढं नवम् ॥
जलेन पूरितं मन्त्रैः पुष्पपल्लवशोभितम् ॥ २१ ॥
तस्योपरि तिलैः पूर्णपात्रं स्थाप्य विधानतः ॥
पूजयेन्मां गुरुं द्रव्यैः शिष्येणैवोपकल्पितैः ॥ २२ ॥
तत्रार्चनविधिं कृत्वा गुरुधर्मविनिश्चयः ॥
पूर्वोक्तानि च द्रव्याणि वेदिमध्यमुपाहरेत् ॥ २३ ॥
चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि ॥
वारिपूर्णान्द्विजाञ्छुद्धान्सहकारविभूषितान् ॥ २४ ॥
सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे ॥
पूर्ण पात्राणि चत्वारि चतुष्पार्श्वेषु स्थापयेत् ॥ २५ ॥
एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः ॥
स च मन्त्रो यथान्यायं येन वा तुष्यते गुरुः ॥ २६ ॥
यथान्यायं च सङ्गृह्य गुरुकर्मविनिश्चितः ॥
प्रपद्यावसथं विष्णोर्दीक्षाणां परिकाङ्क्षिणः ॥ २७ ॥
उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः ॥
सर्वांस्तु श्रावयेच्छिष्यान्दीक्षणार्थं न संशयः ॥ २८ ॥
यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः ॥
अभ्युत्थानं न कुर्वीत तेनाहं तु विहिंसितः ॥ २९ ॥
कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् ॥
अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः ॥ 127.३० ॥
भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः ॥
न तेन तां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥ ३१ ॥
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः ॥
एताञ्छिष्यान् विवर्जेत उक्ता ये चान्यपातकाः ॥ ३२ ॥
बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन ॥
कर्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥ ३३ ॥
यदीच्छेत्परमां सिद्धिं मोक्षधर्मं सनातनम् ॥
भक्ष्याभक्ष्यं च तं शिष्यं वेदितव्यं तदन्तरे ॥ ३४ ॥
करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ॥
सद्योभक्षा भवेत्तेन अभक्ष्या पूतिवासिका ॥ ३५ ॥
न भक्षणीयं वाराहं मांसं मत्स्याश्च सर्वशः ॥
अभक्ष्या ब्राह्मणैरेते दीक्षितैश्च न संशयः ॥३६॥
परीवादं न कुर्वीत न हिंसां वा कदाचन ॥
पैशुन्यं न च कर्त्तव्यं स्तैन्यं वापि कदाचन ॥ ३७ ॥
अतिथिं चागतं दृष्ट्वा दूराध्वानं गतं क्वचित् ॥
संविभागस्तु कर्त्तव्यो येन केनापि पुत्रक ॥३८॥
गुरुपत्नी राजपत्नी ब्राह्मणस्त्री कदाचन ॥
मनसापि न गन्तव्या एवं विष्णुः प्रभाषते ॥ ३९ ॥
कनकादीनि रत्नानि यौवनस्था च कामिनी ॥
तत्र चित्तं न कर्तव्यमेवं विष्णुः प्रभाषते ॥ 127.४० ॥
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा ॥
तत्र मन्युर्न कर्त्तव्यं एवं धर्मः सनातनः ॥ ४१ ॥
एवं ततः श्रावयीत दीक्षाकामं वसुन्धरे ॥
छत्रं चोपानहं चैव मनसा चोपकल्पयेत् ॥४२॥
द्वे द्वे औदुम्बरस्य पत्रे वेदिमध्ये तु स्थापयेत् ॥
क्षुरं चैव वरारोहे जलपूर्णं च भाजनम् ॥ ४३ ॥
ममावाहनपूर्वं तु मन्त्रेण विधिनार्चयेत् ॥
मन्त्रः-
ॐ सप्त सागराश्च सप्तद्वीपानि सप्त पवर्ताश्च दश स्वर्गसहस्राश्च समस्ताश्च नमोऽस्तु सर्वास्ते हृदये वसन्ति॥
यश्चैतद्वर्षति पुनरुन्नमति॥४४॥
ॐ भगवन्वासुदेव ममैतत्सारय युक्तं वराहरूपसृष्टेन पृथिव्यां तु मन्त्रानुस्मरणं च आज्ञापयानुभावनास्माकमाज्ञप्तमनुचिन्तयित्वा भगवन्नागच्छ दीक्षाकामविप्रस्त्वत्प्रसादात्तु दीक्षति ॥ ४५ ॥
एतन्मन्त्रमुदाहृत्य शिरसा जानुभ्यामवनिं गतेन भवितव्यम् ॥ ४६ ॥
ॐ स्वागतं स्वागतवानिति ॥ ४७ ॥
तत एतेन मन्त्रेण आनयित्वा वसुन्धरे ॥
अर्घ्यं पाद्यं च दातव्यं मन्त्रेण विधिनिश्चयात् ॥४८॥
मन्त्रः-
अकृतघ्ने देवानसुराकृतघ्नरुद्रेण ब्राह्मणाय च लब्धं सर्वमिमां भगवतेऽस्तु दत्तं प्रतिगृह्णीष्व च लोकनाथ ॥ ४९ ॥
एवं भूमे ततो दत्त्वा अर्घ्यं पाद्यं च कर्मणा॥
क्षुरं गृहीत्वा यथान्यायमिमं मन्त्र मुदीरयेत् ॥127.५० ॥
मन्त्रः –
एवं वरुणः पातु शिष्य ते वपतः शिरः ॥
जलेन विष्णुयुक्तेन दीक्षा संसारमोक्षणम्॥५१॥
एकस्य कलशं दद्यात्कर्मकारस्य सुन्दरि ॥
निष्कलं तु शिरः कृत्वा शोणितेन विवर्जितम् ॥५२॥
पुनः स्नानं ततः कृत्वा शीघ्रमेव न संशयः॥
एतस्य विधिवत्कृत्वा दीक्षाकामस्य सुन्दरि॥५३॥
दत्त्वा संसारमोक्षाय सर्वकामविनिश्चितः॥
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदीरयेत्॥ ५४॥
मन्त्रः -
ॐ वेदाम्यहं भागवतांश्च सर्वान् सुदीक्षिता ये गुरवश्च सर्वे ॥
विष्णुप्रसादेन च लब्धदीक्षा मम प्रसीदन्तु नमामि सर्वान् ॥५५।
नत्वा तु भगवद्भक्तान् प्रज्वाल्य च हुताशनम् ॥
घृतेन मधुमिश्रेण लाजाकृष्णतिलैस्तथा ॥५६॥
सप्तवारांस्ततो दत्त्वा विंशतिं च तिलोदनम् ॥
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदाहरेत्॥५७॥ मन्त्रः –
अश्विनौ दिशः सोमसूर्यौ साक्षिमात्रं वयं प्रसन्नाः शृण्वन्तु मे सत्यवाक्यं वदामि ॥५८॥
सत्येन धार्यते भूमिर्भूमिः सत्येन तिष्ठति ॥
सत्येन गच्छते सूर्यो वायुः सत्येन वाति च॥५९ ॥
एवं सत्यं ततः कृत्वा ब्राह्मणा वीक्षणं पुनः॥
गुरुं प्रसादेयत्तत्र मन्त्रेण विधिनार्च्चयन् ॥ 127.६० ॥
तिस्रः प्रदक्षिणाः कृत्वा देवं भागवतं गुरुम् ॥
गुरुपादौ तु सङ्गृह्य इमं मन्त्रमुदीरयेत् ॥ ६१ ॥
मन्त्रः –
गुरुदेवप्रसादेन लब्धा दीक्षा यदृच्छया ॥
यच्चैवापकृतं किञ्चिद्गुरुर्मर्षयतां मम ॥ ६२ ॥
एवं प्रसादयित्वा तु शिष्यो मन्त्रेण सुन्दरि ॥
वेदिमध्ये स्थापयित्वा भूत्वा पूर्वमुखस्ततः ॥ ६३ ॥
शिष्यमेव यतो दृष्ट्वा गृहीत्वा च कमण्डलुम् ॥
शुक्लयज्ञोपवीतं च इमं मन्त्रमुदाहरेत् ॥ ६४ ॥
मन्त्रः –
विष्णुप्रसादेन गतोऽसि सिद्धिं प्राप्ता च दीक्षा सकमण्डलुश्च ॥
गृहीत्वा तु कराभ्यां युक्तोऽसि कर्मणा क्रियायां चैव ॥ ६५ ॥
ततो मुखपदं कृत्वा दीक्षितो गुरुणा तथा ॥
सर्वप्रदक्षिणं कृत्वा इमं मन्त्रमुदाहरेत् ॥ ६६ ॥
अधोऽधो भूत्वा यद्यहं भ्राम्यल्लँब्धो गुरुर्विष्णुदीक्षा च लब्धा ॥
तव प्रसादाच्च गुरो यथा च ॥ ६७ ॥
एतेन मन्त्रेण मुखपदं कारयेत् ॥
शौचसेके वै कुर्याद्देवान्तन्तुवाससम् ॥ ६८ ॥
एवं वै वास आदत्ते गृह्ण वत्स कमण्डलुम् ॥
इमं लोकेषु विख्यातं शोधनं सर्वकर्मसु ॥ ६९ ॥
मन्त्रः –
गृह्णीष्व गन्धपात्राणि सर्वगन्धं सुखोचितम् ॥
सर्ववैष्णवकं शुद्धं सर्वसंसारमोक्षणम् ॥ 127.७० ॥
मधुपर्कं गृहीत्वा च त्विमं मन्त्रमुदीरयेत् ॥
मन्त्रः –
गृहाण मधुपर्कं च प्रार्थकाय विशोधनम् ॥ ७१ ॥
ततो गृहीत्वा चरणौ गुरोर्यत्नात्सुतोषयेत् ॥
शिरसा चाञ्जलिं कृत्वा मनश्चैव सुसंयतम् ॥
गुरूपदिष्टं सन्धार्य इमं मन्त्रमुदीरयेत् ॥ ७२ ॥
मन्त्रः –
शृण्वन्तु मे भागवतास्तु सर्वे गुरुश्च मे सर्वकामक्षयं चकार ॥
अहं शिष्यो दासभूतस्तथैव देवसमो गुरुश्च मे तथोपपन्नम् ॥ ७३ ॥
एषागमे ब्राह्मणस्य दीक्षा भूमे ह्युदाहृता ॥
त्रयाणामथ वर्णानां मम दीक्षाविधीञ्छृणु ॥ ७४ ॥
एतेनैव विधानेन दीक्षयेत वसुन्धरे ॥
उभौ च प्राप्नुतां सिद्धिमाचार्यः शिष्य एव च ॥ ७९ ॥
इति श्रीवराहपुराणे ब्राह्मणदीक्षासूत्रं नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७ ॥