अथ मायाचक्रम् ॥
सूत उवाच ॥
श्रुत्वा षडृतुकर्माणि पृथिवी संशितव्रता ॥
ततो नारायणं भूयः प्रत्युवाच वसुन्धरा ॥ १ ॥
मङ्गल्याश्च पवित्राश्च ये त्वया समुदाहृताः ॥
मम लोकेषु विख्याता मनः प्रह्लादयन्ति ते ॥२॥
श्रुत्वा त्वेतानि कर्माणि त्वन्मुखोक्तानि माधव ॥
जातास्मि निर्मला देव शशाङ्क इव शारदः॥३॥
एतन्मे परमं गुह्यं परं कौतूहलं तथा ॥
मम चैव हितार्थाय त्वं विष्णो वक्तुमर्हसि ॥४॥
यामेनां भाषसे देव मम मायेति नित्यशः ॥
का माया कीदृशी विष्णो किं वा मायेति चोच्यते ॥५॥
ज्ञातुमिच्छामि मायार्थं रहस्यं परमुत्तमम् ॥
ततस्तस्य वचः श्रुत्वा विष्णुर्मायाकरण्डकः॥६॥
प्रत्युवाच तदा वाक्यं प्रहस्य तु वसुन्धराम् ॥
भूमे मा पृच्छ मायां मे यन्मां पृच्छसि सादरम् ॥ ७ ॥
वृथा क्लेशं किमर्थं त्वं प्राप्स्यते यद्विलोकनात् ॥
अद्यापि मां न जानन्ति रुद्रेन्द्राः सपितामहाः॥८॥
मम मायां विशालाक्षि किं पुनस्त्वं वसुन्धरे॥
पर्जन्यो वर्षते यत्र तज्जलेन प्रपूर्यते ॥९॥
देशो निर्जलतां याति एषा माया मम प्रिये।
सोमो यत्क्षीयते पक्षे पक्षे वापि च वर्द्धते ॥ 125.१० ॥
अमायां न स दृश्येत मायेयं मम तत्त्वतः॥
हेमन्ते सलिलं कूपे उष्णं भवति सुन्दरि॥११॥
भवेच्च शीतलं ग्रीष्मे मायेयं मम तत्त्वतः॥
पश्चिमां दिशमास्थाय यदस्तं याति भास्करः॥१२॥
उदेति पूर्वतः प्रातर्मायेयं मम सुन्दरि॥
शोणितं चैव शुक्रं च उभे च प्राणिसंस्थिते ॥ १३ ॥
गर्भे च जायते जन्तुर्मायेयं मम सुन्दरि।
जीवः प्रविश्य गर्भं तु सुखदुःखे च विन्दति॥१४॥
जातश्च विस्मरेत्सर्वमेषा माया ममोत्तमा ॥
आत्मकर्माश्रितो जीवो नष्टसञ्ज्ञो गतस्पृहः॥१५॥
कर्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा ॥
शुक्रशोणितसंयोगाज्जायते मम जन्तवः॥१६॥
अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा ॥
पृष्ठं तथोदरं चैव दन्तौष्ठपुटनासिकम्॥१७॥
कर्णौ नेत्रे कपालौ च ललाटं जिह्वया सह॥
एतया मायया युक्ता जायन्ते यदि जन्तवः ॥१८ ॥
तस्यैव जीर्यते भुक्तमग्निना पीतमेव च॥
अधश्च स्रवते जन्तुरेषा माया ममोत्तमा॥१९॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चम॥
अन्नात्प्रवर्त्तते जन्तुरेषा माया मम प्रिया॥125.२०॥
सर्वर्तुषु निजाकारः स्थावरे जङ्गमे तथा ॥
तत्त्वं न ज्ञायते तस्य मायैषा मम सुन्दरि ॥ २१ ॥
आपो दिव्यास्तथा भौमा आपो येषु प्रतिष्ठिताः ॥
नद्यो वृद्धिं प्रयान्त्यत्र मायैषा मम सुन्दरि ॥ २२ ॥
वृष्टौ बहूदकाः सर्वे पल्वलानि सरांसि च ॥
ग्रीष्मे सर्वाणि शुष्यन्ति एतन्मायाबलं मम ॥ २३ ॥
हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी ॥
गां गता सा भवेद्गङ्गा मायैषा मम कीर्त्तिता ॥ २४ ॥
मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात् ॥
वर्षन्ति मधुरं लोके एतन्मायाबलं मम ॥ २५ ॥
रोगार्ता जन्तवः केचिद्भक्षयन्ति महौषधम् ॥
तस्य वीर्यं समाश्रित्य मायां तु विसृजाम्यहम् ॥२६॥
औषधे दीयमानेऽपि जन्तुः पञ्चत्वमेति यत् ॥
निर्वीर्यमौषधं कृत्वा कालो भूत्वा हराम्यहम् ॥ २७ ॥
प्रथमं जायते गर्भः पश्चात्सञ्जायते पुमान् ॥
जायते मध्यमं रूपं ततोऽपि जरया युतः॥२८॥
तत इन्द्रियनाशश्च एतन्मायाबलं मम ॥
यद्भूमौ विहितं बीजं तस्मात्तज्जायतेऽङ्कुरम् ॥ २९ ॥
पुनश्च पत्रादियुतमेतन्मायाबलं मम ॥
एकबीजात्प्रकीर्णाद्वै जायन्ते तानि भूरिशः ॥ 125.३० ॥
तत्रामृतं विसृजामि मायायोगेन भूरिशः ॥
लोक एवं विजानाति गरुडो वहतेऽच्युतम् ॥ ३१ ॥
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना ॥
या एता देवताः सर्वा यज्ञभागेन तोषिताः ॥ ३२ ॥
मायामेतामहं कृत्वा तोषयामि दिवौकसः ॥
लोकाः सर्वे विजानन्ति देवा नित्यं मखाशिनः ॥ २३॥
मायामेतामहं कृत्वा यक्ष्यामि त्रिदिवौकसः ॥
सर्वोऽपि भजते लोके यष्टारं च बृहस्पतिम् ॥ ३४ ॥
मायामाङ्गिरसीं कृत्वा याजयामि दिवौकसः ॥
सर्वे लोका विजानन्ति वरुणः पाति सागरम् ॥ ३५ ॥
मायां तु वारुणीं कृत्वा रक्षामि च महार्णवम् ॥
सर्वे लोका विजानन्ति कुबेरोऽयं धनेश्वरः ॥ ३६ ॥
कुबेरमायामादाय अहं रक्षामि तद्धनम् ॥
एवं लोका विजानन्ति वृत्रः शक्रेण सूदितः ॥ ३७ ॥
शाक्रीं मायां समास्थाय मया वृत्रो निषूदितः ॥
एवं लोका विजानन्ति आदित्यश्च ध्रुवो महान् ॥ ३८ ॥
मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च ॥
एवमाभाषते लोको जलं वा नश्यतेऽखिलम् ॥ ३९ ॥
वडवामुखमास्थाय पिबामि तदहं जलम् ॥
वायुं मायामयं कृत्वा मेघेषु विसृजाम्यहम्॥ 125.४० ॥
यदीदं भाषते लोकः कुत्रैतत्तिष्ठते जलम् ॥
देवा अपि न जानन्ति अमृतं कुत्र तिष्ठति ॥ ४१ ॥
मम मायानियोगेन तिष्ठति ह्यौषधं वने ॥
लोको ह्येवं विजानाति राजा पालयते प्रजाः ॥ ४२ ॥
राजमायामहं कृत्वा पालयामि वसुन्धराम् ॥
ये तु वै द्वादशादित्या उदेष्यन्ति युगक्षये ॥ ४३ ॥
प्रविश्य तानहं भूमे मायां लोके सृजाम्यहम् ॥
सूर्यश्च चांशुना भूमे सदा लोकेषु पच्यते ॥ ४४ ॥
मायामंशुमयीं कृत्वा पूरयाम्यखिलं जगत् ॥
वर्षन्ते यत्र संवर्त्ता धारैर्मुसलसन्निभैः ॥ ४५ ॥
मायां सांवर्त्तकीं गृह्य पूरयाम्यखिलं जगत् ॥
यत्स्वपामि वरारोहे शेषस्योपरि धारिणि ॥४६॥
अनन्तमायया चाहं धारयामि स्वपामि च ॥
वराहमायामादाय भूमे जानासि किं न वै ॥४७॥
देवा यत्र निलीयन्ते सा माया मम कीर्त्तिता ॥
त्वं चापि वैष्णवीं मायां कृत्वा जानासि किं न तत् ॥ ४८ ॥
धारितासि च सुश्रोणि वारान् सप्तदशैव तु ॥
माया तु मम देवीयं कृत्वा ह्येकार्णवां महीम् ॥ ४९ ॥
मम् मायाबलं ह्येतद्येन तिष्ठाम्यहं जले ॥
प्रजापतिं च रुद्रं च सृजामि च वहामि च ॥ 125.५० ॥
तेऽपि मायां न जानन्ति मम मायाविमोहिताः ॥
अथो पितृगणाश्चापि य एते सूर्यवर्च्चसः ॥ ५१ ॥
मायां पितृमयीं ह्येतां गृह्णामीति च तत्त्वतः ॥
किन्तु त्वयैव सुश्रोणि अन्यच्च शृणु सुन्दरि ॥ ५२ ॥
ऋषिर्मायानुसारेण स्त्रिया योनिं प्रवेशितः ॥
ततो विष्णोर्वचः श्रुत्वा श्रोतुकामा वसुन्धरा ॥ ५३ ॥
कराभ्यामञ्जलिं कृत्वा वाक्यमेतत्तदब्रवीत् ॥
किं तेन ऋषिमुख्येन कृतं कर्म सुदुष्करम् ॥५४ ॥
स्त्रीत्वं चैव पुनः प्राप्तं स्त्रीयोनिं चैव प्रापितः ॥
एतन्मे सर्वमाख्याहि परं कौतूहलं मम ॥५५॥
तस्य ब्राह्मणमुख्यस्य स्त्रीत्वे यत्कर्म पापकम्॥
ततो मह्या वचः श्रुत्वा हृष्टतुष्टमना हरिः॥५६॥
मधुरं वाक्यमादाय प्रत्युवाच वसुन्धराम् ॥
शृणु तत्त्वेन मे देवि धर्माख्याने च सुन्दरि॥५७॥
माया मम विशालाक्षि रोहिणी लोमहर्षिणी ॥
मायाया मम योगेन सोमशर्मा च कर्शितः ॥५८॥
गतो गतीरनेकाश्च उत्तमाधममध्यमाः ॥
ब्राह्मणत्वं पुनः प्राप्तो मम मायाप्रचोदितः ॥५९॥
यथा ब्राह्मणमुख्येन प्राप्ता स्त्रीयोनिरेव च ॥
न तस्य विकृतं कर्म अपराधो न विद्यते ॥125.६०॥
ममैवाराधनपरो मम कर्मपरायणः ॥
नित्यं चिन्तयते भूमे मम मूर्तिं मनोरमाम् ॥६१॥
अयं दीर्घेण कालेन तस्य तुष्टोऽस्मि सुन्दरि ॥
तपसा कर्मणा भक्त्या अनन्यमनसा स्तुतः ॥६२॥
ततस्तस्य मया देवि दत्त्वा दर्शनमुत्तमम् ॥
वरेण छन्दितो विप्र तपस्तुष्टोऽस्मि ते द्विज ॥६३॥
वरं वरय भद्रं ते तव यद्धृदि वर्त्तते ॥
रत्नानि काञ्चनं गावस्तथा राज्यमकण्टकम् ॥६४॥
अथवेच्छसि तं स्वर्गं यत्र सौख्यं वराङ्गनाः ॥
धनरत्नं समृद्धं हि हेमभाण्डविभूषितम् ॥६५॥
यत्र सर्वा दिव्यरूपा भवन्त्यप्सरसः पराः॥
ददामि ते वरं विप्र यावत्ते चित्तचिन्तितम्॥
ततो मम वचः श्रुत्वा स च ब्राह्मणपुङ्गवः ॥
शिरसा पतितो भूमौ मामुवाच प्रियं वचः॥६७॥
अथ नो कुप्यसे देव वरं समनुयाचते ॥
यत्त्वया भाषितं देव मम देयं यदृच्छया ॥६८॥
न चाहं काञ्चनं गावो न च स्त्रीराज्यमेव च ॥
स्वर्गं वाप्सरसो वापि ऐश्वर्यं न मनोहरम् ॥६९॥
तथा स्वर्गसहस्राणामेकं चापि न रोचते॥
ज्ञातुमिच्छामि ते मायां यया क्रीडसि माधव ॥125.७०॥
ततस्तस्य वचः श्रुत्वा समया तत्र भाषितः ॥
किं मायया ते विप्रेन्द्र अकार्यं पृच्छसे द्विज॥७१ ॥
देवा अपि न जानन्ति विष्णुमायाविमोहिताः॥
ततो मम वचः श्रुत्वा स च ब्राह्मणपुङ्गवः॥७२॥
उवाच मधुरं वाक्यं मायया च प्रचोदितः॥
यदि तुष्टोऽसि मे देव कर्मणा तपसाऽथवा ॥ ७३॥
तव देव प्रसादेन ममैवं दीयतां वरः ॥
ततस्तु स मया प्रोक्तस्तपस्वी ब्राह्मणस्तथा ॥७४॥
गच्छ कुब्जाम्रके गङ्गास्नातो मायां तु गच्छसि॥
ममैव वचनं श्रुत्वा कृत्वा चैव प्रदक्षिणम्॥
कुब्जाम्रके देवि विप्रो मम मायाभिलाषुकः ॥
ततः कुण्डी त्रिदण्डी च मात्राभाण्डं च यत्नतः ॥७६॥
स्थापयित्वा यथान्यायं तीर्थमाराधयद्यथा॥
ततो ह्यवतरद्गङ्गां विधिदृष्टेन कर्मणा॥७७॥
अवगाह्य ततो गङ्गां सर्वगात्रे च क्लेदिते ॥
तावन्निषादसदने तत्स्त्रीगर्भे गतोऽभवत् ॥ ७८ ॥
हृदयेऽचिन्तयत्तत्र गर्भक्लेशेन पीडितः ॥
अहो कष्टं मया किंस्वित्कर्म वा दुष्कृतं कृतम् ॥ ७९ ॥
योऽहं निषादगर्भेऽस्मिन्वसामि नरकेषु च ॥
धिक् तपो धिक्च मे कर्म धिक्फलं धिक् च जीवितम् ॥ 125.८० ॥
योऽहं निषादगर्भेऽस्मिन्पीडास्ति मलसङ्कुले ॥
अस्थ्नां त्रिशतसङ्कीर्णे नवद्वाराभिसंवृते ॥ ८१ ॥
पुरीषमूत्रसङ्कीर्णे मांसशोणितकर्द्दमे॥
दुर्गन्धे दुःसहे चैव वातिकश्लेष्मपत्तिके॥८२॥
बहुरोगसमाकीर्णे बहुदुःखतमाकुले ॥
अलं किं तेन चोक्तेन दुःखान्यनुभवामि च ॥ ८३ ॥
कुतो विष्णुः कुतो वाहं कुतो गङ्गाजलानि च ॥
गर्भसंसारनिष्क्रान्तः पश्चादाप्यामि तां क्रियाम् ॥ ८४ ॥
एवं चिन्तयमानस्तु शीघ्रं गर्भाद्विनिःसृतः ॥
भूम्यां तु पततस्तस्य नष्टं यत्पूर्वचिन्तितम् ॥ ८५ ॥
अजायत ततः कन्या निषादस्य गृहे तदा ॥
धनधान्यसमृद्धस्य ब्राह्मणो वर्त्तते स च॥८६॥
न च सञ्ज्ञायते किञ्चिद्विष्णुमायाविमोहिता॥
अथ दीर्घस्य कालस्य कृतोद्वाहा यशस्विनी॥८७॥
पुत्रान्दुहितरश्चैव जनयामास मायया ॥
भक्ष्याभक्ष्यं च खादेत पेयापेयं च तत्पिबेत् ॥ ८८ ॥
जीवानि चैव सततं घातितानि ततस्ततः ॥
कार्याकार्यं न जानीते वाच्यावाच्यं तथेति च ॥ ८९ ॥
गम्यागम्यं न जानाति मायाजालेन मोहितः ॥
पञ्चाशद्वर्षके काले मया ख्यातः स ब्राह्मणः ॥ 125.९० ॥
घटं गृहीत्वा विड्लिप्तवस्त्रक्षालनकारणात् ॥
तीरे निःक्षिप्य वस्त्रं स घटं च विनिधाय हि ॥९१॥
स्नातुं गङ्गाजले स्थित्वा विगाहयति जाह्नवीम् ॥
प्रस्वेदघर्मसन्तप्तः स शिरःस्नानमीहते ॥ ९२ ॥
जातस्तपोधनस्तत्र दण्डी कुण्डीधरः पुनः ॥
यत्र पश्यति विप्रोऽसौ मात्रां कुण्डीं त्रिदण्डकम् ॥ ९३ ॥
वस्त्रादि दर्शितं चैव यत्र संस्थापितं पुरा ॥
तत्तेन सर्वं सन्दृष्टं जाते ज्ञाने तु पूर्ववत् ॥ ९४ ॥
विप्रेण ज्ञातुकामेन विष्णुमायां यथा पुरा ॥
तत उत्तरतस्तत्र गङ्गायां तु तपोधनः ॥ ९५ ॥
वासो गृह्णाति सव्रीडो योगं च परिचिन्तयन्॥
उपविश्य च गङ्गायाः पुलिने समबालुके ॥ ९६ ॥
ततो विन्दति चात्मानं तपसा यत्तदा कृतम् ॥
मया किं कर्म पापेन कृतं निन्द्यं सुदुष्करम् ॥ ९७ ॥
एवं निन्दति चात्मानं धिक्कुर्वन् साधुदूषितम् ॥
आचारो वा परिभ्रष्टो येनाहं प्रापितस्त्विमाम् ॥ ९८ ॥
निषादस्य कुले जातो भक्ष्याभक्ष्याश्च भक्षिताः ॥
जीवाश्च घातिताः सर्वे जलस्थलदिवौकसः ॥ ९९ ॥
पेयापेयं च मे पीतं विक्रीताश्चाप्यविक्रेयाः ॥
अगम्यागमनं चैव वाच्यावाच्यं न रक्षितम् ॥ 125.१०० ॥
वेश्मन्यभोज्यभोज्यं च भुक्तं चैव न संशयः ॥
पुत्रा दुहितरश्चैव निषादाज्जनिता मया ॥१०१॥
ततः किञ्चापराधं वा केन वा तद्विचिन्तये ॥
येनाहं प्रापितो ह्येनां नैषादीमीदृशीं दशाम् ॥ १०२ ॥
एतस्मिन्नन्तरे भूमे निषादः क्रोधमूर्च्छितः ॥
पुत्रैः परिवृतस्तत्र मायातीर्थमुपागतः ॥ १०३ ॥
ततो मृगयते भार्यां भक्तियुक्तां शुभेक्षणाम् ॥
परिपृच्छति चैकैकं तप्यमानं तपोधनम् ॥ १०४ ॥
क्व गतासि प्रियेऽस्माकं त्यक्त्वा पुत्रान् गृहे च माम् ॥
बाला दुहिता रोदिति क्षुधार्त्तास्तनपायिनी ॥ १०५ ॥
किं नु पश्यथ भार्यां मे गङ्गातीरमुपागता ॥
घटमादाय हस्तेन आगता जलकारणात् ॥ १०६ ॥
तत्रैव च नराः सर्वे मायातीर्थमुपागताः ॥
पश्यन्तेऽत्र परिव्राजं कुम्भं चैव यथास्थितम् ॥१०७॥
ततो दुःखेन सन्तप्तः अपश्यंश्च स्वकां प्रियाम् ॥
दृष्ट्वा पटं च कुम्भं च करुणं पर्यवेदयेत्॥१ ०८॥
इदं वासश्च कुम्भश्च नदीकूले च तिष्ठति ॥
न चापि दृश्यते भार्या मम गङ्गामुपागता ॥ १०९॥
अथ केनापि ग्राहेण स्नायमाना तपस्विनी ॥
गृहीता तोयमध्ये तु जिह्वालोडेन चाबला ॥ 125.११० ॥
न चाप्रियं मयाऽस्युक्ता कदाचिदपि वाचकम् ॥
स्वप्नेऽपि नोक्तपूर्वासि कदाचिदपि चाप्रियम् ॥ १११ ॥
अथवापि पिशाचेन भक्षिता भूतराक्षसैः ॥
आकृष्टा किं नु रोगेण गङ्गातीरं समाश्रिता ॥११२ ॥
किं कृतं दुष्कृतं पूर्वं मया कर्म सुसङ्कटम् ॥
येन मत्पुरतो भार्याप्यदृष्टा विगतिं गता ॥ ११३ ॥
एहि मे सुभगे कान्ते मम चित्तानुवर्त्तिनि ॥
पश्यैतान्बालकान् भीतान् क्लिश्यमानानितस्ततः ॥ ११४ ॥
मां पश्य त्वं वरारोहे त्रीन्पुत्रानतिबालकान् ॥
चतस्रो दुहितॄः पश्य सर्वाश्च मम मानदे॥ ११५ ॥
मम पुत्रा रुदन्त्येते बालकास्तव लालसा ॥
नित्यं च दारिका रक्ष मम दुष्कृतकारिणः ॥ ११६॥
कामं मां क्षुधितं चैव ज्ञास्यसे त्वं पिपासितम् ॥
एवमुक्ता च कल्याणि मम मुक्त्या व्यवस्थिता ॥ ११७ ॥
एवं विलपमानस्य निषादस्य त्वितस्ततः ॥
सव्रीडं भाषते विप्रो निषादं गच्छ नास्ति सा ॥ ११८ ॥
सुखं योगं च ते नीत्वा सा गता ह्यनिवृत्तये ॥
तं रुदन्तं तथा दृष्ट्वा कारुण्येन परिप्लुतः ॥ ११९ ॥
निषादं भाषते तत्र गच्छ किं परिक्लिश्यसे ॥
बालांस्तान्परिरक्षस्व आहारैर्विविधैरपि ॥ 125.१२० ॥
एते न त्यजनीयास्ते कदाचिदपि पुत्रकाः ॥
परिव्राज वचः श्रुत्वा निषादस्तस्य सन्निधौ ॥ १२१ ॥
उवाच मधुरं वाक्यं दुःखशोकपरिप्लुतः ॥
अहो मुनिवरश्रेष्ठ अहो धर्मभृतां वर ॥ १२२ ॥
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः ॥ १२३ ॥
निषदास्य वचः श्रुत्वा स मुनिः संशितव्रतः ॥
उवाच मधुरं वाक्यं दुःखशोकपरिप्लुतः ॥ १२४ ॥
मा रोदीर्वच्मि भद्रं ते तवाहं सा प्रियाऽभवत् ॥
गङ्गातीरं समासाद्य मुनिर्जातोऽस्महं तथा ॥ १२५ ॥
परिव्राजवचः श्रुत्वा निषादो विगतज्वरः ॥
श्लक्ष्णं वचनमादाय प्रत्युवाच द्विजोत्तमम् ॥ १२६ ॥
किमिदं भाषसे विप्र अव्यक्तं यत्कदाचन ॥
न भावं वा यद्धटितं स्त्रियः पुंस्त्वं सदैव हि ॥ १२७ ॥
निषादस्य वचः श्रुत्वा ब्राह्मणो दुःखमूर्च्छितः ॥
उवाच मधुरं वाक्यं गङ्गातीरे च धीवरम् ॥ १२८ ॥
शीघ्रं गच्छ स्वकं देशमेतान् गृह्य स्वबालकान् ॥
सर्वेषां च यथासङ्ख्यं स्नेहः कर्त्तव्य एव च ॥ १२९ ॥
स तेन चोदितो ह्येवं निषादो नावगच्छति ॥
मधुरं स्वरमादाय प्रत्युवाच द्विजोत्तमम् ॥ 125.१३० ॥
किं त्वया दुष्कृतं कर्म कृतं पूर्वं पुरातनम् ॥
मम यद्भाषसे चैव स्त्रीत्वं प्राप्तोऽसि तत्कथम् ॥ १३१ ॥
केन दोषेण प्राप्तस्त्वं स्त्रीत्वं भूत्वा पुमान् पुनः ॥
पुंस्त्वं चैव कथं प्राप्त एतदाचक्ष्व पृच्छतः ॥१३२॥
एवं तस्य वचः श्रुत्वा स ऋषिः संशितव्रतः ॥
उवाच मधुरं वाक्यं मायातीर्थजलेचरम् ॥ १३३ ॥
निषाद शृणु तत्त्वेन मत्कथां च प्रजल्पतः ॥
न मया दुष्कृतं किञ्चित्कृतं कुत्रापि तत्त्वतः ॥ १३४ ॥
एकभक्तं मयाचारे अभक्ष्यं चैव वर्जितम् ॥
स मयाराधितो देवो लोकनाथो जनार्दनः ॥
कर्मभिर्बहुभिश्चैव मया दर्शनकाङ्क्षिणा ॥ १३५ ॥
अथ दीर्घेण कालेन मया दृष्टो जनार्द्दनः ॥
वरेण छन्दयामास बहुधा मायया ततः ॥ १३६ ॥
मया नाभीप्सितस्तस्माद्दीयमानो वरस्ततः॥
मायां मे दर्शय विभो विष्णो प्रणतवत्सल ॥ १३७॥
ततो मां भाषते विष्णुर्मायां दृष्ट्वा ह्यलं द्विज ॥
मया पुनः पुनश्चोक्तो मम प्रीत्या प्रदर्शय ॥ १३८ ॥
ततोऽहं तेन चाप्युक्तस्तर्हि द्रक्षत्यलं भवान् ॥
गच्छ कुब्जाम्रके गङ्गां स्नात्वेत्यन्तर्हितोऽभवत् ॥ १३९ ॥
अहं मायाप्रलोभेन गङ्गातीरमुपागतः ॥
दण्डं कुण्डीं च वस्त्रं च तीरे संस्थाप्य यत्ननः ॥
ततः स्नानविधानेन निमग्नस्तज्जलेऽमले ॥ 125.१४० ॥
न तत्र किञ्चिज्जानामि किमिदं किं प्रवर्त्तते ॥
निषादीगर्भसम्भूतस्तव पत्न्यभवं ततः ॥ १४१ ॥
केनचित्कारणेनात्र प्रविष्टो जाह्नवीजले ॥
स्नात्वाऽपश्यं पूर्ववच्च तावज्जातो ऋषिस्त्वहम् ॥ १४२ ॥
निषाद पश्य कुण्डीं च मात्रां वस्त्रं यथा पुरा ॥
पञ्चाशद्वर्षदेशीयो जातोऽस्मि त्वद्गृहे वसन् ॥
दण्डवस्त्रादि यत्किञ्चिन्न जीर्णं गङ्गया हृतम् ॥ १४३ ॥
एवं तेन ततश्चोक्ता निषादोऽदृश्यतां गतः ॥
ये च ते बालकास्तत्र तेषां कश्चिन्न दृश्यते ॥ १४४ ॥
स ततो ब्राह्मणो देवि तपस्तपति निश्चितम् ॥
ऊर्ध्वश्वासोर्द्धबाहुश्च वायुभक्षपरायणः ॥ १४५ ॥
तस्य प्रतिष्ठमानस्य अपराह्णं तु जायते ॥
ततः प्रमुच्यते तोयं देवि कृत्वा यथोचितम् ॥१४६॥
कर्मण्यानि च पुष्पाणि आहृत्य श्रद्धयान्वितः ॥
अर्चयित्वा यथान्यायं वीरासनमुपागतः॥१४७॥
वृतस्तु ब्राह्मणैर्मुख्यैर्गङ्गास्नानेषु वै द्विजः ॥
ऊचुस्ततो द्विजास्तत्र तपस्विनमनिन्दितम् ॥ १४८ ॥
पूर्वाह्णे स्थापयित्वात्र मात्रां कुण्डीं त्रिदण्डकम् ॥
इतो गतोऽसि ब्रह्मेन्द्र स्थापयित्वा तु धीवरान् ॥
विस्मृतं किं त्वया स्थानं कथं शीघ्रं न चागतः ॥ १४९ ॥
ततो विप्रवचः श्रुत्वा तूष्णीमासीन्मुनिस्तदा ॥
ब्राह्मणानुगतं स्थानमात्मनात्मानुसंस्थितः ॥ 125.१५० ॥
एतस्मिन्नन्तरे देवि स च ब्राह्मणपुङ्गवः ॥
अद्य पञ्चाशद्वर्षाणि अमावास्याद्य चैव हि ॥ १५१ ॥
कथमेतावतङ्कालं मामूचुर्ब्राह्मणाश्च किम् ॥
पूर्वाह्ने स्थापयित्वा त्वं स्वां मात्रां चापराह्णिके ॥
कथं कालेऽनुसम्प्राप्तः किमेतदिति भाषते॥१५२॥
एतस्मिन्नन्तरे देवि ब्राह्मणाय ततो मया ॥
दर्शयित्वा निजं रूपं तमवोचमिदं धरे॥१५३॥
किमिदं भ्रान्तरूपोऽसि किं वा त्वं दृष्टवानसि ॥
पश्यामि त्वां व्यग्रमिव सावधानो भव स्वयम् ॥ १५४ ॥
एवमुक्तः स तु मया भूमौ कृत्वा शिरः स्वकम् ॥
उवाच दुःखितो दीनो निःश्वस्य च मुहुर्मुहुः ॥ १५५ ॥
अहो देव द्विजा एते मां वदन्ति जगद्गुरो॥
पूर्वाह्णे स्थापयित्वा त्वं वस्त्रं दण्डकमण्डलू ॥
आगतोऽस्यपराह्ने किं स्थलं विस्मृतवानसि ॥ १५६ ॥
अहं व्याधस्य वै भूत्वा भार्या च व्याधयोनिजा ॥
पञ्चाशद्वर्षपर्यन्तं तत्र स्थित्वा ततः किल ॥ १५७ ॥
तस्माच्चैव त्रयः पुत्रास्तिस्रश्चापि च कन्यकाः ॥
जातान्येवमपत्यानि दुष्टकर्मकृतस्तथा ॥ १५८ ॥
स्नातुं कदाचिद्गङ्गायां गतोऽहं तीरभूमिगः ॥
स्थापयित्वाद्य स्वं वस्त्रं मग्नः स्नास्यन् जलेऽमले॥
उन्मज्य स्वयं पुनश्चैव प्राप्तो रूपं मुनिस्तुतम् ॥ १५९॥
किं मया विकृतं कर्म सेवमानेन माधव ॥
तपश्च तप्यमानेन किं मया विकृतं कृतम्॥125.१६० ॥
भक्षितं किमकर्मण्यं सेवमानेन चाच्युत ॥
व्यभिचारश्च मे तत्र को जातस्तु तवार्च्चने॥१६१ ॥
एतदाचक्ष तत्त्वेन येनाहं नरकं गतः॥
एतच्चिन्ताव्याकुलोऽहं निबोध भगवन्मम ॥ १६२ ॥
मायालुब्धेन हि मया पूर्वं विज्ञापितो ह्यसि ॥
नान्यत्स्मरामि पापं च नरके येन पातितः ॥ १६३ ॥
ततस्तस्य वचः श्रुत्वा कारुण्यपरिदेवितम् ॥
उक्तवानस्मि तं विप्रं दुःखसन्तप्तमानसम् ॥ १६४ ॥
मा दुःखं कुरु विप्रेन्द्र आत्मदोषसमुद्भवम् ॥
विकर्म न कृतं किञ्चिदपि मे विप्र पूजने ॥
येन दुःखमनुप्राप्तं तिर्यग्योनिं च वै गतः ॥ १६५ ॥
उक्तमेव मया पूर्वं शृणु ब्राह्मणपुङ्गव ॥
वरान् वरय भो ब्रह्मन् त्वं मायां वृतवानसि ॥ १६६ ॥
ददामि दिव्यभोगान्वै भौमान्वापि तवेप्सितम् ॥
तांस्तु नेच्छसि मायाया दर्शनं वृतवानसि ॥ १६७ ॥
दृष्टा तु वैष्णवी माया या त्वया ब्राह्मणेप्सिता ॥
न गतो दिवसश्रेष्ठ नापराह्णेऽपि कुत्रचित् ॥
वर्षाणि चैव पञ्चाशान्निषादस्य गृहेऽपि न ॥ १६८ ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व द्विजोत्तम ॥
या एषा वैष्णवी माया त्वया ब्राह्मण ईप्सिता ॥ १६९ ॥
त्वया न तत्कृतं किञ्चिच्छुभं वाशुभमेव वा ॥
सर्वं मायामयं तत्र विस्मयात्परितप्यसे ॥ 125.१७० ॥
यत्त्वया दुष्कृतं कर्म व्यभिचारश्च तत्र वै ॥
अर्च्चनं च न ते भ्रष्टं तपश्चैव न नाशितम् ॥ १७१ ॥
भवान्तरे कृतं यच्च येनेदं प्राप्तवान्महत् ॥
दुःखं तच्च तवाख्यास्ये शृणु ब्राह्मणसत्तम॥ १७२ ॥
मम भक्ता द्विजाः शुद्धा यत्त्वया नाभिवादिताः ॥
तत्पापादीदृशो भोगस्तव जातो हि दुःखदः ॥ १७३ ॥
ये च भागवताः शुद्धास्ते नूनं मम मूर्त्तयः ॥
तान्विप्रान्ये नमस्यन्ति ते मामेव नमस्यते ॥
विदितोऽस्मीह विप्रेन्द्र तैरहं नात्र संशयः ॥ १७४ ॥
मम दर्शनकामा ये ते मे भक्ता द्विजास्तथा ॥
शुद्धा भागवताः पूज्या द्रष्टव्याः सर्वदा नृभिः ॥ १७५ ॥
विशेषेण कलौ ब्रह्मन्द्विजरूपो ह्यवस्थितः ॥
तस्माद्ब्राह्मणभक्ता ये ते मद्भक्ता न संशयः ॥ १७६ ॥
यो मां प्राप्तमिहेच्छेत यस्यावाच्यं न विद्यते ॥
अनन्यमानसो भूत्वा मद्भक्तेषु नियोजयेत् ॥ १७७ ॥
गच्छ ब्राह्मण सिद्धोऽसि यदा प्राणान्विमोक्ष्यसि ॥
तदाऽऽगन्ताऽसि मत्स्थानं श्वेतद्वीपं न सशंयः ॥ १७८ ॥
एवमुक्त्वा वरारोहे तत्रैवान्तर्हितोऽभवम् ॥
सोऽपि द्विजस्तनुं त्यक्त्वा मायातीर्थे यशस्विनि ॥
कृत्वा सुदुष्करं कर्म श्वेतद्वीपमुपागतः ॥ १७९ ॥
धन्वी तूणी शरी खड्गी मायाबलपराक्रमः ॥
मां च पश्यति वै नित्यं मायाबलसुसंस्थितम् ॥125.१८० ॥
मायया किं तव धरे न मायां ज्ञातुमर्हसि॥
मम मायां न जानन्ति देवदानवराक्षसाः ॥१८१ ॥
एतत्ते कथितं भूमे मायाख्यानं महौजसम् ॥
मायाचक्रमिति ख्यातं सर्वपुण्यसुखावहम् ॥ १८२॥
आख्यानानां महाख्यानं तपसां च परन्तपः ॥
पुण्यानां परमं पुण्यं गतीनां च परा गतिः ॥१८३॥
नित्यं पठेद्यो भक्तेषु अभक्तेषु न कीर्तयेत् ॥
मा पठेन्नीचमध्येषु मा पठेच्छास्त्रदूषके ॥ १८४ ॥
अग्रतः पृच्छता शूद्रमद्भक्तेषु तथाग्रतः ॥
पठते शोभते विप्रो न तु ये शास्त्रदूषकाः ॥ १८५ ॥
कल्यमुत्थाय यो भूमे पठते च दृढव्रतः ॥
तेन द्वादश वर्षाणि ममाग्रे पठितं भवेत् ॥ १८६ ॥
अथ पूर्णेन कालेन पुमान्पञ्चत्वमागतः ॥
मद्भक्तो जायते देवि वियोनिं न च गच्छति ॥ १८७ ॥
य एवं शृणुयान्नित्यं महाख्यानं वसुन्धरे ॥
न स जायेत मन्दात्मा वियोनिं नैव गच्छति ॥ १८८ ॥
एतत्ते कथितं भद्रे त्वया यत्पूर्वमीप्सितम् ॥
मुच्यमाना वरारोहे किमन्यत्परिपृच्छसि ॥ १८९ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे मायाचक्रं नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥१२५॥