अथ ऋतूपस्करम् ॥
श्रीवराह उवाच ॥
फाल्गुनस्य तु मासस्य शुक्लपक्षस्य द्वादशीम् ॥
गृह्य वासन्तिकान् पुष्पान्सुगन्धा ये क्रमागताः ॥ १ ॥
श्वेतं पाण्डुरकं चैव सुगन्धं शोभनं बहु ॥
विधिना मन्त्रयुक्तेन सुप्रीतेनान्तरात्मना ॥ २ ॥
तत एवं विधिं कृत्वा सर्वं भागवतं शुचिः ॥
यस्तु जानाति कर्माणि सर्वं मन्त्रविनिश्चितः ॥ ३ ॥
तदाहरति कर्माणि विधिदृष्टेन कर्मणा ॥
विधिना मन्त्रपूतेन कुर्याच्छान्तमनोऽमलः ॥ ४॥
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥
मन्त्रः –
नमोस्तु देवदेवेश शङ्खचक्रगदाधर॥
नमोऽस्तु ते लोकनाथ प्रवीराय नमोऽस्तु ते ॥ ९ ॥
सपुष्पितस्येह वसन्तकाले वनस्पतेर्गर्न्धरसप्रयुक्ताः ॥
पश्यंश्च मां पुष्पितपादपेन्द्रं वसन्तकाले समुपागते च ॥ ६ ॥
यश्चैतेन विधानेन कुर्यान्मासे तु फाल्गुने ॥
न स गच्छति संसारं मम लोकाय गच्छति ॥ ७॥
यत्तु पृच्छसि सुश्रोणि मासे वैशाख उत्तमे ॥
शुक्लपक्षे तु द्वादश्यां यत्फलं तच्छृणुष्व मे ॥ ८ ॥
पुष्पितेषु च शालेषु तथान्येषु द्रुमेषु च ॥
गृहीत्वा शालपुष्पाणि मम कर्मणि संस्थिताः ॥ ९ ॥
कृत्वा तु मम कर्माणि शुभानि तरुणानि च ॥
पूज्य भागवतान्सर्वान् स्थापयित्वा ततोऽग्रतः ॥ 124.१० ॥
ऋषयः स्तुवन्ति मन्त्रेण वेदोक्तेन च माधवि ॥
गन्धर्वाप्सरसश्चैव गीतनृत्यैः सवादितैः ॥ ११ ॥
स्तुवन्ति देवलोकाश्च पुराणं पुरुषोत्तमम् ॥
सिद्धाविद्याधरा यक्षाः पिशाचोरगराक्षसाः ॥ १२ ॥
स्तुवन्ति देवं भूतानां सर्वलोकस्य चेश्वरम् ॥
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ॥ १३ ॥
स्तुवन्ति देवदेवेशं युगानां सङ्क्षयेऽक्षयम् ॥
ततो वायुश्च विश्वे च अश्विनौ च समन्विताः ॥ १४ ॥
स्तुवन्ति केशवं देवमादिकालमयं प्रभुम् ॥
ततो ब्रह्मा च सोमश्च शक्रश्चाग्निसमन्वितः ॥
स्तुवन्ति नाथं भूतानां सर्वलोकमहेश्वरम् ॥ १५॥
नारदः पर्वतश्चैव असितो देवलस्तथा ॥
पुलहश्च पुलस्त्यश्च भृगुश्चाङ्गिर एव च ॥१६॥
एते चान्ये च बहवो मित्रावसुपरावसू ॥
स्तुवन्ति नाथं भूतानां योगिनां योगमुत्तमम् ॥ १७ ॥
श्रुत्वा तु प्रतिनिर्घोषं देवानां तु महौजसाम् ॥
ततो नारायणो देवः प्रत्युवाच वसुन्धराम् ॥ १८॥
किमयं श्रूयते शब्दो ब्रह्मघोषेण संयुतः ॥
देवानां च महाभागे महाशब्दोऽत्र श्रूयते ॥ १९ ॥
ततः कमलपत्राक्षी सर्वरूपगुणान्विता ॥
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ॥ 124.२० ॥
देवाः काङ्क्षन्ति ते देव वाराहीं रूपसंस्थितिम् ॥
त्वन्नियोगनियुक्ताश्च तदर्थं लोकभावन ॥२१ ॥
ततो नारायणो देवः पृथिवीं प्रत्युवाच ह॥
अहं जानामि तान्देवि मार्गमाणानुपस्थितान् ॥२२॥
दिव्यं वर्षसहस्रं वै धारितासि वसुन्धरे ॥
मया लीलायमानेन एकदंष्ट्राग्रकेण वै ॥ २३ ॥
इहागच्छामि भद्रं ते द्रष्टुकामा दिवौकसः ॥
आदित्या वसवो रुद्राः स्कन्देन्द्रौ सपितामहाः ॥२४॥
एवं तस्य वचः श्रुत्वा माधवस्य वसुन्धरा॥
शिरस्यञ्जलिमाधाय ततस्तु चरणेऽपतत् ॥२५॥
वाराहं पुरुषं देवं विज्ञापयति सा धरा ॥
उद्धृतासि त्वया देव रसातलगता ह्यहम् ॥ २६ ॥
शरणं त्वां प्रपन्नाहं त्वद्भक्ता त्वं गतिः प्रभुः ॥
किं कर्म कर्मणा केन किं वा जन्मपरायणम् ॥२७॥
कथं वा तुष्यसे देव पूज्यसे केन कर्मणा ॥
तवाहं कर्त्तुमिच्छामि यच्च मुख्यं सुखावहम् ॥२८॥
न च मेऽस्ति व्यथा काचित्तव कर्मणि नित्यशः ॥
न ग्लानिर्न जरा काचिन्न जन्ममरणे तथा॥२९॥
सर्वे सुरासुरा लोकाः सरुद्रेन्द्रपितामहाः ॥
क्वेष्टं निवासं कुर्वन्ति एकैकं च यशोधर ॥124.३०॥
कानि कर्माणि कुर्वन्ति ये त्वां पश्यन्ति माधव ॥
किमाहाराः किमाचारास्त्वां पश्यन्तीह माधव ॥ ३१ ॥
ब्राह्मणस्य च किं कर्म क्षत्रियस्य च किं भवेत् ॥
वैश्यः किं कुरुते कर्म शूद्रः किं कर्म कारयेत् ॥३२॥
योगो वै प्राप्यते केन तपो वा केन निश्चितम् ॥
किं चात्र फलमाप्नोति तव कर्मपरायणः॥३३॥
किं च दुःखनिवासं वा भोजनं पानकं तथा ॥
किं च कर्म प्रयोक्तव्यं तव भक्तैश्च माधव॥३४॥
प्रापणं कीदृशं चापि कासु दिक्षु तथा प्रभो ॥
कथं योनिं न गच्छेत वियोनिं न च गच्छति ॥३५॥
तिर्यग्योनिं न गच्छेत कर्मणा केन केशव ॥
तन्ममाचक्ष्व सकलं येन चैव सुखं भवेत् ॥ ३६ ॥
जरा वा केन गच्छेत जन्म वा केन गच्छति ॥
गर्भवासं न गच्छेत कर्मणा केन वाऽच्युत ॥३७॥
संसारस्य न गच्छेत केन कर्मप्रभावतः ॥
इत्युक्तो भगवांस्तत्र प्रत्युवाच वसुन्धराम् ॥३८॥
शृण्वन्तु मे भागवता ये च मोक्षे व्यवस्थिताः ॥
तान्मन्त्रान्कीर्त्तयिष्यामि यैस्तोषं याति नित्यशः ॥३९॥
मन्त्रः –
मासेषु सर्वेषु च मुख्यभूतस्त्वं माधवो माधवमास एव ॥
पश्येद्देवं तं तु वसन्तकाले उपागतं गन्धरसप्रयुक्त्या॥
नित्यं च यज्ञेषु तथेज्यते यो नारायणः सप्तलोकेषु वीरः ॥124.४०॥
एवं ग्रीष्मे विधिं चैव कुर्यात्सर्वं ममोक्तितः॥
इममुच्चारयेन्मन्त्रं सर्वभागवतप्रियम्॥४१॥
मासेषु सर्वेष्वपि मुख्यभूतो मासो भवान्ग्रीष्म एकः प्रपन्नः ॥
पश्येद्भवन्तं वर्त्तमानं च ग्रीष्मे तेनैव सर्वं दुःखमेतु प्रशान्तिम् ॥४२॥
एवं ग्रीष्मे वरारोहे मम चैवार्च्चनं कुरु ॥
न जन्ममरणं येन मम लोके गतिर्भवेत् ॥ ४३ ॥
यावन्तः पुष्पिताः शालाः पृथ्व्यां यावत्सुगन्धकाः ॥
अर्च्चितः स भवेत्सर्वैः कृतो येन ह्ययं विधि॥४४॥
एवं वर्षास्वपि धरे मम कर्म च कारयेत् ॥
निष्कला भवतो बुद्धिः संसारे च न जायते ॥४५॥
अन्यच्च ते प्रवक्ष्यामि कर्म संसारमोक्षणम् ॥
कदम्बमुकुलाश्चैव सरलार्ज्जुनपादपाः ॥ ४६ ॥
एतेषां सुमनोभिश्च पूजनीयो महादरात् ॥
मम संस्थापनं कृत्वा विधिदृष्टेन कर्मणा ॥
नमो नारायणायेति इमं मन्त्रमुदाहरेत् ॥ ४७ ॥
पश्यन्ति ये ध्यानपरा घनाभं त्वामाश्रिताः पूज्यमानं महिम्ना ॥
निद्रां भवान् भजतां लोकनाथ वर्षास्विमं पश्यतु मेघवर्णम्॥४८॥
आषाढमासे द्वादश्यां सर्वशान्तिकरं शुभम्॥
य एतेन विधानेन मम कर्म तु कारयेत् ॥४९॥
स मर्त्यो न प्रणश्येत संसारेऽस्मिन् युगेयुगे ॥
एतत्ते कथितं देवि ऋतूनां कर्म चोत्तमम् ॥124.५० ॥
तरन्ति येन संसारं नराः कर्मपरायणाः ॥
एतद्गुह्यं महाभागे देवाः केऽपि न जानते ॥५१ ॥
मुक्त्वा नारायणं देवं वाराहं रूपमास्थितम् ॥
नादीक्षिताय दातव्यं मूर्खाय पिशुनाय च ॥५२॥
कुशिष्याय न दातव्यं ये च शास्त्रार्थदूषकाः ॥
न पठेद्गोघ्नमध्ये वै न पठेच्छठमध्यतः ॥ ५३ ॥
धनधर्मक्षयस्तेषां पठनादाशु जायते ॥
पठेद्भागवतानां च ये च धर्मेण दीक्षिताः ॥ ५४ ॥
एतत्ते कथितं भद्रे पूर्वं यत्पृष्टवत्यसि ॥
कार्त्स्न्येन कथितं ह्येतत्किमन्यत्परिपृच्छ सि ॥५५॥
इति श्रीवराहपुराणे भगवच्छास्त्रे ऋतूपस्करणं नाम चतुर्विंशत्यधिकशततमोऽध्यायः ॥१२४॥