१२२

अथ कोकामुखमाहात्म्यम् ॥
वराह उवाच ॥
गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे ॥
तिर्यग्योनिगताश्चापि येन मुच्यन्ति किल्बिषात् ॥ १ ॥
अष्टम्यां च चतुर्द्दश्यां मैथुनं यो न गच्छति ॥
भुक्त्वा परस्य चान्नानि यश्चैव न विकुत्सति ॥ २ ॥
बाल्ये वयस्यपि च यो मम नित्यमनुव्रतः ॥
येन केनापि सन्तुष्टो यो मातापितृपूजकः ॥ ३ ॥
आयासे जीवति न यः प्रविभागी गुणान्वितः ॥
दाता भोक्ता च कार्येषु स्वतन्त्रो नित्यसंयतः ॥ ४ ॥
विकर्म नाभिकुर्वीत कौमारव्रतसंस्थितः ॥
सर्वभूतदयायुक्तः सत्त्वेन च समन्वितः ॥ ५ ॥
मत्या च निःस्पृहोऽत्यन्तं परार्थेष्वस्पृहः सदा ॥
ईदृग्बुद्धिं समादाय मम लोकाय गच्छति ॥
इमं गुह्यं वरारोहे देवैरपि दुरासदम् ॥ ६ ॥
तच्छृणुष्वानवद्याङ्गि कथ्यमानं मयाऽनघे ॥
जरायुजाण्डजोद्भिज्जस्वेदजानि कदाचन ॥ ७ ॥
ये न हिंसन्ति भूतानि शुद्धात्मानो दयापराः ॥
यस्तु कोकामुखे देवि ध्रुवं प्राणान्परित्यजेत् ॥८॥
मनसा न चलत्येव मम वल्लभतां व्रजेत् ॥
ततो विष्णुवचः श्रुत्वा सा मही संशितव्रता ॥९॥
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ॥ 122.१० ॥
धरण्युवाच ॥
अहं शिष्या च दासी च भक्ता च त्वयि माधव ॥ ११ ॥
एवं मे परमं गुह्यं त्वद्भक्त्या वक्तुमर्हसि ॥
चक्रं वाराणसीं चैव अट्टहासं च नैमिषम् ॥ १२ ॥
भद्रकर्णह्रदं चैव हित्वा कोकां प्रशंससि ॥
नगरं च द्विरण्डं च मुकुटं मण्डलेश्वरम् ॥ १३ ॥
केदारं च ततो मुक्त्वा कि कोकां च प्रशंससि ॥
देवदारुवनं मुक्त्वा तथा जालेश्वरं विभुम् ॥ १४ ॥
दुर्गं महाबलं मुक्त्वा किं वै कोकां प्रशंससि ॥
गोकर्णं च ततो मुक्त्वा शुद्धजाल्मेश्वरं तथा ॥ १५ ॥
एकलिङ्गं ततो मुक्त्वा किं वा कोकां प्रशंससि ॥
एवं पृष्टस्तथा भक्त्या माधवश्च महाप्रभुः ॥ १६ ॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ॥
श्रीवराह उवाच ॥
एवमेतन्महाभागे यन्मां त्वं भीरु भाषसे ॥ १७ ॥
कथयिष्यामि ते गुह्यं कोका येन विशिष्यते ॥
एते रुद्राश्रिताः क्षेत्रा ये त्वया परिकीर्तिताः ॥ १८ ॥
एते पाशुपताश्चैषां कोका भागवतस्य ह ॥
तत्रान्यत्ते प्रवक्ष्यामि महाख्यानं वरानने ॥ १९ ॥
कृतं कोकामुखे चैव मम क्षेत्रे हि सुन्दरि ॥
कश्चिल्लुब्धो मिषाहारश्चरन्वै कोकमण्डले ॥ 122.२० ॥
तत्राल्पेनाम्बुना युक्ते ह्रदे मत्स्यस्तु तिष्ठति ॥
दृष्ट्वा तं लुब्धकस्तूर्णं बडिशेनाजहार ह ॥
तस्य हस्ताच्च बलवान्मत्स्यस्तूर्णं विनिर्गतः ॥
अथ श्येनस्तु तं हर्त्तुं मन्त्रयित्वा नभश्चरः ॥२१॥
निपत्य तं गृहीत्वैव प्रोड्डीनस्त्वरयान्वितः ॥
अशक्तस्य ततो नेतुं मत्स्यः कोकामुखेऽपतत् ॥२२॥
तत्क्षेत्रस्य प्रभावेण राजपुत्रोऽभवत्प्रभुः ॥
रूपवान् गुणवाञ्छुद्धः कुलेन वयसान्वितः ॥२३॥
अथ कालेन तस्यैव मृगव्याधस्य चाङ्गना॥
गृहीत्वा चैव मांसानि गच्छन्ती याति तत्र वै ॥२४॥
एका चिल्ली मांसलुब्धा तद्धस्तान्मांसगर्द्धिनी ॥
आगत्यागत्य तरसा हर्त्तुं समुपचक्रमे ॥ २५ ॥
मृगव्याधा बलान्मांसं हर्तुकामां तु चिल्लिकाम्॥
बाणेनैकेन संहत्य पातिता भुवि तत्क्षणात्॥२६॥
आकाशात्पातिता भद्रे कोकायां मम सन्निधौ॥
जाता चन्द्रपुरे रम्ये राजपुत्री यशस्विनी॥२७ ॥
सा व्यवर्द्धत कन्या तु वयोरूपगुणान्विता॥
चतुःषष्टिकलायुक्ता पुरुषं सा जुगुप्सति ॥२८॥
रूपवान्गुणवाञ्छूरो युद्धकार्यार्थनिश्चितः ॥
सौम्यश्च पुरुषश्चैव सा च नेति जुगुप्सति ॥ २९ ॥
रूपवान्गुणवाञ्छूरो युदकार्यार्थनिष्ठितः ॥
सौम्यं च पुरुषं चैव सर्वानभिजुगुप्सति ॥ 122.३० ॥
अथ केनचित्कालेन शक आनन्दपूरके॥
सम्बन्धो जायत तयोर्मध्यमे वयसि स्थयोः ॥ ३१ ॥
तथा तु तौ समासाद्य परस्परमथ क्रमात् ॥
यथान्यायं स विप्रोक्तं विधिदृष्टेन कर्मणा ॥३२॥
स वै तथा समं नित्यं सा च तेन समं शुभा ॥
अन्योन्यं रममाणौ तौ मुहूर्तमपि नोज्झतः॥३३॥
गच्छत्येवं बहुतरे काले चैवाप्यनिन्दिता ॥
समप्रेम्णा च संयुक्ता सौह्रदेन च नायकम्॥३४॥
भजमाना विनीता च सौहृदाच्च विशेषतः ॥
एवं बहुगतः कालः कामभोगेषु सक्तयोः॥३९॥
राजपुत्रस्तस्तोऽप्यत्र शकानां नन्दवर्द्धनः॥
तस्या जायत मध्याह्ने शिरोरुगतिपीडिनी॥३६॥
ये केचिद्भिषजस्तत्र गदेषु कुशलाः शुभे॥
ते तत्रोषधयोगं च चक्रुस्तेनापि वेदना ॥३७॥
ननाश नैव संयातः कालो बहुतिथस्ततः॥
न सम्बुध्यति चात्मानं विष्णुमायाविमोहितः॥३८॥
पूर्णे हि समये तत्तु उभयोश्च तदन्तरम्।
तस्य कालः संवृतस्य योऽसौ पूर्वप्रतिस्तवः ॥३९॥
अयने गत एतेषां वृत्तं कौतूहलं भुवि ॥
अन्योऽन्यप्रीतियुक्तौ तु नान्योऽन्यं जहतुः क्वचित् ॥122.४० ॥
ततः सर्वानवद्याङ्गी भर्त्तारमिदमब्रवीत् ॥
किमिदं तव भद्रं ते वेदना जायते शिरे ॥ ४१ ॥
एतदाचक्ष्व तत्त्वेन यद्यहं च तव प्रिया ॥
बहवो भिषजश्चैव नानाशास्त्रविशारदाः ॥४२॥
कुर्वन्ति तव कर्माणि वेदना च न गच्छति ॥
एवं स प्रियया प्रोक्तस्तां प्रियां पुनरब्रवीत् ॥४३॥
इदं किं विस्मृता भद्रे सर्वव्याधिसमन्वितम् ॥
यल्लब्धं मानुषत्वं च सुखदुःखसमन्वितम् ॥ ४४॥
संसारसागरारूढं नातिप्रष्टुं त्वमर्हसि ॥
तेनैवं भाषिता बाला श्रोतुकामा वरानना॥४५॥
ततः कदाचिच्छयने सुप्तौ तौ दम्पती किल॥
गते बहुतिथे काले पुनः पप्रच्छ सा प्रियम्॥४६॥
कथयस्व तमेवार्थं यन्मया पूर्वपृच्छितम्॥
किं मां न भाषसे नाथ साभिप्रायं वचस्तव॥४७॥
गोप्यं वा किञ्चिदस्तीह किं गोपयसि मे पुरः॥
अवश्यं चैव वक्तव्यं यद्यहं तव वल्लभा॥४८॥
इति निर्बन्धतः पृष्टः स शकाधिपतिर्नृपः॥
तां प्रियां प्रणयात्प्राह बहुमानपुरःसरम् ॥४९॥
मुच्यतां मानुषं भावं तां जातिं स्मर पौर्विकीम् ॥
अथ कौतूहलं भद्रे श्रवणे पूर्वजन्मनः ॥122.५०॥
मन्मातापितरौ गत्वा प्रसादय शुचिस्मिते॥
मानार्हौ मानयित्वा तौ ययाहं जठरे धृतः॥५१॥
तयोराज्ञां पुरस्कृत्य मानयित्वा यथार्हतः ॥
अथ कोकामुखे गत्वा कथयिष्याम्यसंशयम् ॥ ५२ ॥
स्वपूर्वजन्मवृत्तं तु देवानामपि दुलर्भम् ॥
तत्र ते कथयिष्यामि सर्ववृत्तमनिन्दिते ॥ ५३ ॥
ततः सा ह्यनवद्याङ्गी श्वश्रूश्वशुरयोः पुरः ॥
गत्वा गृहीत्वा चरणौ ततस्ताविदमब्रवीत् ॥५४॥
किञ्चिद्विज्ञप्तुकामास्मि तत्र वामवधीयताम् ॥
भवदाज्ञां पुरस्कृत्य भवद्भ्यामनुमानितौ ॥ ५५ ॥
पुण्ये कोकामुखे गन्तुमिच्छावस्तत्र वां गुरू ॥
कार्यगौरवभावेन न निषेध्यौ कथञ्चन ॥ ५६ ॥
अद्य यावत्किमपि वां याचितं न मया क्वचित्॥
पुरस्ताद्ध्यावयोस्तन्मे याचितं दातुमर्हतः ॥ ५७ ॥
शिरावेदेनया युक्तः सदा तव सुतो ह्ययम् ॥
मध्याह्ने मृतकल्पो वै जायते ह्यचिकित्सकम् ॥५८॥
सुखानि सर्वविषयान्विसृज्य परिपीडितः ॥
कोकामुखं विना कष्टं न निवृत्तं भविष्यति ॥ ५९ ॥
कदाचिन्नोक्तपूर्वं ते रहस्यं परमं महत् ॥
त्वरितं गन्तुमिच्छामि विष्णोस्तत्परमं पदम् ॥ 122.६० ॥
दम्पतिभ्यां हि मननं रोचतां सर्वथैव हि ॥
ततो वधूवचः श्रुत्वा शकानामधिपो नृपः ॥ ६१ ॥
करेण स्वयमादाय वधूं पुत्रमुवाच ह ॥
किमिदं चिन्तितं वत्स कोकामुखगमं प्रति ॥ ६२ ॥
हस्त्यश्वरथ यानानि स्त्रियश्चाप्सरसोपमाः ॥
सर्वमेतत्तु सप्ताङ्गं कोशकोष्ठादिसंयुतम् ॥६३॥
शरणं वित्तयो राज्यं त्वयि सर्वं प्रतिष्ठितम् ॥
मित्रं वरासनं चैव गृह्णीष्व सुतसत्तम ॥६४॥
त्वयि प्रतिष्ठिताः प्राणाः सन्तानं च तदुत्तरम् ॥
ततः पितुर्वचः श्रुत्वा राजपुत्रो यशस्विनि ॥ ६५ ॥
पितुः पादौ गृहीत्वा च प्रोवाच विनयान्वितः ॥
अलं राज्येन कोशेन वाहनेन बलेन वा ॥ ६६ ॥
गन्तुमिच्छामि तत्राहं तूर्णं कोकामुखं महत् ॥
शिरोवेदनया युक्तो यदि जीवाम्यहं पितः ॥ ६७ ॥
तदा राज्यं बलं कोशो ममैवैतन्न सशंयः ॥
तत्रैव गमनान्मह्यं वेदना नाशमेष्यति।६८॥
पुत्रोक्तमवधार्यैव शकानामधिपो नृपः ॥
अनुजज्ञे ततः कोकां गच्छ पुत्र नमोऽस्तु ते ॥ ६९ ॥
वणिजश्चैव पौराश्च वैश्याश्चापि वराङ्गनाः ॥
अनुजग्मू राजपुत्रं कोकामुखपथे स्थितम् ॥ 122.७० ॥
अथ दीर्घेण कालेन प्राप्तः कोकामुखं त्विदम् ॥
तत्र गत्वा वरारोहा भर्त्तारमिदमब्रवीत् १७३॥
पूर्वपृष्टं मया यत्ते वक्ष्यामीति च मां प्रति ॥
कोकामुखे त्वयाप्युक्तं तदेतन्मम कथ्यताम् ॥ ७२ ॥
निशम्येति प्रियाप्रोक्तं राजपुत्रो यशस्विनि ॥
प्रहस्याह भिया तां तु समालिङ्ग्य वसुन्धरे ॥ ७३ ॥
रजनी सम्प्रवृत्तेयं सुखं स्वापो विधीयताम् ॥
श्वः सर्वं कथयिष्यामि यत्ते मनसि वर्त्तते॥७४॥
प्रभातायां तु शर्वर्यां स्नातौ क्षौमविभूषितौ॥
प्रणम्य शिरसा विष्णुं हस्ते गृह्य ततः प्रियाम् ॥७९॥
ततः पूर्वोत्तरे पार्श्वे नित्यं यो हृदि तिष्ठति ॥
अस्थीनि दर्शयामास अवशिष्टानि यानि तु॥७॥
एतानि मम चास्थानि पूर्वदेहोद्भवानि च ॥
अहं पुराभवं मत्स्यः कोकेषु विचरन् जले ॥७॥
व्याधेन निगृहीतोऽस्मि बडिशेन जलेचरः॥
तद्धस्तान्निर्गतस्तत्र बलेन पतितो भुवि॥७८॥
श्येनेनामिषलुब्धेन नखैर्विद्धोऽस्मि सुन्दरि ॥
नीत आकाशमार्गेण तस्माच्च पतितोऽत्र वै ॥ ७९ ॥
तेन तस्य प्रहारेण जाता शिरसि वेदना ॥
अहमेव विजानामि नान्यो जानाति मां विना॥122.८०॥
एतत्ते कथितं भद्रे पूर्वपृष्टं च यत्त्वया ॥
गच्छ सुन्दरि भद्रं ते यत्र ते वर्त्तते मनः ॥८१॥
ततः साप्यनवद्याङ्गी रक्तपद्मशुभानना ॥
करुणं स्वरमादाय भर्त्तारं पुनरब्रवीत् ॥ ८२ ॥
एतदर्थं मया भद्र गुह्यं नोक्तं तथा स्वकम् ॥
अहं च यादृशी पूर्वमभवं तच्छृणुष्व मे॥८३॥
क्षुत्पिपासापरिश्रान्ता चिल्ली गगनगामिनी॥
वृक्षोपरि समासीना भक्ष्यं चैव विचिन्वती ॥८४॥
अथ कश्चिन्मृगव्याधो हत्वा वनचरान्बहून्॥
सङ्गृह्य मांसभारान्वै तेन मार्गेण सङ्गतः॥८५॥
स्थापयित्वा मांसभारान्प्रियायाः सविधे स्वयम् ॥
काष्ठान्यानयितुं यातः क्षुधितो मांसपाचने ॥८३॥
प्रवृत्तोऽग्निमुपादाय तावदुड्डीय सत्वरम्॥
मांसपिण्डो मया विद्धो दृढैर्वज्रमयैर्नखैः ॥८७॥
न च सक्तास्मि संहर्त्तुं मांसभारप्रपीडिता ॥
अशक्ता दूरगमने सविधे हि व्यवस्थिता ॥ ८८ ॥
भक्षयित्वा ततो मांसं व्याधः संहृष्टमानसः ॥
अपश्यन्मांसपिण्डं तु मृगयामास पार्श्वतः ॥८९॥
तावद्ददर्श मां तत्र खादन्तीं मांसपिण्डिकाम्॥
ततः स धनुरुद्यम्य सशरं च व्यकर्षत॥122.९०॥
विद्धा बाणेन मां तत्र भक्षयन्तमिपातयत् ॥
ततोऽहं भ्रममाणा वै निश्चेष्टा गतजीविता ॥९१ ॥
पतितास्म्यवशा भद्र कालतन्त्रे दुरासदे ॥
एतत्क्षेत्रप्रभावेण त्वकामापि नृपात्मजा॥९२॥
जातास्मि त्वत्प्रिया चापि स्मरन्ती पूर्वजन्म तत्॥
एतानि पश्य चास्थीनि शेषाणि बहुकालतः॥९३॥
गलितान्यल्पशेषाणि प्राणनाथ समीपतः ॥
एवं सा दर्शयित्वा तु भर्त्तारं पुनरब्रवीत् ॥९४ ॥
आनीतोऽसि मया भद्र स्थानं कोकामुखं प्रति॥
एतत्क्षेत्रप्रभावेण तिर्यग्योनिगता अपि॥९५॥
उत्तमे तु कुले जाता मानुषी जातिमाश्रिताः ॥
यं यं प्रवक्ष्यसे धर्मं विष्णुप्रोक्तं यशोधन॥९६॥
तं तमेव करिष्यामि विष्णुलोके सुखावहम् ॥
ततस्तस्या वचः श्रुत्वा लब्धपूर्वस्मृतिर्नृपः ॥ ९७ ॥
विस्मयं परमं गत्वा साधु साध्वित्यपूजयत् ॥
तस्मिन् क्षेत्रे च यत्कर्म कर्त्तव्यं धर्मसंहितम्॥९८॥
तच्छ्रुत्वा कानिचिद्देवी स्वयं चक्रे पतिव्रता॥
अन्येऽपि सर्वे तच्छ्रुत्वा यस्य यद्रोचते प्रियम् ॥ ९९ ॥
तत्तत्सर्वेऽपि कुर्वन्ति विधिदृष्टेन कर्मणा ॥
तत्र तौ दम्पती द्रव्यमन्नं रत्नं द्विजेषु च ॥ 122.१०० ॥
ददतुः परमप्रीतौ पात्रेभ्यश्च यथार्हतः ॥
येऽन्ये तत्सार्थमासाद्य यातास्तेऽपि वसुन्धरे ॥ १०१ ॥
ब्राह्मणेभ्यो ददुः स्वानि विष्णुभक्त्या यतव्रताः ॥
तत्र स्थित्वा वरारोहे मम कर्मव्यवस्थितः ॥ १०२ ॥
तत्क्षेत्रस्य प्रभावेण श्वेतद्वीपमुपागताः ॥
एवं स राजपुत्रोऽपि मम कर्मव्यवस्थितः ॥ १०३ ॥
मुक्त्वा तु मानुषं भावं श्वेतद्वीपमुपागतः ॥
सर्वे च पुरुषास्तत्र आत्मनात्मानुदर्शनात् ॥१०४ ॥
( शुक्लाम्बरधरा दिव्यभूषणैश्च विभूषिताः ॥
दीप्तिमन्तो महाकायाः सर्वे च शुभदर्शनाः ॥ १०५ ॥
स्त्रियोऽपि दिव्या यत्रत्या दिव्यभूषणभूषिताः ॥
तेजसा दीप्तिमत्यश्च शुद्धसत्त्व विभूषिताः ॥ १०६ ॥
मयि शुद्धं परं भावमारूढाः सत्यवर्च्चसः ॥
एतत्ते कथितं देवि कोकामुखमनुत्तमम् ॥ १०७ ॥
यत्र मत्स्यश्च चिल्ली च सकामा ये समागताः ॥
केचिच्चान्द्रायणं कुर्युः केचिच्चैव जलाशनम्॥१०८॥
ते च विष्णुमयान्धर्मान्द्विजस्तांस्तान्त्समाचरेत् ॥
बहुधान्यवरं रत्नं दम्पत्योऽथ यशस्विनी ॥ १०९ ॥
तेऽपि कुर्वन्ति कर्माणि मम भक्ता व्यवस्थिताः ॥
तेऽपि दीर्घेण कालेन अटमाना इतस्ततः ॥ 122.११० ॥
कुर्वन्तो मम कर्माणि भाव्यं पञ्चत्वमागताः ॥
ततः क्षेत्रप्रभावेण मम कर्मप्रभावतः ॥ १११ ॥
मम चैव प्रसादेन श्वेतद्वीपमुपागतः ॥
एवं स राजपुत्रोऽथ सर्वभूतगुणान्वितः ॥१ १२ ॥
भुक्त्वा तु मानुषं भावमूर्ध्वशाखोनुतिष्ठति ॥
योऽसौ परिजनस्तस्य मम कर्मव्यवस्थितः ॥११ ३ ॥
मानुषं भावमुत्सृज्य मम लोकमुपागतः ॥
सर्वशो द्युतिमांस्तत्र आत्मनानात्मदर्शनात् ॥ ११४ ॥)
याश्च तत्र स्त्रियः काश्चित्सर्वाश्चोत्पलगन्धिनीः ॥
मायया मतिमन्मुक्ताः सर्वाश्चैव प्रियावृताः ॥ ११५ ॥
प्रसादान्मम सुश्रोणि श्वेतद्वीपमुपागताः॥
एष धर्मश्च कीर्तिश्च शक्तिश्चैव महद्यशः ॥ ११६ ॥
कर्मणां परमं कर्म तपसां च महत्तपः ॥
आख्यानानां च परमं कृतीनां परमा कृतिः ॥ ११७ ॥
धर्माणां च परो धर्मस्तवार्थं कीर्तितो मया ॥
क्रोधनाय न तं दद्यान्मूर्खाय पिशुनाय च ॥ ११८ ॥
अभक्ताय न तं दद्यादश्रद्धाय शठाय च ॥
दीक्षितायैव दातव्यं सुप्रपन्नाय नित्यशः ॥ ११९ ॥
पण्डिताय च दातव्यं यश्च शास्त्रविशारदः ॥
एतन्मरणकालेऽपि धारयेद्यः समाहितः ॥ 122.१२० ॥
सोऽपि मुच्येत पूतात्मा गर्भाद्योनिभवाद्भयात् ॥
एतत्ते कथितं भद्रे महाख्यानं महौजसम् ॥ १२१ ॥
य एतेन विधानेन गत्वा कोकामुखं महत्॥
तेऽपि यान्ति परां सिद्धिं चिल्लीमत्स्यौ यथा पुरा॥१२२॥
इति श्रीवराहपुराणे कोकामुखमाहात्म्ये द्वाविंशत्यधिकशततमोऽध्यायः॥१२२॥