१२०

अथ त्रिसन्ध्यामन्त्रोपस्थानम् ॥
श्रीवराह उवाच ॥
शृणुष्व परमं गुह्यं पूर्वं पृष्टं त्वया धरे ॥
देवि सर्वं प्रवक्ष्यामि संसारतरणं महत् ॥ १ ॥
स्नानं कृत्वा यथान्यायं मम कर्मपरायणाः॥
उपसर्पन्ति ये भक्त्या कदन्नाशा जितेन्द्रियाः ॥ २ ॥
यश्चैवमुच्यते भद्रे मम रूपं सनातनम् ॥
अहमेव वरारोहे सर्वभूतसनातनम् ॥ ३ ॥
अधश्चोर्ध्वं च तिर्यक् च अहमेव व्यवस्थितः ॥
दिशां च विदिशां चैव उपर्युपरि भामिनि ॥ ४ ॥
सर्वथा वन्दनीयास्ते मम भक्तेन सर्वदा ॥
क्रियासमूह युक्तेन यदीच्छेत्परमां गतिम् ॥ ५ ॥
अन्यच्च ते प्रवक्ष्यामि गुह्यं लोके महद्यशः ॥
यथा वै वन्दनीयास्ते मम मार्गानुसारिणः ॥ ६ ॥
कृत्वापि परमं कर्म बुद्धिमादाय तद्विधाम् ॥
ततः पूर्वमुखो भूत्वा पुनर्गृह्य जलाञ्जलिम् ॥ ७ ॥
ओं नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥ ८ ॥
यजामहे धर्मपरायणोद्भवं नारायणं सर्वलोकप्रधानम् ॥
ईशानमाद्यं पुरुषं पुराणं संसारमोक्षाय कृपाकरं तम् ॥ ९ ॥
ततः पश्चान्मुखो भूत्वा पुनर्गृह्य जलाञ्जलिम् ॥
द्वादशाक्षरमुच्चार्य इमं मन्त्रमुदीरयेत् । 120.१० ॥
मन्त्रा ऊचुः ॥
यथा तु देवः प्रथमादिकर्त्ता पुराण कल्पश्च यथा विभूतिः ॥
तथा स्थितं चादिमनन्तरूपममोघसङ्कल्पमनन्तमीडे ॥११ ॥
ततस्तेनैव कालेन पुनर्गृह्य जलाञ्जलिम् ॥
तेनैव चास्य योगेन भूत्वा चैवोत्तरामुखः ॥
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥ १२ ॥
यजामहे दिव्यं परं पुराणमनादिमध्यान्तमनन्तरूपम् ॥
भवोद्भवं विश्वकरं प्रशान्तं संसारमोक्षावहमद्वितीयम् ॥ १ ३॥
ततस्तेनैव कालेन भूत्वा वै दक्षिणामुखः ॥
नमः पुरुषोत्तमायेत्युक्त्वा इमं मन्त्रमुदीरयेत्॥१४॥
यजामहे यज्ञमहो रूपं तु सत्यं ऋतं च कालादिमरूपमाद्यम्॥
अनन्यरूपं च महानुभावं संसारमाक्षोय कृतावतारम् ॥१५॥
काष्ठकृत्यस्ततो भूत्वा कृत्वा चेन्द्रियनिग्रहम्॥
अच्युते तु मनः कृत्वा इमं मन्त्रमुदाहरेत् ॥१६॥
यजामहे सोमपं भवन्तं ते सोमार्कनेत्रं शतपत्रनेत्रम्॥
जगत्प्रधानं ननु लोकनाथं मृत्युत्रिसंसारविमोक्षणं च ॥१७॥
त्रिषु सन्ध्यास्वनेनैव विधिना कुर्यान्मम च कर्म तत्॥
बुद्ध्या युक्त्या च मत्या च यदीच्छेत्परमां गतिम् ॥१८॥
गुह्यानां परमं गुह्यं योगानां परमो निधिः ॥
साङ्ख्यानां परमं साङ्ख्यं कर्मणां कर्म चोत्तमम् ॥१९॥
एतन्न दद्यान्मूर्खाय पिशुनाय शठाय च ॥
दीक्षितायैव दातव्यं सुशिष्याय दृढाय च ॥ 120.२० ॥
एतन्मरणकालेऽपि गुह्यं विष्णुप्रभाषितम् ॥
बुद्ध्या धारयितव्यं न विस्मर्त्तव्यं कदाचन॥२१॥
य एतत्पठते नित्यं कल्पोच्छ्रायी दृढव्रतः ॥
ममापि हृदये नित्यं स तिष्ठति न संशयः॥ २२॥
य एतेन विधानेन त्रिसन्ध्यं कर्म कारयेत् ॥
तिर्यग्योनिविनिर्मुक्तो मम लोकं स गच्छति ॥ २३ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसन्ध्यामन्त्रोपस्थानकरणं नाम विंशत्यधिकशततमोऽध्यायः ॥ १२०॥