अथ देवोपचारविधिः ॥
श्रीवराह उवाच ॥
शृणु तत्त्वेन मे भद्रे प्रायश्चित्तं यथाविधि ॥
यथावत्स च दातव्यो मम भक्तेन विद्यया ॥ १ ॥
वक्ष्यमाणेन मन्त्रेण उद्धृत्य दन्तकाष्ठकम् ॥
दीपं न ज्वालयेत्तावद्यावन्न स्पृश्यते धरा ॥ २ ॥
दीपे प्रज्वालिते तत्र हस्तशौचं तु कारयेत् ॥
ततः प्रक्षाल्य हस्तौ तु पुनरेवमुपागतः ॥ ३ ॥
वन्दयित्वास्य चरणौ दन्तधावनमानयेत् ॥
अनेनैव तु मन्त्रेण दद्याद्वै दन्तकाष्ठकम् ॥ ४ ॥
मन्त्रश्च –
भुवनभवन रविसंहरण अनन्तो मध्यश्चेति गृह्णेमं भुवनं दन्तधावनम् ॥ ५ ॥
यत्त्वया भाषितं सर्वमेवं धर्मविनिश्चयम् ॥
दन्तधावनं दन्ते दद्याद्यावत्कर्म वसुन्धरे ॥ ६ ॥
नित्यं शिरसोत्तार्य धृत्वा शिरसि चात्मनः ॥
पश्चात्तु जलपूतेन ततो हस्तेन सुन्दरि ॥ ७ ॥
कार्याणि मुखकर्माणि स्वल्पेन सलिलेन च ॥
मुखप्रक्षालने चेमं शृणु मन्त्रं च सुन्दरि ॥ ८ ॥
इष्ट्वेममुक्तमन्त्रेण संसारात्तु प्रमुच्यते ॥ ९ ॥
मन्त्रश्च-
तद्भगवन्त्वां गुणश्च आत्मनश्चापि गृह्ण वारिणः सर्वदेवतानां मुखमेव प्रक्षालयेत् ॥
एतेन मन्त्रेण सुगन्धधूपदीपनैवेद्यं पुनरेवं समर्पयेत् ॥ 118.१० ॥
ततः पुष्पाञ्जलिं दत्त्वा भगवन् भक्तवत्सल ॥
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥ ११ ॥
मन्त्रज्ञानां यज्ञयष्टारं भूतस्रष्टारमेव च ॥
अन्य पुष्पाणि सङ्गृह्य कल्यमुत्थाय माधवि ॥ १२ ॥
पूजयेद्देवदेवेशं ज्ञानी भागवतः शुचिः ॥
निपतेद्दण्डवद्भूमौ सर्वकर्मसमन्वितः ॥ १ ३॥
कायं निपतितं कृत्वा प्रसीदेति जनार्द्दनम् ॥
शिरसा चाञ्जलिं कृत्वा इमं मन्त्रमुदाहरेत्॥ १४॥
मन्त्रैर्लब्ध्वा सञ्ज्ञां त्वयि नाथ प्रसन्ने त्वदिच्छातो ह्यपि योगिनां चैव मुक्तिः ॥ १५ ॥.
यतस्त्वदीयः कर्मकरोऽहमस्मि त्वयोक्तं यत्तेन देवः प्रसीदतु ॥ १६ ॥
एवं मन्त्रविधिं कृत्वा मम भक्तिव्यवस्थितः ॥
पृष्ठतोऽनुपदं गत्वा शीघ्रं यावन्न हीयते ॥ १७ ॥
एवं सर्वं समादाय मम कर्म दृढव्रतः ॥
शीघ्रं मेऽभ्यञ्जनं दद्यात्तैलेनाथ घृतेन वा ॥ १८ ॥
ततः स्नेहं समुद्दिश्य मन्त्रज्ञः कर्मकारकः ॥
एवं चित्तं समाधाय इमं मन्त्रमुदीरयेत् ॥ १९ ॥
मन्त्रा ऊचुः ॥
स्नेहं स्नेहेन सङ्गृह्य लोकनाथ मया हृतम् ॥
सर्वलोकेषु सिद्धात्मा ददाम्यात्मकरेण च ॥ 118.२० ॥
मया प्रोक्तः क्षमस्वेति तुभ्यं चैव नमो नमः ॥
एवं मन्त्रः समाख्यातस्तेनाज्यात्प्रथमं शिरः ॥२१ ॥
दक्षिणाङ्गं ततोऽभ्यज्याद्वाममङ्गं ततोऽनु च ॥
पश्चात्पृष्ठं समभ्यज्य ततोऽभ्यज्यात्कटिं तथा ॥ २२ ॥
पश्चालिम्पेत्ततो भूमिं गोमयेन दृढव्रतः॥
तस्य दृष्ट्वा श्रुतं भद्रे गोमयेन सुनिश्चितम् ॥२३ ॥
यानि पुण्यान्यवाप्नोति तानि मे गदतः शृणु ॥
आज्यमानमपि तथा यावन्तस्तैलबिन्दवः ॥ २४ ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
ततः पुण्यकृताँल्लोकान्पुरुषो योऽनुलिप्यते ॥ २५ ॥
एकैककणसङ्ख्यातः स्वर्गलोके महीयते ॥
एवं योऽभ्यञ्जयेद्गात्रं तैलेन तु घृतेन वा ॥ २६ ॥
तावद्वर्षसहस्राणि मम लोके प्रतिष्ठति ॥
अथ चोद्वर्त्तनं भद्रे प्रवक्ष्यामि प्रियं मम ॥ २७ ॥
येन शुध्यन्ति चाङ्गानि मम प्रीतिश्च जायते ॥
भोगिना यदि वा रोध्रं यदि पिप्पलिकामधु ॥ २८ ॥
मधूकमश्वपर्णं वा रोहिणं चैव कर्कटम् ॥
एतेषां प्राप्य लभते शास्त्रज्ञः कर्मकारकः ॥ २९ ॥
करेण तस्य चूर्णेन पिष्टचूर्णेन वा पुनः ॥
एतदुद्वर्त्तनं कुर्यान्मम गात्रसुखावहम् ॥ 118.३० ॥
यदीच्छेत्परमां सिद्धिं मम कर्मानुसारकः ॥
एवमुद्वर्त्तनं कृत्वा स्नानकर्म तु कारयेत् ॥ ३१॥
तत आमलकं चैव वसुगन्धार्णमुत्तमम् ॥
तेन मे सर्वगात्राणि मर्द्दयित्वा दृढव्रतः ॥३२॥
जलकुम्भं ततो गृह्य इमं मन्त्रमुदाहरेत् ॥
देवानां देवदेवोऽसि देवोऽनादिरभूः परः ॥३३॥
तव व्यक्तस्वरूपेण स्नानं गृह्णीष्व मेऽनघ ॥
एवं तु स्नपनं कुर्यान्मम मार्गानुसारकः ॥ ३४ ॥
अथ सौवर्णकुम्भेन रजतस्य घटेन वा ॥
एतेषामप्यलाभे तु कर्मज्ञः कर्म कारयेत् ॥ ३५॥
ताम्रकुम्भमयेनैव कुर्यात्स्नपनमुत्तमम् ॥
एवं तु स्नपनं कृत्वा विधिदृष्टेन कर्मणा ॥ ३६ ॥
पश्चाद्गन्धः प्रदातव्यः प्रकृष्टो मन्त्रसंयुतः ॥
सर्वगन्धाः सौमनस्याः सर्ववर्णाश्च ते मताः ॥ ३७ ॥
उत्पन्नाः सर्वलोकेषु त्वया सत्येषु योजिताः ॥
मया च ते तवाङ्गेषु तानावह शुचीन्प्रभो ॥ ३८ ॥
मम भक्त्या सुसन्तुष्टः प्रतिगृह्णीष्व माधव ॥
एवं गन्धांस्ततो दत्त्वा उत्कृष्टं कर्म कारयेत् ॥ ३९ ॥
कर्मण्यान्यपि माल्यानि ततो मह्यं प्रदापयेत् ॥
तदेव चार्च्चनं कृत्वा कर्मण्यः कर्मसम्मितः ॥ 118.४० ॥
ततः पुष्पाञ्जलिं दत्त्वा इमं मन्त्रमुदीरयेत् ॥
जलजं स्थलजं चैव पुष्पं कालोद्भवं शुचि ॥ ४१ ॥
मम संसारमोक्षाय गृह्ण गृह्ण ममाच्युत ॥
एवंविधोपचारेण अर्चयित्वा मम प्रियम् ॥ ४२ ॥
पश्चाद्धूपं च मे दद्यात्सुगन्धद्रव्यसम्मितम् ॥
धूपं गृह्य विधानेन मयोक्तं सुखवल्लभम् ॥ ४३ ॥
उभयेषु कुलेष्वात्मा धूपमन्त्रमुदीरयेत् ॥
वनस्पतिरसं दिव्यं बहुद्रव्यसमन्वितम् ॥ ४४ ॥
मम संसारमोक्षाय धूपोऽयं प्रतिगृह्यताम् ॥
मन्त्रः –
शान्तिर्वै सर्वदेवानां शान्तिर्मम परायणम् ॥ ४५ ॥
साङ्ख्यानां शान्तियोगेन धूपं गृह्ण नमोऽस्तु ते ॥
त्राता नान्योऽस्ति मे कश्चित्त्वां विहाय जगद्गुरो ॥ ४६ ॥
एवमभ्यर्च्चनं कृत्वा माल्यगन्धानुलेपनैः॥
पश्चाद्वस्त्रं च वै दद्यात् क्षौमशुक्लं सपीतकम् ॥ ४७ ॥
एवं चैव समादाय कृत्वा शिरसि चाञ्जलिम् ॥
दिव्ययोगं समादाय इमं मन्त्रमुदीरयेत् ॥ ४८ ॥
प्रीयतां भगवान्पुरुषोत्तमः श्रीनिवासः श्रीमानानन्दरूपः ॥
गोप्ता कर्त्ताधिकर्त्ता मान्यनाथ भूतनाथ आदिरव्यक्तरूपः ॥
क्षौमं वस्त्रं पीतरूपं मनोज्ञं देवाङ्गे स्वे गात्रप्रच्छादनाय ॥ ४९ ॥
वस्त्रैर्विभूषणं कृत्वा मम गात्रानुसारि यत् ॥
पश्चात्पुष्पं गृहीत्वा तु आसनं चोपकल्पयेत्॥118.५०॥
गृहीत्वा प्रणवाद्येन धर्मपुण्येन संवृतः ॥ ५१ ॥
इदं परायणं परस्परप्रीतिकरं प्राणरक्षणं प्राणिनां स्विष्टं तदनुकल्पं सत्यमुपयुक्तमात्मने तद्देव गृहाण ॥५२॥
एवं तु प्रापणं कृत्वा मम मार्गानुसारकः ॥
मुखप्रक्षालनं दत्त्वा शीघ्रमेव प्रकल्पितम्॥५३॥
शुचिः स्तुवति देवानामेतदेव परायणम्॥
शौचार्थं तु जलं गृह्णन् कृत्वा प्रापणमुतमम्॥५४॥
एवं तु भोजनं दत्त्वा व्यपनीय तु प्रापणम्॥
ताम्बूलं तु ततो गृह्य चेमं मन्त्रमुदीरयेत् ॥ ५५ ॥
मन्त्रः -
अलङ्कारं सर्वतो देवानां द्रव्यानुक्तौ सर्वसौगन्धिकादिभिः गृह्य ताम्बूलं लोकनाथ विशिष्टमस्माकं च भवनं तव प्रतिमा च ह ॥ ५६ ॥
अलङ्कारं मुखे श्रेष्ठं तव प्रीत्या मया कृतम् ॥
मुखप्रसाधनं श्रेष्ठं देव गृह्ण मया कृतम् ॥ ५७ ॥
एतेनैवोपचारेण मद्भक्तः कर्म कारयेत् ॥
अनुमुक्तो महालोकान्पश्यते मम नित्यशः ॥ ५८ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे देवोपचारविधिर्नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥