अथ द्वात्रिंशदपराधाः॥
श्रीवराह उवाच॥
शृणु भद्रे महाश्चर्यमाहारविधिनिश्चयम् ॥
आहारं चाप्यनाहारं तच्छृणुष्व वसुन्धरे ॥ १ ॥
भुञ्जानो याति चाश्नाति मम योगाय माधवि ॥
अशुभं कर्म कृत्वापि पुरुषो धर्ममाश्रितः ॥ २॥
आहारं चैव धर्मज्ञ उपभुञ्जीत नित्यशः ॥
सर्वे चात्रैव कर्मण्या व्रीहयः शालयस्तथा ॥३॥
अकर्मण्यानि वक्ष्यामि येन भोज्यन्ति मां प्रति ॥
तेन वै भुक्तमार्गेण अपराधो महौजसः ॥ ४ ॥
प्रथमं चापराधान्नं न रोचेत मम प्रिये ॥
भुक्त्वा तु परकीयान्नं तत्परस्तन्निवर्त्तनः ॥ ५॥
द्वितीयस्त्वपराधोऽयं धर्मविघ्नाय वै भवेत् ॥
गत्वा मैथुनसंयागं यो नु मां स्पृशते नरः ॥६॥
तृतीयमपराधं तु कल्पयामि वसुन्धरे ॥
दृष्ट्वा रजस्वलां नारीमस्माकं यः प्रपद्यते ॥ ७ ॥
चतुर्थमपराधं तु दृष्टं नैव क्षपाम्यहम् ॥
स्पृष्ट्वा तु मृतकं चैव असंस्कारकृतं तु वै ॥८॥
पञ्चमं चापराधं च न क्षमामि वसुन्धरे ॥
दृष्ट्वा तु मृतकं यस्तु नाचम्य स्पृशते तु माम् ॥९ ॥
षष्ठं तं चापराधं वै न क्षमामि वसुन्धरे ॥
ममार्चनस्य काले तु पुरीषं यस्तु गच्छति ॥ 117.१० ॥
सप्तमं चापराधं तु कल्पयामि वसुन्धरे ॥
यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपद्यते ॥ ११ ॥
अष्टमं चापराधं च कल्पयामि वसुन्धरे ॥
ममैवार्च्चनकाले तु यस्त्वसमं प्रभाषते ॥१२॥
नवमं चापराधं तं न रोचामि वसुन्धरे ॥
अविधानं तु यः स्पृश्य मामेव प्रतिपद्यते ॥ १३ ॥
दशमश्चापराधोऽयं मम चाप्रियकारकः ॥
क्रुद्धस्तु यानि कर्माणि कुरुते कर्मकारकः ॥ १४॥
एकादशापराधं तु कल्पयामि वसुन्धरे ॥
अकर्मण्यानि पुण्यानि यस्तु मामुपकल्पयेत् ॥ १५ ॥
द्वादशं चापराधं तं कल्पयामि वसुन्धरे ॥
यस्तु रक्तेन वस्त्रेण कौसुम्भेनोपगच्छति ॥ १६ ॥
त्रयोदशं चापराधं कल्पयामि वसुन्धरे ॥
अन्धकारे च मां देवि यः स्पृशेत कदाचन ॥१७॥
चतुर्द्दशापराधं तु कल्पयामि वसुन्धरे ॥
यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् ॥ १८॥
अपराधं पञ्चदशं कल्पयामि वसुन्धरे ॥
अधौतेन तु वस्त्रेण यस्तु मामुपकल्पयेत् ॥ १९ ॥
षोडशं त्वपराधानां कल्पयामि वरानने ॥
स्वयमन्नं तु यो ह्ययादज्ञानादपि माधवि ॥ 117.२० ॥
अपराधं सप्तदशं कल्पयामि वसुन्धरे ॥
यस्तु मात्स्यानि मांसानि भक्षयित्वा प्रपद्यते ॥२१ ॥
अष्टादशापराधं च कल्पयामि वसुन्धरे ॥
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ॥ २२ ॥
एकोनविंशापराधं कल्पयामि वसुन्धरे ॥
यस्तु मे दीपकं स्पृष्ट्वा मामेव प्रतिपद्यते ॥२३॥
विंशकं चापराधं तं कल्पयामि वरानने ॥
श्मशानं यस्तु वै गत्वा मामेव प्रतिपद्यते॥२४॥
एकविंशापराधं तं कल्पयामि वसुन्धरे ॥
पिण्याकं भक्षयित्वा तु यो मामेवाभिगच्छति ॥ २५ ॥
द्वाविंशं चापराधं तं कल्पयामि प्रिये सदा ॥
यस्तु वाराह मांसानि प्रापणेनोपपादयेत् ॥ २६ ॥
अपराधं त्रयोविंशं कल्पयामि वसुन्धरे ॥
सुरां पीत्वा तु यो मर्त्यः कदाचिदुपसर्पति ॥ २७ ॥
अपराधं चतुर्विंशं कल्पयामि वसुन्धरे ॥
यः कुसुम्भं च मे शाकं भक्षयित्वोपचक्रमे ॥ २८ ॥
अपराधं पञ्चविंशं कल्पयामि वसुन्धरे ॥
परप्रावरणेनैव यस्तु मामुपसर्पति ॥ २९ ॥
अपराधेषु षड्विंशं कल्पयामि वसुन्धरे ॥
नवान्नं यस्तु भक्षेत न देवान्न पितॄन्यजेत् ॥ 117.३० ॥
सप्तविंशं चापराधं कल्पयामि गुणान्विते ॥
उपानहौ च प्रपदे तथा वापीं च गच्छति ॥३१ ॥
अपराधं त्वष्टविंशं कल्पयामि गुणान्विते ॥
शरीरं मर्द्दयित्वा तु यो मामाप्नोति माधवि ॥ ३२ ॥
एकोनविंशापराधो न स स्वर्गेषु गच्छति ॥
अजीर्णेन समाविष्टो यस्तु मामुपगच्छति ॥ ३३ ॥
त्रिंशकं चापराधं तं कल्पयामि यशस्विनि ॥
गन्धपुष्पाण्यदत्त्वा तु यस्तु धूपं प्रयच्छते ॥ ३४॥
एकत्रिंशं चापराधं कल्पयामि मनस्विनि ॥
विना भेर्यादिशब्देन द्वारस्योद्धाटनं मम ॥ ३५ ॥
महापराधं जनीयाद्द्वात्रिंशं तं मम प्रिये ॥
अन्यच्च शृणु वक्ष्यामि दृढव्रतमनुत्तमम् ॥ ३६॥
कृत्वा चावश्यकं कर्म मम लोकं च गच्छति ॥
नित्ययुक्तश्च शास्त्रज्ञो मम कर्मपरायणः ॥ ३७ ॥
अहिंसापरमश्चैव सर्वभूतदयापरः ॥
सामान्यश्च शुचिर्दक्षो मम नित्यं पथि स्थितः ॥ ३८ ॥
निगृह्य चेन्द्रियग्राममपराधविवर्जितः ॥
उदारो धार्मिकश्चैव स्वदारेषु सुनिष्ठितः ॥३९ ॥
शास्त्रज्ञः कुशलश्चैव मम कर्मपरायणः॥
चातुर्वर्ण्यस्य मे भद्रे सन्मार्गेषु व्यवस्थितः॥117.४०॥
आचार्यभक्ता देवेषु भक्ता भर्तरि वत्सला॥
संसारेष्वपि वर्त्तन्ती गच्छन्ती त्वग्रतो यदि॥४१॥
मम लोकस्थिता सा वै भर्त्तारं प्रसमीक्षते॥
पुरुषो यदि मद्भक्तः स्त्रियं त्यक्त्वा च गच्छति॥४२॥
स ततोऽत्र प्रतीक्षेत भार्यां भर्त्तरि वत्सलाम्॥
अन्यच्च ते प्रवक्ष्यामि कर्मणां कर्म चोत्तमम् ॥४३॥
ऋषयो मां न पश्यन्ति मम कर्मपथे स्थिताः ॥
द्रष्टव्या मम लोकेषु ऋषयोऽपि वरानने ॥ ४४ ॥
किं पुनर्मानुषा ये च मम कर्मव्यवस्थिताः ॥
अन्यदेवेषु ये भक्ता मूढा वै पापचेतसः ॥४५ ॥
मम मायाविमूढास्तु न प्रपद्यन्ति माधवि ॥
मां तु ये वै प्रपद्यन्ते मोक्षकामा वसुन्धरे ॥४६॥
तानहं भावसंसिद्धान्बुद्ध्वा संविभजामि वै ॥
येन त्वं परया शक्त्या धारितासि मया धरे ॥४७ ॥
तेनेदं कथितं देवि आख्यानं धर्मसंयुतम् ॥
पिशुनाय न दातव्यं न च मूर्खाय माधवि ॥४८॥
ततो न चोपदिष्टाय न शठाय प्रदापयेत ॥
नादीक्षिताय दातव्यं नोपसर्प्याय यत्नतः ॥४९ ॥
शठाय च न दातव्यं नास्तिकाय न माधवि ॥
वर्जयित्वा भागवतं मम कर्मपरायणम् ॥ 117.५० ॥
एतत्ते कथितं देवि मम धर्मं महौजसम् ॥
सर्वलोकहितार्थाय किमन्यत्परिपृच्छसि ॥ ५१ ॥
इति श्रीवराहपुराणे द्वात्रिंशदपराधकथनं नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७ ॥