अथ विविधधर्मोत्पत्तिः ॥
ततो महीवचः श्रुत्वा देवो नारायणोऽब्रवीत् ॥
कथयिष्यामि ते देवि कर्म स्वर्गसुखावहम् ॥ १ ॥
यत्त्वया पृच्छ्यते देवि तच्छृणुष्व वसुन्धरे ॥
स्थितिं सत्तां तु मर्त्यानां भक्त्या ये च व्यवस्थिताः ॥२ ॥
नाहं दानसहस्रेण नाहं यज्ञशतैरपि ॥
तुष्यामि न तु वित्तेन ये नराः स्वल्पचेतसः ॥३॥
एकचित्तं समाधाय यो मां जानाति माधवि ॥
नित्यं तुष्यामि तस्याहं पुरुषं बहुदोषकम् ॥ ४ ॥
यच्च पृच्छसि मां भद्रे कर्म स्वर्गसुखावहम् ॥
तच्छृणुष्व वरारोहे गदतो मे शुचिस्मिते ॥ ५ ॥
ये नमस्यति मां नित्यं पुरुषा बहुचेतसः ॥
अर्द्धरात्रेऽन्धकारे च मध्याह्ने वापराह्णके ॥ ६ ॥
यस्य चित्तं न नश्येत मम भक्तिव्यवस्थितम् ॥
द्वादश्यामुपवासं तु यः कुर्यान्मम तत्परः ॥ ७ ॥
ते मामेव प्रपश्यन्ति मयि भक्तिपरायणाः ॥
लब्धचेतो गुणज्ञश्च नरो भक्तिव्यवस्थितः ॥ ८ ॥
इच्छयाऽपि भवेद्भद्रे स्वर्गे वसति सुन्दरि ॥
स्वल्पकेन न गम्यन्ते दुष्प्राप्योऽहं वरानने ॥ ९ ॥
यानि कर्माणि कुर्वन्तु मां प्रपश्यन्ति माधवि ॥
तानि ते कथयिष्यामि येन भक्त्या व्यवस्थिताः ॥ 115.१० ॥
द्वादश्यामुपवासं तु ये च कुर्वन्ति ते नराः ॥
तेषामेव प्रपश्यन्ति मम भक्तिपरायणाः॥११ ॥
कृत्वा चैवोपवासं प्रगृह्य चैव जलाञ्जलिम् ॥
नमो नारायणेत्युक्त्वा आदित्यं चावलोकयेत्॥१२॥
यावन्तो बिन्दवः किञ्चित्पतन्त्येवाञ्जलेर्जलात् ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १३॥
अथ चैव तु द्वादश्यां पुरुषा धर्मवादकाः॥
विधिना च प्रयत्नेन ये मां कुर्वन्ति मानुषाः ॥१४॥
पाण्डुरैश्चैव पुष्पैश्च मृष्टैर्धूपैस्तु धूपयेत्॥
यो मे धारयते भूमौ तस्यापि शृणु या गतिः॥१५॥
दत्त्वा शिरसि पुष्पाणि इमं मन्त्रमुदीरयेत् ॥
हृदि कृत्वा तु मन्त्रांश्च शुक्लाम्बरधरो धरे ॥१६॥
सुमान्यः सुमना गृह्य प्रीयतां भगवान्हरिः ॥ १७ ॥
नमोऽस्तु विष्णवे व्यक्ताव्यक्तगन्धिगन्धान्सुगन्धान्वा गृह्ण गृह्ण नमो भगवते विष्णवे ॥
अनेन मन्त्रेण गन्धं दद्यात् ॥
श्रुत्वा प्रत्यागतमाधारसवनं पतये भवं प्रविष्टं मे धूप धूपनं गृह्णातु मे भगवानच्युतः ॥
अनेन मन्त्रेण धूपं दद्यात् ॥ १८ ॥
श्रुत्वा चैवं च शास्त्राणि यो मामेव तु कारयेत् ॥
मम लोकं च गच्छेत जायेतैव चतुर्भुजः ॥ १९ ॥
एतत्ते कथितं देवि श्रेष्ठं चैव मम प्रियम् ॥
तव चैवं प्रियार्थाय मन्त्रपूजां सुखावहम् ॥115.२०॥
श्यामाकं स्वस्तिकं चैव गोधूमं मुद्गकं तथा ॥
शालयस्तु यवाश्चैव तथा नीवारकाङ्गुकाः ॥ २१ ॥
एतानि यस्तु भुञ्जीत मम कर्मपरायणः ॥
शङ्खं चक्रं लाङ्गलं च मुसलं स च पश्यति ॥ २२ ॥
ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म वसुन्धरे ॥
यानि कर्माणि कुर्वीत मम भक्तिपरायणः ॥ २३ ॥
षट्कर्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः ॥
लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः ॥ २४ ॥
मम कर्मसमायुक्तः पैशुन्येन विवर्जितः ॥
शास्त्रानुसारिमध्यस्थो नवृद्धशिशुचेतनः ॥ २५ ॥
एतद्वै ब्रह्मणः कर्म एकचित्तो जितेन्द्रियः ॥
इष्टापूर्तं च कुरुते स मामेति वसुन्धरे ॥ २६ ॥
क्षत्रियाणां प्रवक्ष्यामि मम कर्मसु तिष्ठताम् ॥
यानि कर्माणि कुर्वीत क्षत्रियो मध्यसंस्थितः ॥ २७ ॥
दानशूरश्च कर्मज्ञो यज्ञेषु कुशलः शुचिः ॥
मम कर्मसु मेधावी अहङ्कारविवर्जितः ॥ २८ ॥
अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः ॥
गुरुविद्योऽनसूयश्च निन्द्यकर्मविवर्जितः॥२९॥
अभ्युत्थानादिकुशलः पैशुन्येन विवर्जितः॥
एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्रियः ॥ 115.३० ॥
भजते मम यो नित्यं मम लोकाय गच्छति ॥
वैश्यानां तु प्रवक्ष्यामि मम कर्मसु तिष्ठताम् ॥ ३१ ॥
यानि कर्माणि कुरुते मम भक्तिपथे स्थितः ॥
एतैर्गुणैः स्वधर्मेण लाभालाभविवर्जितः ॥ ३२ ॥
ऋतुकालाभिगामी च शान्तात्मा मोहवर्जितः ॥
शुचिर्दक्षो निराहारो मम कर्मरतः सदा ॥ ३३ ॥
गुरुसम्पूजको नित्यं युक्तो भक्तानुवत्सलः ॥
वैश्योऽप्येवं सुसंयुक्तो यस्तु कर्माणि कारयेत् ॥ ३४ ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ॥
अथ शूद्रस्य वक्ष्यामि कर्माणि शृणु माधवि ॥ ३५ ॥
कर्माणि यानि कृत्वा ह शूद्रो मह्यं व्यवस्थितः ॥
दम्पती मम भक्तौ यो मम कर्म परायणौ ॥ ३६ ॥
उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ ॥
देशकालौ च वानीतौ रजसा तमसोज्झितौ ॥ ३७ ॥
निरहङ्कारशुद्धात्मा आतिथेयो विनीतवान् ॥
श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्जितः ॥ ३८ ॥
नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥
शूद्रः कर्माणि मे देवि य एवं सममाचरेत् ॥ ३९ ॥
त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ॥
चातुर्वर्ण्यस्य कर्माणि यत्त्वया परिपृच्छितम् ॥ 115.४० ॥
एवं कर्मगुणाश्चैव येन भक्त्या व्यवस्थितः ॥
सर्ववर्णाश्च मां देवि अपरं क्षत्रिये शृणु ॥ ४१ ॥
येन तत्प्राप्यते योगं तच्छृणुष्व वसुन्धरे ॥
त्यक्त्वा लाभमलाभं च मोहं कामं च वर्जयेत् ॥ ४२ ॥
न शीतं च न चोष्णे च लब्धाऽलब्धं विचिन्तयेत् ॥
न तिक्तेनास्ति कटुना मधुराम्लैर्न लावणैः ॥ ४३ ॥
न कषायैः स्पृहा यस्य प्राप्नुयात्सिद्धिमुत्तमाम् ॥
भार्या पुत्राः पिता माता उपभोगार्थसंयुतम् ॥ ४४ ॥
य एतान् हि परित्यज्य मम कर्मरतः सदा ॥
धृतिज्ञः कुशलश्चैव श्रद्दधानो धृतव्रतः ॥ ४५ ॥
तत्परो नित्यमुद्युक्तः अन्यकार्यजुगुप्सकः ॥
बाले वयसि कल्पश्च अल्पभोगी कुलान्वितः ॥ ४६ ॥
कारुण्यः सर्वसत्त्वानां प्रत्युत्थायी महाक्षमः ॥
काले मौनक्रियां कुर्याद्यावत्तत्कर्म कारयेत् ॥४७॥
त्रिकालं च दिशो भागं सदा कर्मपथि स्थितः ॥
उपपन्नानभुञ्जानः कर्माण्यभोजनानि च ॥ ४८ ॥
अनुष्ठानपरश्चैव मम पार्श्वे मनश्चरः ॥
काले मूत्रपुरीषाणि विसृज्य स्नानवत्सलः ॥ ४९ ॥
पुष्पे गन्धे च धूपे च मत्कर्मणि सदा रतः ॥
कदाचित्कन्दमूलानि फलानि च कदाचन॥115.५०॥
पयसा यावकेनापि कदाचिद्वायुभक्षणः ॥
कदाचित्षष्ठकालेन क्वचिद्दृष्टमहाफलः ॥ ५१ ॥
कदाचित्तु चतुर्थेन कदाचित्फलमेव च ॥
कदाचिद्दशमे भुञ्जेत्पक्षे मासे वसुन्धरे ॥ ५२ ॥
य एतत्सप्त जन्मानि मम कर्माणि कुर्वते ॥
योगिनस्तान्प्रपश्यन्ति पूर्वोक्तान्कर्मसु स्थितान् ॥ ५३ ॥
इति श्रीवराहपुराणे विविधकर्मोत्पत्तौ पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥