११४

अथ श्रीवराहावतारः ॥
श्रीवराह उवाच ॥
संस्तूयमानो भगवान्मुनिभिर्मन्त्रवादिभिः ॥
तुष्टो नारायणो देवः केशवः परमो विभुः ॥ १ ॥
ततो ध्यानं समास्थाय दिव्यं योग्यं च माधवः ॥
मधुरं स्वरमास्थाय प्रत्युवाच वसुन्धराम् ॥ २ ॥
तव देवि प्रियार्थाय भक्त्या यं त्वं व्यवस्थिता ॥
कारयिष्यामि ते सर्वं यत्ते हृदि व्यवस्थितम् ॥ ३ ॥
अहं त्वां धारयिष्यामि सशैलवनकाननाम् ॥
ससागरां ससरितं सप्तद्वीपसमन्विताम् ॥ ४ ॥
एवमाश्वासयित्वा तु वसुधां स च माधवः ॥
रूपं सङ्कल्पयामास वाराहं सुमहौजसम् ॥ ५ ॥
षट् सहस्राणि चोच्छ्रायो विस्तारेण पुनस्त्रयः ॥
एवं नवसहस्राणि योजनानां विधाय च ॥ ६ ॥
वामया दंष्ट्रया गृह्य उज्जहार च मेदिनीम् ॥
सपर्वतवनाकारां सप्तद्वीपां सपत्तनाम् ॥ ७ ॥
नगा विलग्नाः पतिताः केचिद्विज्ञानसंश्रिताः ॥
शोभन्ते च विचित्राङ्गमेघाः सन्ध्यागमे यथा ॥ ८ ॥
चन्द्रनिर्मलसङ्काशा वराहमुखसंस्थिताः ॥
शोभन्ते चक्रपाणेश्च मृणालं कर्दमे यथा ॥ ९॥
एवं हि धार्यमाणा सा पृथिवी सागरान्विता ॥
वर्षाणां च सहस्रं हि वज्रदंष्ट्रेण साधुना ॥114.१० ॥
तस्यामेव तु कालस्य परिमाणं युगेषु च ॥
एकसप्ततिके कल्पे कर्दमोऽयं प्रजापतिः ॥ ११ ॥
ततः पृथिव्या देवश्च भगवान्विष्णुरव्ययः॥
अन्योन्याभिमताश्चैव वाराहे कल्प उत्तमे ॥ १२॥
सा गौः स्तुवति तं चैव पुराणं परमव्ययम् ॥
योगेन परमेणैव शरणं चैव गच्छति ॥१३॥
आधारः कीदृशो देव उपयोगश्च कीदृशः ॥
कालेकाले च देवेश कर्मणश्चापि कीदृशः ॥ १४ ॥
कीदृशा पश्चिमा सन्ध्या कीदृशी ह्यर्धबाह्यतः ॥
शेषाः समानास्त्वा देव ये तु कर्माणि कुर्वते ॥ १५ ॥
किन्नु संस्थापने देव आवाहनविसर्जने ॥
अगुरुं गन्धधूपं च प्रमाणं गृह्यते कथम् ॥ १६ ॥
कथं पाद्यं च गृह्णाति स्नापनालेपनानि च ॥
कथं दीपश्च दातव्यः कन्दमूलफलानि च ॥ १७ ॥
आसनं शयनं चैव किङ्कर्म्मापि विधीयते ॥
कथं पूजादि कर्त्तव्यं प्राणास्तत्र च वै कति ॥ १८ ॥
पश्चिमा पूर्वसन्ध्यायां किं पुण्यं चापि तत्र वै ॥
शरदि कीदृशं कर्म शिशिरे कर्म कीदृशम् ॥ १९ ॥
वसन्ते कीदृशं कर्म ग्रीष्मे किं कर्म कारयेत् ॥
प्रावृट्काले च किं कर्म वर्षान्ते किञ्च कारयेत् ॥ 114.२० ॥
यानि तत्रोपभोग्यानि पुष्पाणि च फलानि च ॥
कर्मण्यास्ते अकर्मण्या ये च शास्त्रबहिष्कृताः ॥ २१ ॥
किं कर्मणा भोगवता तावद्गच्छति माधवम् ॥
कथं कर्म न चान्नेषु अतिगच्छति कीदृशम् ॥ २२ ॥
अर्च्चायाः किं प्रमाणं तु स्थापनं चापि कीदृशम् ॥
परिमाणं कथं देव उपवासश्च कीदृशः ॥ २३ ॥
पीतकं शुक्लरक्तं वा कथं गृह्णाति वाससाम् ॥
तेषां तु कानि वस्त्राणि यैर्हितं प्रतिपद्यते ॥ २४॥
केषु द्रव्येषु संयुक्तं मधुपर्कं प्रदीयते ॥
के तु कर्मगुणास्तस्य मधुपर्कस्य माधव ॥२८५॥
केषु लोकेषु गच्छन्ति मधुपर्कस्य भक्षणात् ॥
स्तवे परमकालेऽपि तव भक्तस्य माधव॥२६ ॥
किम्प्रमाणं तु दातव्यं मधुपर्कसमन्वितम् ॥
कानि मांसानि ते देव फलं शाकस्य कीदृशः ॥२७।
प्रापणेष्वपि युज्येत कर्म शास्त्रसमायुतम् ॥
आहूतस्य च मन्त्रेण आगते धर्मवत्सल ॥२८॥
केन मन्त्रविधानेन प्राशनं ते प्रदीयते ॥
व्रतस्य चोपचारेषु अर्च्चयित्वा यथाविधि॥२९॥
कानि कर्म्माणि कुर्वीत तव भक्तस्य भोजनात् ॥
यस्तु तं प्रापणं देव न च दोषप्रसादिकम् ॥114.३०॥
के ऽत्र भुञ्जन्ति तद्देव सर्वशुद्धिकरं परम् ॥
ये तु एकाशिनो देवमुपसर्पन्ति माधवम्॥३१॥
तेषां तु का गतिर्देव तव मार्गानुसारिणाम् ॥
व्रतं कृत्वा यथोक्तेन येऽभिगच्छन्ति माधवम् ॥३२॥
तेषां तु का गतिर्देव तव भक्तिं प्रकुर्वताम् ॥
कृच्छ्रसान्तपने कृत्वा येऽभिगच्छन्ति माधवम् ।३३ ।
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः ॥
वाय्वाहारं ततः कृत्वा कृष्णं समधिगच्छति ॥ ३४ ॥
तेषां तु का गतिः कृष्ण तव भक्तौ व्यवस्थिताः ॥
अक्षारलवणं कृत्वा येऽभिगच्छन्ति चाच्युतम् ॥३५॥
कां गतिं ते प्रपद्यन्ते तव कर्मानुसारिणः ॥
कृत्वा पयोव्रतं चैव येऽभिगच्छन्ति चाच्युतम् ॥ ३६ ॥
ते कां गतिं प्रपद्यन्ते नरा ये व्रतकारिणः॥
दत्त्वा गवाह्निकं चैव ये प्रपद्यन्ति माधवम् ॥३७॥
कां गतिं ते प्रपद्यन्ते तव भक्त्या व्यवस्थिताः ॥
उञ्छवृत्तिं समास्थाय येऽभिगच्छन्ति माधवम् ॥३८॥
कां गतिं ते प्रपद्यन्ते नरा भिक्षोपजीविनः॥
गृहस्थधर्मं कृत्वा वै येऽभिगच्छन्ति माधवम् ॥३९॥
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः ॥
तव क्षेत्रेषु वैकुण्ठ ये तु प्राणान्विमुञ्चते ॥114.४०॥
काँल्लोकांस्ते प्रपद्यन्ते तव क्षेत्रेषु ये मृताः ॥
कृत्वा पञ्चातपं चैव माधवाय प्रयच्छति ॥४१ ॥
कां गतिं वै परायान्ति ये तु पञ्चातपे मृताः ॥
कण्टशय्यां समासाद्य ये प्रपश्यन्ति चाच्युतम्॥४२॥
तेषां तु का गतिर्देव कण्टशय्यां समाश्रिताः॥
आकाशशयनं कृत्वा ये प्रपद्यन्ति चाच्युतम् ॥ ४३॥
तेषां तु का गतिः कृष्ण तव भक्तिपरायणाः ॥
गोव्रजे शयनं कृत्वा ये प्रपद्यन्ति केशवम् ॥ ४४ ॥
तेषां तु का गतिर्ब्रह्मंस्तव भक्तिपथे स्थिताः ॥
शाकाहारं ततः कृत्वा येऽभिगच्छन्ति चाच्युतम् ॥ ४५ ॥
तेषां तु का गतिर्देव कणभक्षास्तु ये नराः ॥
पञ्चगव्यं ततः पीत्वा येऽभिगच्छन्ति माधवम् ॥ ४५ ॥
तेषां तु का गतिर्देव ये नरा यावकाशिनः ॥
आहारं गोमयं कृत्वा येऽभिगच्छन्ति केशवम् ॥ ४७ ॥
नारायण गतिस्तेषां कीदृशोऽत्र विधिः स्मृतः ॥
सक्तुं वै भक्षयित्वा तु ये प्रपद्यन्ति चाच्युतम् ॥ ४८ ॥
तेषां तु का गतिर्देव तव कर्मपरायणाः ॥
शिरसा दीपकं कृत्वा येऽभिगच्छन्ति केशवम् ॥ ४९ ॥
तेषां तु का गतिर्देव शिरसा दीपधारणात् ॥
ये हि नित्यं पयः पीत्वा तव चिन्ताव्यवस्थिताः ॥ 114.५० ॥
ते गतिं कां प्रपद्यन्ते तव चिन्तापरायणाः ॥
अश्माशनं व्रतं कृत्वा ये प्रपद्यन्ति नित्यशः ॥ ५१ ॥
तेषां तु का गतिर्देव तव भक्तिपरायणाः ॥
भक्षयित्वा तु दूर्वां ये प्रपद्यन्ते मनीषिणः ॥ ५२ ॥
तेषां तु का गतिर्देव स्वधर्मगुणचारिणः ॥
जानुभ्यां प्रतिपद्यन्ते तव प्रीत्या च माधव ॥५३॥
तेषां तु का गतिर्देव तन्ममाचक्ष्व पृच्छतः ॥
उत्तानशयनं कृत्वा धारयन्ति हि दीपिकाम् ॥ ५४ ॥
ते यान्ति कां गतिं देव कथ्यते या च शाश्वती ॥
जानुभ्यां दीपकं कृत्वा केशवाय प्रपद्यते॥५५॥
तेषां तु का गतिर्देव कथ्यते चैव शाश्वती ॥
अवाङ्मुखस्तु भूत्वा वै यः प्रपद्येज्जनार्द्दनम् ॥ ५६ ॥
भगवन् का गतिस्तस्य अवाक्शिरसि शायिनः ॥
पुत्रदारगृहं चैव मुक्त्वा योऽनुप्रपद्यते ॥ ५७ ॥
का गतिस्तस्य सिद्धा तु कथयस्व सुरोत्तम ॥
भाषितोऽसि मया ह्येवं सर्वलोकसुखावहम् ॥ ५८ ॥
गमनागमनं चैव त्वत्प्रसन्नेन माधव ॥
त्वं ज्ञाता त्वं पिता चैव सर्वधर्मविनिश्चयः ॥ ५९ ॥
अतस्त्वयैव वक्तव्यो योगसाङ्ख्यविनिश्चयः ॥
त्वां भजंश्च गते जीवे मधुपर्कसमन्वितम् ॥ 114.६० ॥
भस्माकुलेषु निःक्षिप्य कथं चाग्नौ प्रपद्यते ॥
कां गतिं प्रतिपद्यन्ते त्वद्भक्ता जलमास्थिताः ॥ ६१ ॥
त्वत्क्षेत्रसंस्थितो वापि तन्ममाचक्ष्व पृच्छतः ॥
स्मरण पुत्र ते कृष्ण यैस्तु नाम प्रकीर्त्यते ॥ ६२ ॥
नमो नारायणेत्युक्त्वा तेषां वै का गतिर्भवेत् ॥
उद्यतेष्वपि शस्त्रेषु हन्यमाना रणे नराः ॥ ६३ ॥
नामप्रकीर्तनात्तेषां कीदृशी तु गतिर्भवेत् ॥
अहं शिष्या च दासी च तव भक्त्या व्यवस्थिता ॥ ६४ ॥
रहस्यं धर्मसंयुक्तं तन्ममाचक्ष्व माधव ॥
एवं तत्परमं गुह्यं मम प्रीत्या जगद्गुरो ॥ ६५ ॥
सञ्चिन्त्य लोकधर्मार्थं तद्भवान् वक्तुमर्हति ॥
इति श्रीवराहपुराणे पृथिव्याः प्रश्नो नाम चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥