अथ भगवत्स्तुतिः ॥
ॐ नमो वराहाय नमो ब्रह्मपुत्राय सनत्कुमाराय नमः ॥ १ ॥
नमस्तस्मै वराहाय लीलयोद्धरते महीम् ॥
सुरमध्यगतो यस्य मेरुः खणखणायते ॥ २ ॥
दंष्ट्राग्रेणोद्धृता गोरुदधिपरिवृता पर्वतैर्निम्नगाभिर्भक्तानां भीतिहानौ सुरनरकदशास्यान्तकः क्रोडरूपी ॥
विष्णुः सर्वेश्वरोऽयं यमिह हतमला लीलया प्राप्नुवन्ति
त्यक्तात्मानो न पापे प्रभु भवतु मुदितारातिपक्षक्षितीशम् ॥३ ॥
यस्मिन्काले क्षितिः पूर्वकल्पे वाराह मूर्तिना ॥
उद्धृता च यया भक्त्या पप्रच्छ परमेश्वरम् ॥ ४ ॥
धरण्युवाच ॥
कल्पे कल्पे भवानेव मां समुद्धरते भवान् ॥
न बाहुश्चेष्टते मूर्तिर्मादृशीं गां च केशव॥५॥
स तेन सान्त्वितायां वै पृथिव्यां यः समागतः ॥
सनत्कुमारस्तत्क्षेत्रे दृष्ट्वा तां संस्थितां महीम् ॥६॥
स्वस्ति वाच्याह पुण्याग्रे प्रत्युवाच वसुन्धराम् ॥
सनत्कुमार उवाच ॥
यं दृष्ट्वा वर्द्धसे देवि त्वं च यस्यासि माधवि ॥ ७ ॥
विष्णुना धार्यमाणा च किं त्वया दृष्टमद्भुतम् ॥
एतदाचक्ष्व तत्त्वेन यत्ते हरिमुखाच्छ्रुतम्॥८॥
ब्रह्मपुत्रवचः श्रुत्वा पृथिवी वाक्यमब्रवीत् ॥
धरण्युवाच ॥
यद्गुह्यं स मया पृष्टो यच्च मे सम्प्रभाषितम् ॥९॥
शृणु तत्त्वेन विप्रेन्द्र गुह्यं धर्मं महौजसम् ॥
भगवत्प्रोक्तधर्मेषु यद्गुह्यं कथयाम्यहम्॥ 113.१० ॥
तेन मे कथितं ह्येतत्संसारात्तु विमोक्षणम् ॥
विष्णुभक्तेन यत्कार्यं यत्क्रिया परितिष्ठता ॥ ११ ॥
उवाच परमं गुह्यं धर्माणां व्याप्तनिश्चयम् ॥
अयं धर्मो मया ह्येतच्छ्रुते धर्मे सनातने ॥ १२॥
ततो महीवचः श्रुत्वा ब्रह्मपुत्रो महातपाः ॥
कोकामुखे मम क्षेत्रं जपन्तो ब्रह्मवादिनः ॥ १३॥
तान्सर्वानानयामास यत्र देवी व्यवस्थिता ॥
सनत्कुमारः पूतात्मा प्रत्युवाच महीं प्रति ॥ १४॥
सनत्कुमार उवाच ॥
यन्मया पूवर्मुक्तासि कथयस्व वरानने॥
अप्रमेयगतिं चैव धर्ममाचक्ष्व तत्त्वतः ॥ १५॥
ततस्तस्य वचः श्रुत्वा प्रणम्य ऋषिपुङ्गवम् ॥
उवाच परमप्रीता धात्री मधुरया गिरा ॥ १६ ॥
धरण्युवाच ॥
शृण्वन्तु ऋषयः सर्वे यत्तद्विष्णुमुखाच्छ्रुतम् ॥
बाढमित्येव तां देवि स्वस्ति ब्रूहीति सोऽब्रवीत् ॥ १७ ॥
नष्टचन्द्रानिले लोके नष्टभास्करतारके ॥
स्तम्भिताश्च दिशः सर्वा न प्राज्ञायत किञ्चन ॥ १८॥
न वाति पवनस्तत्र नैव चाग्निर्न विद्युतः ॥
न किञ्चित्तत्र विद्येत न तारा न च राशयः ॥ १९॥
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम् ॥
प्रविश्य तानथोत्कृष्य ब्रह्मणे दत्तवानसि॥113.२० ॥
अन्यद्देवः कूर्मरूपस्त्वं समुद्रस्य मन्थने ॥
धृतवानसि कौर्मेण मन्दरं मधुसूदन ॥ २१ ॥
पुनर्वराहरूपेण मां गच्छन्तीं रसातले ॥
उज्जहारेकदंष्ट्रेण भवानेव महार्णवात् ॥२२॥
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः ॥
असावपि नृसिंहेण वपुरास्थाय नाशितः ॥ २३ ॥
पुनर्निःक्षत्ररूपेण त्वयाऽहं विकृता पुरा ॥
जामदग्न्येन रामेण त्वया दृष्टा सकृत्प्रभो ॥ २४ ॥
पुनश्च रावणो रक्षः क्षयितं स्वेन तेजसा ॥
बलिश्च बद्धो भगवन्त्वया वामनरूपिणा ॥२५॥
न च जानाम्यहं देव तव किञ्चिद्विचेष्टितम् ॥
उद्धृत्य मां कथं देव सृजसे किञ्च कारणम् ॥२६॥
सृष्ट्वा किमादिशः सर्वां न प्राज्ञायत किञ्चन ॥
न वाति पवनस्तत्र न चैवाग्निर्ज्वलत्यपि ॥२७॥
अंशवश्चन विद्यन्ते न नक्षत्रा न वा ग्रहाः ॥
न चैवाङ्गारकस्तत्र न शुक्रो न बृहस्पतिः॥२८॥
शनैश्चरो बुधो नात्र न चेन्द्रो धनदो यमः ॥
वरुणोऽपि न विद्येत नान्ये केचिद्दिवौकसः ॥२९॥
वर्जयित्वात्र त्रीन्देवान् ब्रह्मविष्णुमहेश्वरान् ॥
पृथिवी भारसन्तप्ता ब्रह्माणं शरणं गता ॥ 113.३० ॥
गत्वा च शरणं देवी दैन्यं वदति माधवी ॥
प्रसीद मम देवेन्द्र मग्नाहं भारपीडिता ॥३१॥
सपर्वतवनैः सार्द्धं मां तारय पितामह ॥
पृथिव्या वचनं श्रुत्वा ब्रह्मा लोकपितामहः॥३२॥
मुहुर्तं ध्यानमास्थाय पृथिवीं तामुवाच ह ॥
नाहं तारयितुं शक्तो विषमस्थां वसुन्धरे ॥३३॥
लोकनाथं सुरश्रेष्ठमादिकर्त्तारमञ्जसा ॥
लोकेशं धन्विनं श्रेष्ठं याहि मायाकरण्डकम् ॥३४॥
सर्वेषामेव नः कार्यं यच्च किञ्चित्प्रवर्त्तते ॥
सर्वांस्तारयितुं शक्तः कि पुनस्त्वां वसुन्धरे ॥ ३५ ॥
अनन्तशयने देवं शयानं योगशायिनम् ॥
ततः कमलपत्राक्षी नानाभरणभूषिता ॥३६ ॥
कृताञ्जलिपुटा देवी प्रसादयति माधवम् ॥
धरण्युवाच ॥
अहं भारसमायुक्ता ब्रह्माणं शरणङ्गता ॥३७॥
प्रत्याख्याता भगवता तेनाप्युक्तमिदं वचः ॥
नाहं तारयितुं शक्तः सुश्रोणि व्रज माधवम् ॥३८॥
स त्वां तारयितुं शक्तो मग्नासि यदि सागरे ॥
प्रसीद मम देवेश लोकनाथ जगत्प्रभो॥३९॥
भक्त्या त्वां शरणं यामि प्रसीद मम माधव॥
त्वमादित्यश्च चन्द्रश्च त्वं यमो धनदस्तु वै ॥113.४०॥
वासवो वरुणश्चासि ह्यग्निर्मारुत एव च ॥
अक्षरश्च क्षरश्चासि त्वं दिशो विदिशो भवान् ॥ ४१॥
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽसि वामनः ॥
रामो रामश्च कृष्णश्च बुद्धः कल्की महात्मवान् ॥४२ ॥
एवं पश्यसि योगेन श्रूयते त्वं महायशाः ॥
युगायुग सहस्राणि व्यतीतान्यसि संस्थितः॥४३॥
पृथिवी वायुराकाशमापोज्योतिश्च पञ्चमम्॥
शब्दस्पर्शस्वरूपोऽसि रसो गन्धोऽसि नो भवान्॥४४॥
सग्रहाणि च ऋक्षाणि कलाकाष्ठामुहूर्त्तकाः ॥ ४५ ॥
सग्रहा ये च नक्षत्रा कला कालमुहूर्त्तकाः ॥
ज्योतिश्चक्रं ध्रुवश्चाऽसि सर्वेषु द्योतते भवान् ॥ ४६ ॥
मासः पक्षमहोरात्रमृतुः संवत्सराण्यपि ॥ ४७ ॥
कला काष्ठापि षण्मासाः षड्रसाश्चापि संयमः ॥
सरितः सागराश्च त्वं पर्वताश्च महोरगाः ॥ ४८ ॥
त्वं मेरुर्मन्दरो विन्ध्यो मलयो दर्दुरो भवान् ॥
हिमवान्निषधश्चासि सचक्रोऽसि वरायुधः॥४९॥
धनुषां च पिनाकोऽसि साङ्ख्ययोगोऽसि चोत्तमः ॥
परम्परोऽसि लोकानां नारायणः परायणः॥113.५०॥
सङ्क्षिप्तश्चैव विस्तारो गोप्ता यज्ञश्च शश्वतः॥
यज्ञानां च महायज्ञो यूपानामसि संस्थितः ॥५१॥
वेदानां सामवेदोऽसि साङ्गोपाङ्गो महाव्रतः ॥
गर्जनं वर्षणं चासि त्वं वेधा अनृतानृते॥५२॥
अमृतं सृजसे विष्णो येन लोकानधारयत् ॥
त्वं प्रीतिस्त्वं परा प्रीतिः पुराणः पुरुषो भवान् ॥ ५३ ॥
धेयाधेयं जगत्सर्वं यच्च किञ्चित् प्रवर्त्तते ॥
सप्तानामपि लोकानां त्वं नाथस्त्वमसङ्ग्रहः॥५४॥
त्वं च कालश्च मृत्युश्च त्वं भूतो भूतभावनः॥
आदिमध्यान्तरूपोऽसि मेधा बुद्धिः स्मृतिर्भवान् ॥५२॥
आदित्यस्त्वं युगावर्त्तास्त्वं तपस्वी महातपाः ॥
अप्रमाणः प्रमेयोऽसि ऋषीणां च महानृषिः ॥ ५६ ॥
अनन्तश्चासि नागानां सर्पाणामसि तक्षकः ॥
उद्वहः प्रवहश्चासि वरुणो वारुणो भवान् ॥ ५७ ॥
क्रीडाविक्षेपणश्चासि गृहेषु गृहदेवताः ॥
सर्वात्मकः सर्वगतो वर्द्धनो मन एव च ॥ ५८ ॥
साङ्गस्त्वं विद्युतीनां च वैद्युतानां महाद्युतिः ॥
युगे मन्वन्तरे चापि वृक्षाणां च वनस्पतिः ॥ ५९॥
श्रद्धासि त्वं च देवेश दोषहन्तासि माधव ॥
अण्डजोद्भिज्जस्वेदानां जरायूनां च माधव ॥ 113.६० ॥
गरुडोऽसि महात्मानं वहसि त्वं परायणः ॥
दुन्दुभिर्नेमिघोषैश्च आकाशममलो भवान् ॥ ६१ ॥
जयश्च विजयश्चासि गृहेषु गृहदेवताः ॥
सर्वात्मकः सर्वगतश्चेतनो मन एव च ॥ ६२ ॥
भगस्त्वं विषलिङ्गश्च परस्त्वं परमात्मकः ॥
सर्वभूतनमस्कार्यो नमो देव नमो नमः ॥ ६३ ॥
मां त्वं मग्नामसि त्रातुं लोकनाथ इहार्हसि ॥
आदिकालात्मकः कृष्णः सर्वलोकात्मको विभुः ॥ ६४ ॥
य इदं पठते स्तोत्रं केशवस्य दृढव्रतः ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ ६५ ॥
अपुत्रो लभते पुत्रं दरिद्रो धनमाप्नुयात् ॥
अभार्यो लभते भार्यामपतिः पतिमाप्नुयात् ॥ ६६ ॥
उभे सन्ध्ये पठेत्स्तोत्रं माधवस्य महात्मनः ॥
स गच्छेद्विष्णुलोकं च नात्र कार्या विचारणा ॥ ६७ ॥
एवं तु अक्षरोक्तोऽपि भवेत्तु परिकल्पना ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ६८ ॥
इति श्रीवराहपुराणे विष्णुस्तवनं नाम त्रयोदशाधिकशततमोऽध्यायः ॥ ११३ ॥