११२

अथोभयतोमुखीगोदानहेमकुम्भदानपुराणप्रशंसाः ॥
होतोवाच ॥
अतः परं महाराज शृणूभयमुखीं ततः ॥
विधानं तद्वरारोहे धरण्या कथितं पुरा ॥ १॥
तदहं सम्प्रवक्ष्यामि तव पुण्यफलं महत् ॥
धरण्युवाच ॥
या त्वया कपिला प्रोक्ता पूर्वमुत्पादिता प्रभो॥२॥
होमधेनुः सदा पुण्या सा ज्ञेया कतिलक्षणा ॥
कियत्यः कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा ॥३॥
प्रसूयमाना दानेन किं पुण्यं स्याच्च माधव ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण जगद्गुरो ॥ ४ ॥
श्रीवराह उवाच ॥
शृणुष्व देवि तत्त्वेन पवित्रं पापनाशनम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ५ ॥
कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च वरानने ॥
उद्धृत्य सर्वतेजोभिर्ब्रह्मणा निर्मिता पुरा ॥ ६ ॥
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥
पुण्यानां परमं पुण्यं कपिला च वसुन्धरे ॥ ७ ॥
तपसस्तप एवाग्र्यं व्रतानां व्रतमुत्तमम् ॥
दानानामुत्तमं दानं निधीनां ह्येतदक्षयम् ॥ ८ ॥
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च ॥
पवित्राणि च पुण्यानि सर्वलोकेषु सुन्दरि ॥ ९ ॥
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ॥
कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः॥ 112.१० ॥
जुह्वते ह्यग्निहोत्राणि मन्त्रैश्च विविधैः सदा ॥
पूजयन्नतिथींश्चैव परां भक्तिमुपागताः ॥ ११ ॥
ते यान्त्यादित्यवर्णैश्च विमानैर्द्विजसत्तमाः ॥
सूर्य मण्डलमध्यात्तु ब्रह्मणा निर्मिता पुरा ॥१२॥
कपिला या पिङ्गलाक्षी सूर्यसौख्यप्रदायिनी ॥
सिद्धिबुद्धिप्रदा धेनुः कपिलानन्तरूपिणी ॥ १३॥
पूर्वोक्ता यास्तु कपिलाः सर्वलक्षणलक्षिताः ॥
सर्वा ह्येता महाभागास्तारयन्ति न संशयः ॥ १४ ॥
सङ्गमेषु प्रशस्ताश्च सर्वपापविनाशनाः ॥
अग्निपुच्छा अग्निमुखी अग्निलोमानलप्रभा ॥ १५ ॥
तथाग्नायी तथा देवी सुवर्णाख्या प्रवर्तते ॥
गृहीत्वा कपिलां शूद्रात्कामतः सदृशः पिबेत् ॥ १६ ॥
पतितैः स हि विज्ञेयश्चाण्डालसदृशोऽधमः ॥
तस्मान्न प्रतिगृह्णीयाच्छ्रूद्राद्विप्रः प्रतिग्रहम् ॥ १७ ॥
दूरात्ते परिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे ॥
पर्वकाले हि सर्वे वै वर्जिताः पितृदैवतैः ॥ १८ ॥
असम्भाष्याः प्रतिग्राह्या शूद्रास्ते पापकर्मणः ॥
पिबन्ति यावत् कपिलां तावत्तेषां पितामहः ॥ १९ ॥
भूमेर्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम् ॥
तासां क्षीरं घृतं वापि नवनीतमथापि वा ॥ 112.२० ॥
उपजीवन्ति ये शूद्रास्तेषां गतिमतः शृणु ॥
कपिलाजीविनः शूद्राः क्रूरा गच्छन्ति रौरवम् ॥ २१ ॥
रौरवे तु महारौद्रे वर्षकोटिशतं धरे ॥
ततो विमुक्ताः कालेन शुनो योनिं व्रजन्ति हि ॥ २२ ॥
शुनो योन्या विमुक्तास्तु विष्ठाभुक्कृमयस्ततः ॥
विष्ठास्थानेषु पापिष्ठः सुदुर्गन्धिषु नित्यशः ॥ २३ ॥
भूयोभूयो जायमानस्तथोत्तारं न विन्दति ॥
ब्राह्मणश्चैव यो विद्वान्कुर्यात्तेषां प्रतिग्रहम् ॥ २४ ॥
ततः प्रभृत्यमेध्यान्तः पितरस्तस्य शेरते ॥
न तं विप्रं तु सम्भाषेन्न चैवैकासनं विशेत् ॥ २५ ॥
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणैर्धरे ॥
यस्तेन सह सम्भाषेत्तथा चैकासनं व्रजेत् ॥२६॥
प्राजापत्यं चरेत्कृच्छ्रं तेन शुष्यति स द्विजः॥
एकस्य गोप्रदानस्य सहस्रांशेन पूर्यते ॥२७॥
किमन्यैर्बहुभिर्दानैः कोटिसङ्ख्यानविस्तरैः ॥
श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये ॥ २८ ॥
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत ॥
कपिलार्द्धप्रसूता वै दातव्या च द्विजन्मने ॥ २९ ॥
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ॥
तावत्सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ 112.३० ॥
धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे ॥
तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्चिताः ॥ ३१ ॥
वसन्ति ब्रह्मलोके वै ये नित्यं कपिलाप्रदाः ॥
सुवर्णशृङ्गीं यः कृत्वा रौप्ययुक्तखुरां तथा ॥ ३२ ॥
ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ॥
कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ॥ ३३ ॥
उदकं च करे दत्त्वा वाचयेच्छुद्धया गिरा ॥
ससमुद्रवना तेन सशैलवनकानना ॥ ३४ ॥
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥
पृथिवीदानतुल्येन दानेनैतेन वै नरः ॥ ३५ ॥
नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम् ॥
ब्रह्मस्वहारी गोघ्नो वा भ्रूणहा पापदेहकः ॥ ३६ ॥
महापातकयुक्तोऽपि वञ्चको ब्रह्मदूषकः ॥
निन्दको ब्राह्मणानां च तथा कर्मावदूषकः ॥ ३७ ॥
महापातकयुक्तोऽपि गवां दानेन शुध्यति ॥
यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् ॥ ३८ ॥
तद्दिनं पायसाहारं पयसा वापि वा भवेत् ॥
सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ॥३९॥
तस्याप्यर्द्धशतेनाथ पञ्चाशच्च ततोऽर्द्धकम् ॥
यथाशक्त्या प्रदातव्या वित्तशाठ्यं विवर्जयेत् ॥112.४०॥
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै ॥
ददे वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ॥ ४१ ॥
प्रतिगृह्णामि त्वां धेनो कुटुम्बार्थे विशेषतः ॥
शुभं भवतु मे नित्यं देवधात्रि नमोऽस्तु ते ॥ ४२ ॥
मे नित्यं स्वस्ति भवतु रुद्राङ्गेति नमोनमः ॥
ॐ द्योस्त्वा ददातु पृथिवी त्वा प्रति गृह्णतु ॥ ४३ ॥
क इदं कस्मा अदादिति जपित्वा वै वसुन्धरे ॥
विसृज्य ब्राह्मणं देवि तां धेनुं तद्गृहं नयेत् ॥ ४४ ॥
एवं प्रसूयमानां यो गां ददाति वसुन्धरे ॥
पृथिवी तेन दत्ता स्यात्सप्तद्वीपा न संशयः ॥४५ ॥
वदन्ति तां चन्द्रसमानवक्त्रां प्रतप्तजाम्बूनदतुल्यवर्णाम् ॥
महासितत्त्वां तनुवृत्तमध्यां सेवन्त्यजस्रं कुलिता हि देवाः ॥ ४६ ॥
प्रातरुत्थाय यो मर्त्यः कल्पं चेदं समाहितः ॥
जितेन्द्रियः शुचिर्भूत्वा पठेद्भक्त्या समन्वितः ॥४७॥
त्रिः सदावर्त्तनं कृत्वा पापं वर्षकृतं च यत् ॥
नश्यते तत्क्षणादेव वायुना पांसवो यथा ॥९॥
श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम् ॥
तस्यान्नं संस्कृतं तद्धि पितरोऽश्नन्ति धीमतः ॥ ४९ ॥
अमायां वाथ यः कश्चिद्द्विजानामग्रतः पठेत् ॥
पितरस्तस्य तृप्यन्ति वर्षाणां शतमेव च ॥ 112.५० ॥
यश्चैतच्छृणुयान्नित्यं तद्गतेनान्तरात्मना ॥
संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥
होतोवाच ॥
इदं रहस्यं राजेन्द्र वराहेण पुरातनम् ॥
धरण्यै कथितं राजन्धेनुमाहात्म्यमुत्तमम् ॥ ५२ ॥
मया ते कथितं सर्वं सर्वपापप्रणाशनम् ॥
द्वादश्यां माघमासस्य शुक्लायां तिलधेनुदः॥५३॥
सर्वकामसमृद्धार्थो वैष्णवं पदमाप्नुयात्॥
द्वादश्यां श्रावणे मासि शुक्लायां राजसत्तम॥५४॥
प्रत्यक्षधेनुर्दातव्या सहिरण्या नृपोत्तम ॥
सर्वदा सर्वधेनूनां प्रदानं राजसत्तम ॥९५॥
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदायकम् ॥
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम् ॥ ९६ ॥
धेनूनां फलमुद्दिश्य सर्वकामप्रदं नृणाम् ॥
अथवा पीड्यसेऽत्यन्तं क्षुधया पार्थिवोत्तम ॥ ५७ ॥
इदानीं कार्त्तिकी चेयं वर्त्तते च नराधिप ॥
ब्रह्माण्डं सर्वसम्पन्नं भूतरत्नौषधैर्युतम् ॥ ५८ ॥
देवदानवयक्षैस्तु युक्तमेतत्सदा विभो ॥
एतद्धेममयं कृत्वा सर्वबीजरसान्वितम् ॥ ५९॥
सरत्नं पुरुषः कृत्वा कार्त्तिक्यां द्वादशी दिने॥
अथवा पञ्चदश्यां च कार्त्तिकस्य विशेषतः ॥ 112.६० ॥
पुरोहिताय गुरवे दद्याद्भक्तिसमन्वितः ॥
ब्रह्माण्डोदरवर्तीनि यानि भूतानि पार्थिव ॥६१ ॥
तानि दत्तानि तेन स्युः समासात्कथितं तव ॥
यो यज्ञे यजते राजन् सहस्रशतदक्षिणैः ॥ ६२ ॥
सैकदेशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः ॥
यः पुनः सकलं चेदं ब्रह्माण्डं यजते नरः ॥ ६३ ॥
तेन चेष्टं हुतं दत्तं पठितं कीर्त्तितं भवेत् ॥
एवं श्रुत्वा ततो राजा हेमकुम्भप्रकल्पितम् ॥ ६४ ॥
ब्रह्माण्डमृषये प्रादात्सविधानं च तत्क्षणात् ॥
सर्वकामैः सुसंवीतो ययौ स्वर्गं नराधिपः ॥ ६५ ॥
तस्मात्त्वमपि राजेन्द्र तद्दत्त्वा तु सुखी भव ॥
एवमुक्तो वसिष्ठेन सोऽप्येवमकरोन्नृपः ॥ ६६ ॥
जगाम परमां सिद्धिं यत्र गत्वा न शोचति ॥
श्रीवराह उवाच ॥
इयं ते कथिता देवि संहिता सर्वकामिका ॥ ६७ ॥
वराहाख्या वरारोहे सर्वपातकनाशिनी ॥
सर्वज्ञादुत्थिता चेयं ततो ब्रह्मा बुबोध ह॥६८॥
ब्रह्मा स्वसूनवे प्रादात्पुलस्त्याय महात्मने॥
सोऽपि रामाय च प्रादाद्भार्गवाय महात्मने ॥६९॥
असावपि स्वशिष्याय प्रादादुग्राय धारिणि ॥
उग्रोऽपि मनवे प्रादादेष वः कीर्तितो मया ॥ 112.७० ॥
सम्बन्धः पूर्वकल्पीयो द्वितीयं शृणु साम्प्रतम् ॥
सर्वज्ञाल्लब्धवानस्मि त्वं च मत्तो धराधरे ॥ ७१ ॥
त्वत्तश्च तपसा सिद्धा वेत्स्यन्ते कपिलादयः ॥
क्रमेण यावद्व्यासेन ज्ञातमेतद्भविष्यति ॥ ७२ ॥
तस्यापि शिष्यो भविता नाम्ना वै रोमहर्षणिः ॥
असौ शुनकपुत्राय कथयिष्यति नान्यथा ॥ ७३ ॥
अष्टादश पुराणानि वेद द्वैपायनो गुरुः ॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ७४ ॥
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ॥ ७५ ॥
दशमं ब्रह्मवैवर्त्त लैङ्गमेकादशं स्मृतम् ॥
वाराहं द्वादशं प्रोक्तं स्कान्दं चापि त्रयोदशम् ॥ ७६ ॥
चतुर्दशं वामनकं कौर्मं पञ्चदशं स्मृतम् ॥
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥ ७७ ॥
य एतत्पाठयेद्भक्त्या कार्तिक्यां द्वादशीदिने ॥
तस्य नूनं भवेत्पुत्रो ह्यपुत्रस्यापि धारिणि ॥ ७८ ॥
यस्येदं तिष्ठते गेहे लिखितं पूज्यते सदा ॥
तस्य नारायणो देवः स्वयं तिष्ठति धारिणि ॥ ७९ ॥
यश्चैतच्छृणुयाद्भक्त्या नैरन्तर्येण मानवः ॥
श्रुत्वा तु पूजयेद्यस्तु शास्त्रं वाराहसञ्ज्ञितम् ॥ 112.८० ॥
श्रुत्वा तु पूजयेच्छास्त्रं तथा विष्णुं सनातनम् ॥
गन्धैः पुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः ॥८१ ॥
यथाशक्त्या नृपो ग्रामैः पूजयेद्वत्सकं धरे ॥
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥८२॥
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने उभयतोमुखीगोदान हेमकुम्भदान पुराणप्रशंसनन्नाम द्वादशाधिकशततमोऽध्यायः ॥११२॥