अथ कपिलाधेनुदानमाहात्म्यम् ॥
होतोवाच ॥
अथातः सम्प्रवक्ष्यामि कपिलां धेनुमुत्तमाम् ॥
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ॥ १ ॥
पूर्वोक्तेन विधानेन दद्याद्धेनुं सवत्सकाम् ॥
सर्वालङ्कारसंयुक्तां सर्वरत्नसमन्विताम् ॥ २ ॥
कपिलायाः शिरो ग्रीवा सर्वतीर्थानि भामिनि ॥
पितामहनियोगाच्च निवसन्ति हि निश्चयः ॥ ३ ॥
प्रातरुत्थाय यो मर्त्यः कपिलागलमस्तकात् ॥
च्युतं तु भक्त्या पानीयं शिरसा वन्दते शुचिः ॥ ४ ॥
स तेन पुण्यतोयेन तत्क्षणाद्दग्धकिल्बिषः ॥
त्रिंशद्वर्षकृतं पापं दहत्यग्निरिवेन्धनम् ॥५॥
कल्यमुत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम् ॥
प्रदक्षिणी कृता तेन पृथिवी स्याद्वसुन्धरे॥६॥
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन तत्क्षणात्॥
दशजन्मकृतं पापं तस्य नश्यत्यसंशयम् ॥७॥
कपिलायास्तु मूत्रेण स्नायाच्चैव शुचिव्रतः।
स गङ्गादिषु तीर्थेषु स्नातो भवति मानवः ॥८॥
तेन स्नानेन चैकेन भावयुक्तेन वै नरः ॥
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः ॥ ९ ॥
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः ॥
सममेतत्पुरा प्राह ब्रह्मा लोकपितामहः ॥ 111.१०॥
गवामस्थि ततोऽप्येतन्मृतगन्धेन दूषयेत् ॥
यावज्जिघ्रति तं गन्धं तावत्पुण्यैस्तु पूर्यते ॥ ११ ॥
गवां कण्डूयनं श्रेष्ठं तथा च परिपालनम् ॥
तुल्यं गोशतदानस्य भयरोगादिपालने ॥१२॥
तृणादिकानि यो दद्यात्क्षुधितेन गवाह्निकम् ॥
गोमेधस्य फलं दिव्यं लभते मानवोत्तमः ॥ १३ ॥
विमानैर्विविधैर्दिव्यैः कन्याभिरभितोऽर्पितैः ॥
सेव्यमानः सुगन्धैर्वै दीप्यमान इवाग्नयः॥१४॥
सुवर्णकपिला पूर्वं द्वितीया गौरपिङ्गला ॥
तृतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला॥१५॥
पञ्चमी बहुवर्णा स्यात्षष्ठी च श्वेतपिङ्गला॥
सप्तमी श्वेतपिङ्गाक्षी त्वष्टमी कृष्णपिङ्गला ॥१६॥
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ॥
एकादशी खुरश्वेता त्वेतासां सर्वलक्षणाः ॥ १७ ॥
सर्वलक्षणसंयुक्ता सर्वालङ्कृतसुन्दरी ॥
ब्राह्मणाय प्रदातव्या भुक्तिमुक्तिप्रदायिनी ॥ १८ ॥
भुक्तिमुक्तिप्रदा तेषां विष्णुमार्गप्रदायिनी ॥ १९ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने कपिलादानमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ॥ १११ ॥