१०७

अथ नवनीतधेनुदानमाहात्म्यम् ॥
होतोवाच ॥
नवनीतमयीं धेनुं शृणु राजन्प्रयत्नतः ॥
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
गोमयेनानुलिप्तायां भूमौ गोचर्ममानतः ॥
चर्म कृष्णमृगस्येव तस्योपरि च धारयेत् ॥ २ ॥
कुम्भं तु नवनीतस्य प्रस्थमात्रस्य धारयेत् ॥
वत्सं चतुर्थभागस्य तस्यामुत्तरतो न्यसेत् ॥ ३ ॥
कृत्वा विधानेन च राजसिंह सुवर्णशृङ्गी सुमुखा च कार्या ॥
नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्यच्च गुडेन जिह्वाम् ॥ ४ ॥
ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नां च सितैश्च सूत्रैः ॥
जिह्वां तथा शर्करया प्रकल्प्य फलानि दन्ताः कम्बलं पट्टसूत्रम् ॥ ५ ॥
नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् ॥
ताम्रपृष्ठां रौप्यखुरां दर्भरोमकृतच्छविम् ॥ ६ ॥
स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् ॥
चतुर्भिस्तिलपात्रैश्च संवृतां सर्वतो दिशि ॥ ७ ॥
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलङ्कृताम् ॥
दीपांश्च दिक्षु प्रज्वाल्य ब्राह्मणाय निवेदयेत् ॥ ८॥
मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः ॥
पुरा देवासुरैः सर्वैः सागरस्य तु मन्थने ॥ ९ ॥
उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ॥
आप्यायनं तु भूतानां नवनीत नमोऽस्तु ते ॥ 107.१०॥
एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने ॥
धेनुं च दत्त्वा सुदुघां सोपधानां नयेद्गृहम् ॥११ ॥
हविरेवं रसं चैव विप्रवर्यस्य भूपते॥
भुक्त्वा तिष्ठेद्दिनं राजन् धेनुदस्त्रीणि वै द्विजः ॥ १२ ॥
यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम ॥
सर्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ॥ १३॥
पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः ॥
विष्णुलोकं व्रजत्याशु यावदाभूतसम्प्लवम् ॥१४॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ १५ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने नवनीतधेनुदानमाहात्म्यन्नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥