अथ दधिधेनुदान माहात्म्यम् ॥
होतोवाच ॥
दधिधेनोर्महाराज विधानं शृणु साम्प्रतम् ॥
अनुलिप्ते महीभागे गोमयेन नराधिपः ॥१ ॥
गोचर्ममात्रं तु पुनः पुष्पप्रकरशोभिते ॥
कुशैरास्तीर्य वसुधां कृष्णाजिनकुशोत्तरीम् ॥ २ ॥
दधिकुम्भं तु संस्थाप्य सप्तधान्यचयोपरि ॥
चतुर्थांशेन वत्सं तु सौवर्णं मुखमण्डितम् ॥३॥
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ॥
ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते ॥४॥
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ॥
पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णभूषणैः ॥५ ॥
पादुकोपानहौ छत्रं दत्त्वा मन्त्रमिमं पठेत् ॥
दधिक्राव्णेति मन्त्रेण दद्याद्धेनुं सुपूजिताम् ॥ ६ ॥
एवं दधिमयीं धेनुं दत्त्वा राजर्षिसत्तम ॥
एकाहारी दिनं तिष्ठेद्दध्ना च नृपनन्दन ॥७॥
यजमानो वसेद्राजंस्त्रिरात्रं च द्विजोत्तमः ॥
दीयमानां प्रपश्यन्ति ते यान्ति परमं पदम् ॥ ८ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ॥
सोऽश्वमेधफलं प्राप्य विष्णुलोकं च गच्छति ॥ ९ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने दधिधेनुदानमाहात्म्यन्नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥