१०५

अथ क्षीरधेनुदानविधिः ॥
होतोवाच ॥
क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप ॥
अनुलिप्ते महीपृष्ठे गोमयेन नृपोत्तम ॥१ ॥
गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः ॥
तस्योपरि महाराज न्यसेत्कृष्णाजिनं बुधः ॥२॥
तत्र कृत्वा कुण्डलिकां गोमयेन सुविस्तृताम् ॥
क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ॥३॥
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ॥
प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥४॥
मुखं गुडमयं तस्या जिह्वां शर्करया तथा ॥
फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ॥९॥
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम् ॥
ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयीं शुभाम्॥६॥
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम्॥
स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् ॥७॥
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत् ॥
सप्तधान्ययुतं पात्रे दिक्षु दिक्षु च विन्यसेत् ॥८ ॥
एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत् ॥
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत् ॥ ९ ॥
धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ॥
वस्त्रादिभिरलङ्कृत्य मुद्रिकाकर्णकुण्डलैः ॥105.१० ॥
पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥
दद्यादनेन मन्त्रेण क्षीरधेनुं प्रयत्नतः ॥११॥
आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः ॥
आश्रयः सर्वभूतानामित्यादि नरपुङ्गव॥१२॥
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
प्रतिग्राही पठेन्मन्त्रमेष दानविधिः स्मृतः ॥१३॥
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः॥१४॥
दत्वा धेनुं महाराज शृणु तस्यापि यत्फलम् ॥
षष्टिवर्षसहस्रं तु इन्द्रलोके महीयते॥१५॥
पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत् ॥
दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ॥१६॥
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ॥
द्वादशादित्यसङ्काशे विमानवरमण्डिते ॥ १७ ॥
गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते ॥
तत्रोष्य विष्णोर्भवने विष्णुसायुज्यमाप्नुयात् ॥१८।
यं इमं शृणुयाद्राजन्पठेद्वा भक्तिभावतः॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥१९ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने क्षीरधेनुदानविधिर्नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥