१००

अथ जलधेनुदान विधिः ॥
होतोवाच ॥
जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्वकम् ॥
गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत् ॥ १ ॥
तत्र मध्ये तु राजेन्द्र पूर्णं कुम्भं च विन्यसेत् ॥
जलपूर्णं सुगन्धाढ्यं कर्पूरागुरुचन्दनैः ॥ २ ॥
वासितं गन्धतोयेन तां धेनुं परिकल्पयेत् ॥
वत्सं तथापरं कल्प्य जलेन परिपूरितम् ॥ ३॥
वर्द्धनीकं(वर्द्धनकिं) महाराज यन्त्रपुष्पैः समन्वितम् ॥
दूर्वाङ्कुरैरुपस्तीर्य स्रग्भिश्चैव विभूषितम् ॥ ४ ॥
पञ्चरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ॥
मांसीमुशीरं कुष्ठं च तथा शैलेयबालुकम् ॥ ५ ॥
धात्रीफलं सर्षपाश्च सर्वधान्यानि पार्थिव ॥
चतुर्दिक्ष्वपि पात्राणि चत्वार्येव प्रकल्पयेत् ॥ ६ ॥
एकं घृतमयं पात्रं द्वितीयं दधिपूरितम् ॥
तृतीयं मधुनश्चैव चतुर्थं शर्करावृतम् ॥ ७ ॥
सुवर्णमुखचक्षूंषि शृङ्गं कृष्णाङ्गरेषु च ॥
प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम् ॥८ ॥
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ॥
पुच्छं सूत्रमयं कृत्वा कृष्णाभरण घण्टिकाम् ॥ ९ ॥
कम्बले पुष्पमालां च गुडास्यां शुक्तिदन्तिकाम् ॥
जिह्वां शर्करया कृत्वा नवनीतेन च स्तनान् ॥ 100.१० ॥
इक्षुपादां तु राजेन्द्र गन्धपुष्पोपशोभिताम् ॥
कृष्णाजिनोपरि स्थाप्य वस्त्रेणाच्छादितां तु ताम् ॥ ११ ॥
गन्धपुष्पैः समभ्यर्च्य विप्राय विनिवेदयेत् ॥
एवं धेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे ॥ १२॥
साधुविप्राय राजेन्द्र श्रोत्रियायाहिताग्नये ॥
तपोवृद्धाय पात्राय दातव्या च कुटुम्बिने ॥ १३ ॥
यो ददाति नरो राजन् यः पश्यति शृणोति च ॥
प्रतिगृह्णाति यो विप्रः सर्वे मुच्यन्ति पातकात् ॥ १४ ॥
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ॥
मुक्ताः सर्वपापैस्तु गन्तारो विष्णुमन्दिरे ॥ १५ ॥
विमुक्तः सर्वपापैस्तु विष्णुलोकं स गच्छति ॥
योऽश्वमेधेन यजते समाप्तवरदक्षिणः ॥ १६ ॥
जलधेनुं च यो दद्यात्सममेतन्नराधिप ॥
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः ॥ १७ ॥
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः ॥
यत्र क्षीरवहा नद्यो मधुपायसकर्दमाः ॥१८॥
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ॥
दाता च दापकश्चैव प्रतिग्राही च यो द्विजः ॥ १९ ॥
सर्वपापविनिर्मुक्तः विष्णुसायुज्यमाप्नुयुः ॥
जलधेनुविधानं यः शृणुयात्कीर्त्तयेदपि ॥ 100.२० ॥
सर्वपापविनिर्मुक्तः स्वर्गमेति जितेन्द्रियः ॥ २१ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने जलधेनुविधिर्नाम शततमोऽध्यायः ॥ १०० ॥