अथ पर्वाध्यायः ॥
धरण्युवाच ॥
योऽसौ सत्यतपा नाम लुब्धो भूत्वा द्विजो बभौ ॥
येनारुणिर्व्याघ्रभयाद्रक्षितो यः स्वशक्तितः ॥ १ ॥
दुर्वासाः संश्रुतार्थश्च हिमवन्तं नगं ययौ ॥
तस्योपरि महच्चित्रं भवतीति त्वयेरितम् ॥ २ ॥
कीदृशं तन्ममाचक्ष्व महत्कौतूहलं विभो ॥
श्रीवराह उवाच ॥
स हि सत्यतपा पूर्वं भृगुवंशोद्भवो द्विजः ॥ ३ ॥
दस्युसंसर्गसम्भूतो दस्युवत्समजायत ॥
ततः कालेन महता ऋषिसङ्गात्पुनर्द्विजः ॥ ४ ॥
बभौ दुर्वाससा सम्यग्बोधितश्च विशेषतः ॥
हिमाद्रेरुत्तरे पादे पुष्यभद्रा नदी शुभा ॥ ५ ॥
तस्यास्तीरे शिला दिव्या नाम्ना चित्रशिला धरे ॥
न्यग्रोधश्च महांस्तत्र नाम्ना भद्रो महावटः ॥ ६ ॥
तत्र सत्यतपाः स्थित्वा तपः कुर्वन्महातपाः ॥
स कदाचित्कुठारेण चकर्त्त समिधः किल ॥ ७ ॥
चिच्छेद चाङ्गुलीमेकां वामतर्जनिकां मुनिः ॥
छिन्नायामङ्गुलौ तस्य भस्मचूर्णं भवत्किल ॥ ८ ॥
न लोहितं न मांसं तु न मज्जा तत्र दृश्यते ॥
अङ्गुली सन्धिता तेन पूर्ववच्चाभवत्कृते ॥ ९ ॥
तस्मिन् भद्रवटे चैकं मिथुनं किन्नरं स्थितम् ॥
रात्रौ सुप्तमृषेस्तस्य दृष्ट्वा तन्महदद्भुतम्॥ ९८.१० ॥
प्रभाते विमले प्राप्तमिन्द्रलोकमिति स्मृतिः ॥
अथेन्द्रेण सुराः सर्वे यक्षगन्धर्वकिन्नरैः ॥ ११ ॥
पृष्टाः किञ्चिदिहाश्चर्यमपूर्वं कथ्यतामिति ॥
तत्र रुद्रसरस्तीरे यदेतन्मिथुनं शुभम् ॥ १२ ॥
स्थितं किन्नरयोस्तच्च वाक्यं चेदमुवाच ह॥
दृष्टं तु मह दाश्चर्यं पुष्यभद्रातटे शुभे ॥ १३ ॥
यदेतत्सत्यतपसः समवोचत्ततः शुभे ॥
दृष्टं किञ्चिदिहाश्चर्यं दृष्टिस्तु हिमवद्गिरौ ॥ १४ ॥
पुष्यभद्रानदी तीरे महदाश्चर्यमुत्तमम् ॥
यदेतत्सत्यतपसः समवोचस्ततः शुभे ॥ १५ ॥
स्रवणं भस्मनश्चैव श्रुतं सर्वं शशंस ह ॥
तच्छुत्वा सहसा शक्रो विस्मितो विष्णुमब्रवीत् ॥ १६ ॥
आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम् ॥
तत्राश्चर्यमपूर्वं मे कथितं किन्नरेण ह ॥ १७॥
एवमुक्तस्ततो विष्णुर्वाराहं रूपमग्रहीत् ॥
मृगयुश्च तथैवेन्द्रो जग्मतुस्तमृषिं प्रति ॥ १८ ॥
विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः ॥
भूत्वा दृश्योऽप्यदृश्योऽभूत्पुनरेव च दृश्यते ॥ १९ ॥
तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग्वने ॥
आगत्य सत्यतपतमृषिमेनमुवाच ह ॥ ९८.२० ॥
भगवन्निह दृष्टस्ते वराहः पृथुलो महान् ॥
येन तं हन्मि भृत्यानां पोषणाय महामुने ॥ २१॥
एवमुक्तो मुनिस्तेन चिन्तयामास तत्क्षणात् ॥
यदि तं दर्शयाम्यस्मै वराहं हन्यते तदा ॥ २२ ॥
नो चेत्कुटुम्बः क्षुधया सीदत्यस्य न संशयः ॥
जायापुत्रसमायुक्तो लुब्धकोऽयं क्षुधा न्वितः ॥ २३ ॥
सशल्यश्च वराहोऽयं ममाश्रममुपागतः ॥
एवं गते तु किं कार्यमथासौ चिन्तयन् प्रभुः ॥ २९ ॥
नाध्यगच्छत बुद्धिश्च क्षणात्तस्य व्यजायत ॥ २५ ॥
दृष्टं चक्षुर्निहितं जङ्गमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम् ॥
द्रष्टुं चक्षुर्नास्ति जिह्वेह वक्तुं जिह्वायाः स्यात्तत्त्वतोऽस्तीह चक्षुः ॥ २६ ॥
एवं श्रुत्वा द्वावपि तस्य तुष्टौ इन्द्राविष्णू दर्शयन्तौ स्वमूर्तिम् ॥
वाक्यं चेदमूचतुर्ब्रूहि नौ ते तुष्टौ धन्यं वरमेकं वदस्व ॥
तच्छ्रुत्वाऽसौ सत्यतपा उवाच १ ॥२७॥
न चातिरिक्तोऽस्ति वरः पृथिव्यां यद्दृष्टो मे पुरतो देवदेवाः ॥
बलं वरेणापि कृतार्थतासीत् तथापीदं ये सदा पर्वकाले ॥ २८ ॥
विप्रा विप्राश्चार्चयन्तीह भक्त्या तेषां पापं नश्यतां मासमेकम् ॥
यत्सञ्चितं त्वेष एको वरोऽस्तु ह्यभीष्टो मे साम्प्रतं देहि मह्यम् ॥ २९ ॥
मुक्तिं चाहं व्रजामीति द्वितीयोऽस्तु वरो मम॥
तथेत्युक्त्वा तु तौ देवौ दत्त्वा तस्य वरं शुभम्॥९८.३०॥ ।
अदर्शनं गतौ देवो सोऽपि तत्र व्यवस्थितः ॥
लब्ध्वा वरं सत्यतपा ब्रह्मभूतोऽभवद्धृदि ॥ ३१ ॥
यावदास्ते शुभे देशे कृतकृत्यो महामुनिः ॥
तावत्तस्य गुरुस्तत्र त्वारुणिः समदृश्यत ॥ ३२ ॥
पृथ्वीं प्रदक्षिणीकृत्य तीर्थहेतोर्विचक्षण ॥
तेन चासौ महाभक्त्या पूजितो मुनि पुङ्गवः ॥ ३३ ॥
पाद्याचमनगोदानेः कृतासनपरिग्रहः ॥
ज्ञात्वा स शिष्यं सिद्धं तु तपसा दग्धकिल्बिषम् ॥३४॥
उवाच विनयापन्नं प्राञ्जलिं पुरतः स्थितम् ॥
आरुणिरुवाच ॥
पुत्र सिद्धोऽसि तपसा ब्रह्मभूतोऽसि सुव्रत ॥३९॥
इदानीमात्मना सार्द्धं मुक्तिकालो मतोऽस्ति ते ॥
उत्तिष्ठ गम्यतां पुत्र मया सार्द्धं परं पदम् ॥३६॥
यद्गत्वा न पुनर्जन्म भवतीति न संशयः ॥
एवमुक्त्वा तु तौ सिद्धौ उभौ सत्यतपारुणी ॥ ३७ ॥
ध्यात्वा नारायणं देवं तद्देहे तौ लयं गतौ ॥
यश्चापि शृणुयात्पादं पर्वाध्यायं सविस्तरम् ॥ ३८ ॥
श्रावयेद्वापि स नरो गतिमिष्टामवाप्नुयात् ॥
इति श्रीवराहपुराणे पर्वाध्यायो नाम अष्टनवतितमोऽध्यायः ॥ ९८ ॥