अथ त्रिशक्तिरहरये रौद्रीव्रतम्
॥ श्रीवराह उवाच ॥
या सा नील गिरि याता तपसे धृतमानसा ॥
रोद्री तमोद्भवा शक्तिस्तस्याः शृणु धरे व्रतम् ॥ १ ॥
तपः कृत्वा चिरं कालं पालयाम्याखलं जगत् ॥
एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी ॥ २ ॥
तरयाः कालान्तरे देव्यास्तपन्यास्तप उत्तमम् ॥
रुरुनम महातेजाः ब्रह्मदत्तवरो ऽसुरः ॥ ३॥
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् ॥
तत्र राजा स देत्येन्द्रः सर्वदेवभयङ्करः॥४॥
अनेकशतसाहस्रकेटिट्युत्तरोत्तरैः ॥
असुरैरन्वितः श्रीमान्द्रतीयो नमुचिर्यथा ॥५ ॥
कालेन महता चासौ लोकपालपुराण्यथ ॥
जिगीषुः सैन्यसंवीतो देवैर्युद्धमरोचयत् ॥ ६॥
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृथेऽतिमात्रम् ॥
अनेकनकप्रदमीनजुष्टमालावयपर्वतसानुदेशान् ॥ ७॥
अन्तःस्थितानेकसुरारि सङ्कवाद्विचित्रवमयुधचित्रशोभम् ॥
भीमं बलं वर्मितचारुयोधं विनिर्ययौ सिन्धुजलादशालात् ॥८॥
तत्र द्विपा दैत्यवरैरुपेताः समानघण्टायुत किङ्किणीकाः॥
विनर्ययुः स्वाकृतिभीपणाश्च समत्वमुच्चैः खलु दर्शयन्तः ॥ ९॥
अश्वास्तथा काञ्चनपीठनद्धा रोडैस्तु युक्ताः सितचामरैश्च ॥
व्यवस्थितास्ते सममेव तु विनिर्ययुर्लक्षशः कोटेशश्च ॥१०॥
रथा रविस्यन्दनतुल्यवेगाः सुचक्रदण्डाक्षत्रिवेणुयुक्ताः ॥
सुशखयन्त्राः परपीडताङ्गाश्चलत्यनन्तास्त्वरितं विशक्ताः ॥ ११ ॥
तथैव योधाः स्थगितेतरेतास्ततर्षिको ये वरतूणपणियः ॥
पदे पदे लब्धजयाः प्रहारिणो विरेजुरुचैरसुरानुगा भृशम् ॥ १२॥
देवेषु चैव भरेषु विनिर्गत्य ज्दात्ततः ॥
चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ॥ १३ ॥
युयोध च सुरैः साढे रुदैत्यपतिस्तथा ।
सुदूर्मुसलधेरैः शरैर्दण्डायुधैस्तथा ॥ १४ ॥
जनुदैरयाः सुरान्सङ्ख्य सुराश्चैव तथासुरान् ॥
एवं क्षणमथो युध्वा तदा देवाः सवासवाः ॥ १५ ॥
असुरैनिर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ॥
देवेषु चैवग्भग्रेषु विद्वतेषु विशेषतः ॥ १६ ॥
असुरः सर्वदेवानामन्वधावत वीर्यवान् ।
ततो देवगणाः सर्वे द्रवन्तो भयावह्वलाः॥१७॥
नीले गिरिवर जग्मुर्यत्र देवी व्यवास्थता ॥
रोदी तपोरता देवी तामसी शक्तिरुत्तमा ॥ १८ ॥
संहारकारिणी देवी कालरात्रीत तां विदुः ॥
सा दृष्ट्वा तान् तदा देवान भयत्रस्तान्विचेतसः ॥ १९ ॥
मा भेप्टेत्युच्चकैदेवी तानुवाच सुरोत्तमान् ॥
देव्युवाच ॥
किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ॥ २० ॥
कथयध्वं द्रुतं देवाः सर्वथा भयकार णम् ॥
देवा ऊचुः ।
अयमायाति दैत्येन्द्रो रुरुभीमपराक्रमः ॥ २१॥
एतस्य भातान् रक्षस्व त्वं देवान्परमेश्वार ॥
एवमुक्तस तदा देवी भीम पराकमा ॥ २२ ॥
जहास परया प्रीत्या देवानां पुरतः शुभा ॥
विश्वास-प्रस्तुतिः
तस्या हसन्त्या वक्त्रात् तु
बह्वयो देव्यो विनिर्ययुः ।
याभिर् विश्वम् इदं व्याप्तं
विकृताभिर् अनेकशः ॥
पाशाङ्कुशधराः सर्वाः
सर्वाः पीनपयोधराः ।
सर्वाः शूलधरा भीमाः
सर्वाश् चापधराः शुभाः ॥
मूलम्
तस्या हसन्त्या वक्त्रात् तु बह्वयो देव्यो विनिर्ययुः ।
याभिर् विश्वम् इदं व्याप्तं विकृताभिर् अनेकशः ॥
पाशाङ्कुशधराः सर्वाः सर्वाः पीनपयोधराः ।
सर्वाः शूलधरा भीमाः सर्वाश् चापधराः शुभाः ॥
विश्वास-प्रस्तुतिः
ताः सर्वाः कोटिशो देव्यस्
तां देवीं वेष्ट्य संस्थिताः ।
युयुधुर् दानवैः सार्धं
बद्ध-तूणा(=तूणीरा) महाबलाः ॥
क्षणेन दानव-बलं तत्
सर्वं निहतन् तु तैः ।
देवाश् च सर्वे सम्पन्ना
युयुधुर् दानवं बलम् ॥
कालरात्र्या बलञ् चैव
यच् च देवबलं महत् ।
तत् सर्वं दानव-बलम्
अनयद् यम-सादनम् ॥
मूलम्
ताः सर्वाः कोटिशो देव्यस् तां देवीं वेष्ट्य संस्थिताः ।
युयुधुर् दानवैः सार्धं बद्धतूणा महाबलाः ॥
क्षणेन दानव-बलं तत् सर्वं निहतन्तु तैः ।
देवाश् च सर्वे सम्पन्ना युयुधुर् दानवं बलम् ॥
कालरात्र्या बलञ् चैव यच् च देवबलं महत् ।
तत् सर्वं दानव-बलम् अनयद् यम-सादनम् ॥
विश्वास-प्रस्तुतिः
एक एव महादैत्यो
रुरुस् तस्थौ महामृधे ।
स्वाञ् च मायां महारौद्रीं
रौरवीं विससर्ज ह ॥
सा माया ववृधे भीमा
सर्व-देव-प्रमोहिनी ।
तया विमोहिता देवाः
सद्यो निद्रान् तु भेजिरे ॥
मूलम्
एक एव महादैत्यो रुरुस् तस्थौ महामृधे ।
स्वाञ् च मायां महारौद्रीं रौरवीं विससर्ज ह ॥
सा माया ववृधे भीमा सर्व-देव-प्रमोहिनी ।
तया विमोहिता देवाः सद्यो निद्रान्तु भेजिरे ॥
विश्वास-प्रस्तुतिः
देवी च त्रिशिखेनाजौ
तं दैत्यं समताडयत् ॥
तया तु ताडितस्यास्य
दैत्यस्य शुभलोचने ।
चर्म-मुण्डे उभे सम्यक्
पृथग्-भूते बभूवतुः ॥
मूलम्
देवी च त्रिशिखेनाजौ तं दैत्यं समताडयत् ॥
तया तु ताडितस्यास्य दैत्यस्य शुभलोचने ।
चर्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ॥
विश्वास-प्रस्तुतिः
रुरोस्तु दानवेन्द्रस्य
चर्म-मुण्डे क्षणाद् यतः ।
अपहृत्याहरद् देवी
चामुण्डा तेन सा ऽभवत् ॥
सर्व-भूत-महारौद्री
या देवी परमेश्वरी ।
संहारिणी तु या चैव
कालरात्रिः प्रकीर्तिता ॥
मूलम्
रुरोस्तु दानवेन्द्रस्य चर्म-मुण्डे क्षणाद्यतः ।
अपहृत्याहरद् देवी चामुण्डा तेन सा ऽभवत् ॥
सर्वभूतमहारौद्री या देवी परमेश्वरी ।
संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ॥
मानसतरङ्गिणीकृत्
As she [Rudrāṇī] laughed, from her mouth arose numerous goddesses with many strange forms, by whom this universe was enveloped. These terrifying and auspicious goddesses all held lassos, goads, tridents, and bows, and all had full breasts. All those crores of mighty goddesses stood surrounding the [primary] goddess, bearing quivers, together fought with the dānava-s. The whole dānava force was rapidly assaulted by those [goddesses], and together with them, the gods fought the dānava force. The great deva-force, together with the army of Kālarātri, sent the entire dānava force to Yama’s abode. The great daitya Ruru stood alone in the great battle. He then released his terrible rauravī magic. That terrible all-god-deceiving magic grew, and, overcome by it, the gods immediately fell asleep. Then the goddess struck the daitya on the battlefield with her trident. Thus, struck by the beautiful-eyed goddess, the skin and the head of the daitya were cleanly separated. As the goddess instantly seized and took away the skin and the head of the lord of the dānava-s, she came to be known as Cāmuṇḍā. From the terrifying form of the supreme goddess that destroys all beings, she came to be known as Kālarātrī.
तस्या अनुचरा देव्यो बढ्योऽसङ्ख्यात कोटयः ॥
तास्तां देवीं महाभागों परिवार्य व्यवस्थिताः ॥ ३४ ॥
याचयामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः ॥
वयं देवि सुधार्ताः स्मो देहि नो भोजनं शुभे ॥ ३८॥
एवमुक्ता तदा देवी दध्या तासां तु भोजनम् ॥
न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात्॥ ३६॥
ततो दध्यो महादेवं रुद्रं पशुपतिं विभुम् ।
सोऽपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः ॥ ३७॥
उवाच च द्रुतं देवीं किं ते कार्य विवक्षितम् ॥
इहि देवि वरारोहे यत्ते मनसि वर्तते ॥ ३८ ॥
देव्युवाच ॥
भक्ष्यार्थमासां देवेश किञ्चिद्दातुमिहार्हसि ॥
बलात्कुर्वन्ति मामेता भक्षार्थिन्यो मः बलाः ॥ ३९ ॥
अन्यथा मामपि बलाद्भक्ष्यायष्यन्ति ताः प्रभो ॥
रुद्र उवाच ॥
एतासां शृणु देवेश भक्ष्यमेकं मयोदितम् ॥ ४०॥
कथ्य मानं वरारोहे कालरात्रे महाप्रभे ॥
या स्त्री सगर्भा देवेशि वन्यस्त्रीपरिधानकम् ॥ ४१ ॥
परिधत्ते स्पृशेचापि पुरुषस्य विशेषतः ॥
स भागोस्तु महाभागो कासाञ्चित्पृथिवीतले ॥ ४२ ॥
अन्याश्छिद्रेषु वाऽज्ञानां गृहीत्वा तत्र वै बालम् ॥
लब्ध्वा भवन्तु सुप्रीता अपि वर्षशता पि ॥ १३ ॥
अन्याः सुतिगृहे च्छिद्रं गृह्णीयुस्तत्र पूजिताः ॥
निवसिष्यन्ति देवेश तथान्या जातहारिकाः ॥ ४४ ॥
गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि ॥
अन्यचिता रुदन्त्य याः स्त्रियास्तष्ठन्ति नित्यशः ॥४५॥
तासां शरीराण्याविश्य कचित्तृप्तिमवाप्स्यथ ॥
एवमुक्त्वा तदा देवी स्वयं रुद्रः प्रतापवान् ॥ ४६॥
दृष्ट्वा रुरुच सबमसुरेन्द्र निपातितम् ॥
स्तुतिं चकार भगवान् स्वयं देवस्रिलोचनः॥ १७॥
रुद्र उवाच ॥
विश्वास-प्रस्तुतिः
जयस्व देवि चामुण्डे
जय भूतापहारिणि ॥
जय सर्वगते देवि
कालरात्रे नमोऽस्तु ते ॥ १८ ॥
विश्वमूर्ते शुभे शुद्धे
विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे वेद्ये
महामाये महोदये ॥
मनोजवे जये जम्भे
भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गे
जय नृत्यप्रिये शुभे ॥
विकरालि महाकालि
कालिके पापहारिणी ।
पाशहस्ते दण्डहस्ते
भीमरूपे भयानके ॥
चामुण्डे ज्वालमानास्ये
तीक्ष्णदंष्ट्रे महाबले ।
शत-यान-स्थिते देवि
प्रेतासनगते शिवे ॥
भीमाक्षी भीषणे देवि
सर्वभूतभयङ्करि ।
कराले विकराले च
महाकाले करालिनि ।
काली कराली विक्रान्ता
कालरात्रि नमोऽस्तु ते॥
मूलम्
जयस्व देवि चामुण्डे जय भूतापहारिणि ॥
जय सर्वगते देवि कालरात्रे नमोऽस्तु ते ॥ १८ ॥
विश्वमुत्ते शुभे शुद्धे विरूपाक्ष त्रिलो चने ॥
भीमरूपे शिवे वेद्ये महामाये महोदये ॥ १९ ॥
मनोजवे जये जृम्भे भीमाक्ष क्षुभितक्षये ॥
महामारि विचित्राङ्गे जय नृत्यप्रिये शुभे ॥५०॥
विकराले महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमरूपे भयानके ॥५१॥
चामुण्डे ज्वमानास्ये तीक्ष्णदेष्टे महाबले॥
शतयानस्थिते देवि प्रेतासनगते शिवे॥५२॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्कार।
कराले विकराले च महाकाले करालिनि॥२३॥
काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ॥
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ॥ २४ ॥
तुतोष परमा देवी वाक्यं चेद मुवाच ह ।
वरं वृणीष्व देवेश यत्ते मनास वर्तते ॥ ५५ ॥
रुद्र उवाच ॥
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ॥
तेषां त्वं वरदा देवि भव सर्वगता सती ॥५६॥
यथेमं त्रिःप्रकारे तु देवि भक्त्या समान्यतः ॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥ ५७॥
यथेमं शृणुया इत्या त्रिशक्यास्तु समुद्भवम् ॥
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम् ॥ २८ ॥
एवं स्तुत्वा भवो देवी चामुण्डां च सुरेश्वरीम् ॥
क्षणा दन्तर्हितो देवस्ते च देवा दिवं ययुः ॥३९॥
य एतां वेद वै देच्या उत्पत्ति त्रिविधां वरम् ॥
स कर्मपाशनिर्मुक्तः परं निर्वाणभृच्छात ॥ ६० ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥
अष्टभ्यां च चतुर्दश्यामुफ्वासी नरोत्तमः ॥ ६१ ॥
संवत्सरेण लभते राज्यं निष्कण्टकं नृपः॥
एषां त्रिशक्तिंरुद्दिष्टा नयसिद्धान्तगामिनी ॥६२॥
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥
एषैव रक्ता रजसि वैष्णवी परिकीर्तिता ॥६३॥
एषैत्र कृष्णा तमसि रौद्री देवी प्रकीर्तिता ॥
परमात्मा यथा देव एक एव त्रिधा स्थितः ॥ ६४ ॥
प्रयोजनक्शाच्छक्तिरेकैव त्रिविधाऽभवत् ॥
य एतं शृणुयात्सगै त्रिशत्तयाः परमं शिवम् ॥ ६५ ॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥
यश्चमं श्रुणुयान्नित्यं नवम्य नियतः स्थितः ॥ ६६ ॥
स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ॥
यस्येदं लिखितं गेहे सदा तिष्ठति धारितम् ॥ १७॥
न तस्याग्निभयं घारं सर्पचौरादिनं भवेत् ॥
यश्चमं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधः ॥ ६८ ॥
तेन चेष्टुं भवेत्सर्वं त्रैलोक्यं सचराचरम् ॥
जायन्ते पशवः पुत्रा धन धान्यं वराः स्त्रियः ॥ ६९ ॥
रत्नान्यश्वास्तथा गावो दासा दास्यो भवन्ति हि ॥
यस्येदं तिष्ठते गेहे तस्य सम्पद्भवेधुवम् ॥ ७० ॥
श्रीवराह उषाच ॥
एतदेव रहस्यं ते कीर्तितं भूतधारिणे ॥
रुद्धस्य खलु माहात्म्यं सकलं कीर्तितं मया ॥ ७१ ॥
नवकोट्यस्तु चामुण्डा भभिन्ना व्यवस्थिताः ॥
या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्तिता ॥ ७२ ॥
अष्टादश तथा कोट्यो वैष्णव्या भेदू उच्यते ॥
या विष्णो राजसी शक्तिः पालनी चैव वैष्णवी ॥७३॥
या ब्रह्मशाक्तः सत्त्वस्था सा ह्यनन्ता प्रकार्तिता ॥
एतासां सर्वभेदेषु पृथगेकैकशी धरे ॥७४॥
सर्वस भगवान् रुखः सर्वगश्च पतिर्भवेत् ॥
यावन्त्यस्या महाशक्यास्तावद्रूपाणि शङ्करः ॥ ७५॥
कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ।
यश्चाराधयते तस्य रुद्रस्तुष्टो भविष्यति॥
सिध्यन्ति तस्य कामाचे मनसा चिन्तिता अपि॥७३॥
इति श्रीवराहपुराणे त्रिशक्तिमाहात्म्ये त्रिशक्ति रहस्यं नाम षण्णवतितमोऽध्यायः॥९६॥