०७९

रुद्र उवाच ।
सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च ।
द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ॥ ७९.१ ॥

त्रियोजनशतायामं शतयोजनविस्तृतम् ।
सुरसामलपानीयं रम्यं तत्र सुरोचनम् ॥ ७९.२ ॥

द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः ।
सहस्त्रशतपत्रैश्च महापद्मैरलङ्कृतम् ॥ ७९.३ ॥

देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् ।
पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ॥ ७९.४ ॥

प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् ।
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ॥ ७९.५ ॥

कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् ।
नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ॥ ७९.६ ॥

चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् ।
तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि ।
लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ॥ ७९.७ ॥

सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् ।
सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ॥ ७९.८ ॥

शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।
अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः ।
शाखासहस्त्रकलितैर्महास्कन्धैः समाकुलम् ॥ ७९.९ ॥

फलैः सहस्त्रसङ्काशैः हरितैः पाण्डुरैस्तथा ।
अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ॥ ७९.१० ॥

शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् ।
नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ॥ ७९.११ ॥

देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् ।
बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः ।
तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ॥ ७९.१२ ॥

एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् ।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ७९.१३ ॥

विमलं पङ्कजवनं सिद्धचारणसेवितम् ।
पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ॥ ७९.१४ ॥

अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् ।
प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ॥ ७९.१५ ॥

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः ।
मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ॥ ७९.१६ ॥

पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः ।
विराजति वनं सर्वं मत्तभ्रमरनादितम् ॥ ७९.१७ ॥

तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः ।
किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ॥ ७९.१८ ॥

तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः ।
सिद्धसाधुगणाकीर्णं नानाश्रमसमाकुलम् ॥ ७९.१९ ॥

महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा ।
मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ॥ ७९.२० ॥

पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् ।
रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ॥ ७९.२१ ॥

महाबलैर्महासारैः स्थिरैरविचलैः शुभैः ।
महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ ७९.२२ ॥

मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् ।
ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ॥ ७९.२३ ॥

ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे ।
सहस्त्रयोजनायामा शतयोजनविस्तृता ॥ ७९.२४ ॥

सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता ।
आप्लुता पादमात्रेण सलिलेन समन्ततः ॥ ७९.२५ ॥

इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः ।
मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ॥ ७९.२६ ॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनाशीतितमोऽध्यायः ॥ ७९ ॥