०६९

भद्राश्व उवाच ।
भगवन् त्वच्छरीरे तु यद् वृत्तं द्विजसत्तम ।
चिरजीवी भवांस्तन्मे वक्तुमर्हसि सत्तम ॥ ६९.१ ॥

अगस्त्य उवाच ।
मच्छरीरमिदं राजन् बहुकौतूहलान्वितम् ।
अनेककल्पसंस्थायि वेदविद्याविशोधितम् ॥ ६९.२ ॥

अटन् महीमहं सर्वां गतवानस्मि पार्थिव ।
इलावृतं महावर्षं मेरोः पार्श्वे व्यवस्थितम् ॥ ६९.३ ॥

तत्र रम्यं सरो दृष्टं तस्य तीरे महाकुटी ।
तत्रोपवासशिथिलं दृष्टवानस्मि तापसम् ।
अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ॥ ६९.४ ॥

तं दृष्टृवाऽहं नृपश्रेष्ठ क एष नृपसत्तम ।
विश्वास्य प्रतिपत्त्यर्थं विधेयं मे नरोत्तम ॥ ६९.५ ॥

एवं चित्तयतो मह्यं स मां प्राह महामुनिः ।
स्थीयतां स्थीयतां ब्रह्मन्नातिथ्यं करवाणि ते ॥ ६९.६ ॥

एतच्छ्रुत्वा वचस्तस्य प्रविष्टोऽहं कुटीं तु ताम् ।
तावत् पश्याम्यहं विप्रं ज्वलन्तमिव तेजसा ॥ ६९.७ ॥

भूमौ स्थितं तु मां दृष्ट्वा हुङ्कारमकरोद् द्विजः ।
तद्धुङ्कारात् तु पातालं भित्त्वा पञ्च हि कन्यकाः ॥ ६९.८ ॥

निर्ययुः काञ्चनं पीठमेका तासां प्रगृह्य वै ।
सा मां प्रादात् तदाऽन्याऽदात् सलिलं करसंस्थितम् ॥ ६९.९ ॥

गृहीत्वाऽन्या तु मे पादौ क्षालितुं चोपचक्रमे ।
अन्ये द्वे व्यजने गृह्य मत्पक्षाभ्यां व्यवस्थिते ॥ ६९.१० ॥

ततो हुङ्कारमकरोत् पुनरेव महातपाः ।
तच्छब्दादन्तरं हैमद्रोणीं योजनविस्तृताम् ।
गृह्याजगाम मकरोत्प्लवं सरसि पार्थिव ॥ ६९.११ ॥

तस्यां तु कन्याः शतशो हेमकुम्भकराः शुभाः ।
आययुस्तमथो दृष्ट्वा स मुनिः प्राह मां नृप ॥ ६९.१२ ॥

स्नानार्थं कल्पितं ब्रह्मन्निदं ते सर्वमेव तु ।
द्रोणीं प्रविश्य चेमां त्वं स्नातुमर्हसि सत्तम ॥ ६९.१३ ॥

ततोऽहं तस्य वचनात् तस्यां द्रोण्यां नराधिप ।
विशामि तावत् सरसि सा द्रोणी प्रत्यमज्जत ॥ ६९.१४ ॥

द्रोण्यां जले निमग्नोऽहम् इति मत्वा नरेश्वर ।
उन्मग्नोऽहं ततो लोकमपूर्वं दृष्टवांस्ततः ॥ ६९.१५ ॥

सुहर्म्यकक्ष्यायतनं विशालं
रथ्यापथं शुद्धजनानुकीर्णम् ।
नीत्युत्तमैः सेवितमात्मविद्भि -
र्नृभिः पुराणैर्नयमार्गसंस्थैः ॥ ६९.१६ ॥

संसारचर्यापरिघाभिरुग्रं
गम्भीरपातालतलस्थमाद्यम् ।
सितैर्नृभिः पाशवराग्रहस्तैः
द्विपाश्वसङ्घैर्विविधैरुपेतम् ॥ ६९.१७ ॥

विचित्रपद्मोत्पलसंवृतानि
सरांसि नानाविहगाकुलानि ।
अम्भोजपत्रस्थितभृङ्गनादै-
रुद्गीतवन्तीव लयैरनैकैः ।
कैलासश्रृङ्गप्रतिमानि तीरे -
ष्वनेकरत्नोत्पलसञ्चितानि ।
गृहाणि धन्याध्युषितानि नीचै -
रुपासितानि द्विजदेवविप्रैः ॥ ६९.१८ ॥

कैलासश्रृङ्गप्रतिमानि तीरे -
ष्वनेकरत्नोत्पलसञ्चितानि ।
गृहाणि धन्याध्युषितानि नीचै -
रुपासितानि द्विजदेवविप्रैः ॥ ६९.१९ ॥

पद्मानि भृङ्गावनतानि चेलु -
स्तेषां पुनर्गुरुभारादजस्त्रम् ।
जलेषु येषां सुस्वरास्यो द्विजाति-
र्वेदोदितानाह विचित्रमन्त्रान् ॥ ६९.२० ॥

सिताब्जमालार्चितगात्रवन्ति
वासोत्तरीयाणि खगप्रवारैः ।
सरांस्यनेकानि तथा द्विजास्तु
पठन्ति यज्ञार्थविधिं पुराणम् ॥ ६९.२१ ॥

भ्रमन्नहं तेषु सरःस्वपश्यं
वृन्दान्यनेकानि सुराङ्गनानाम् ।
विद्याधराणां च तथैव कन्याः
स्नानाय तं देशमुपागताश्च ॥ ६९.२२ ॥

ततः कदाचिद् भ्रमता नृपोत्तम
प्रदृष्टमन्यत्सुसरः सुतोयम् ।
प्राग् दृष्टमेकं तु तथैव तीरे
कुटीं प्रपश्यामि यथा पुराऽहम् ॥ ६९.२३ ॥

यावत् कुटीं तां प्रविशामि राजन्
तपस्विनं तं स्थितमेकदेशे ।
दृष्ट्वाभिगम्याभिवदामि यावत्
स्मयन्नुवाचाप्रतिमप्रभावः ॥ ६९.२४ ॥

तापस उवाच ।
किं मां विप्र न जानीषे प्राग्दृष्टमपि सत्तम ।
येन त्वं मूढवल्लोकमिममप्यनुपश्यसि ॥ ६९.२५ ॥

दृष्टं मत्कमिदं देवैर्भुवनं यन्न दृश्यते ।
त्वत्प्रियार्थं मया लोको दर्शितः स द्विजोत्तम ॥ ६९.२६ ॥

सम्पदं पश्य लोकस्य मदीयस्य महामुने ।
दधिक्षीरवहा नद्यस्तथा सर्पिर्मयान् ह्रदान् ॥ ६९.२७ ॥

गृहाणां हेमरत्नानां स्तम्भान् हेममयान् गृहे ।
रत्नोत्पलचितां भूमिं पद्मरागसमप्रभाम् ।
पारिजातप्रसूनाढ्यां सेवितां यक्षकिन्नरैः ॥ ६९.२८ ॥

एवमुक्तस्तदा तेन तापसेन नराधिप ।
विस्मयापन्नहृदयस्तमेवाहं तु पृष्टवान् ॥ ६९.२९ ॥

भगवंस्तव लोकोऽयं सर्वलोकवरोत्तमः ।
सर्वलोका मया दृष्टा ब्रह्मशक्रादिसंस्थिताः ॥ ६९.३० ॥

अयं त्वपूर्वो लोको मे प्रतिभाति तपोधन ।
सम्पदैश्वर्यतेजोभिर्हर्म्यरत्नचयैस्तथा ॥ ६९.३१ ॥

सरोभिः सूदकैः पुण्यैर्जलजैश्च विशेषतः ।
अत्यद्भुतमिदं लोकं दृष्टवानस्मि ते मुने ॥ ६९.३२ ॥

इत्थम्भूतं कथं लोको भवांश्चेत्थं व्यवस्थितः ।
कथयस्वैतस्य हेतुं मे कश्च त्वं मुनिपुङ्गव ॥ ६९.३३ ॥

कथमिलावृते वर्षे सरस्तीरे महामुने ।
दृष्टवानस्मि सोऽहं त्वं सरस्तत् सा कुटी मुने ।
हेमहर्म्याकुले लोके किं वा स्थानं तु ते कुटिः ॥ ६९.३४ ॥

एवमुक्तः स भगवात् मयाऽसौ मुनिपुङ्गवः ।
प्राह मह्यं यथावृत्तं यत् तु राजेन्द्र तच्छृणु ॥ ६९.३५ ॥

तापस उवाच ।
अहं नारायणो देवो जलरूपी सनातनः ।
येन व्याप्तमिदं विश्वं त्रैलोक्यं सचराचरम् ॥ ६९.३६ ॥

या सा त्वाप्याकृतिस्तस्य देवस्य परमेष्ठिनः ।
सोऽहं वरुण इत्युक्तः स्वयं नारायणः परः ॥ ६९.३७ ॥

त्वया च सप्त जन्मानि अहमाराधितः पुरा ।
तेन त्रैलोक्यनाशेऽपि त्वमेकस्त्वभिलक्षितः ॥ ६९.३८ ॥

एवमुक्तस्तदा तेन निद्रामीलितलोचनः ।
पतितोऽहं धरापृष्ठे तत्क्षणात् पुनरुत्थितः ॥ ६९.३९ ॥

यावत्पश्याम्यहं राजन् तमृषिं तच्च वै पुरम् ।
तावन्मेरुगिरेर्मूर्ध्निं पश्याम्यात्मानमात्मना ॥ ६९.४० ॥

समुद्रान् सप्त पश्यामि तथैव कुलपर्वतान् ।
सप्तद्वीपवतीं पृथ्वीं दृष्टवानस्मि पार्थिव ॥ ६९.४१ ॥

अद्यापि तं लोकवरं ध्यायंस्तिष्ठामि सुव्रत ।
कदा प्राप्स्येऽथ तं लोकमिति चिन्तापरोऽभवम् ॥ ६९.४२ ॥

एवं ते कौतुकं राजन् कथितं परमेष्ठिनः ।
यद् वृत्तं मम देहे तु किमन्यच्छ्रोतुमिच्छसि ॥ ६९.४३ ॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥