भद्राश्व उवाच ।
योऽसौ परापरो देवो विष्णुः सर्वगतो मुने ।
चतुर्युगे त्वसौ कीदृग् विज्ञेयः परमेश्वरः ॥ ६८.१ ॥
युगे युगे क आचारो वर्णानां भविता मुने ।
कथं च शुद्धिर्विप्राणामन्यस्त्रीसङ्करैर्मुने ॥ ६८.२ ॥
अगस्त्य उवाच ।
कृते युगे मही देवैर्भुज्यते वेदकर्मणा ।
यजद्भिरसुरैस्त्रेतां तद्वद् देवैश्च सत्तम ॥ ६८.३ ॥
द्वापरे सत्त्वरजसी बहुले नृपसत्तम ।
यावद् धर्मसुतो राजा भविष्यति महामते ॥ ६८.४ ॥
ततस्तमः प्रभविता कलिरूपो नरेश्वर ।
तस्मिन् कलौ वर्त्तमाने स्वमार्गाच्च्यवते द्विजः ॥ ६८.५ ॥
राजानो वैश्यशूद्राश्च प्रायशो हीनजातयः ।
भविष्यन्ति नृपश्रेष्ठ सत्यशौचविवर्जिताः ॥ ६८.६ ॥
अगम्यागमनं तत्र करिष्यन्ति द्विजातयः ।
अनृतं च वदिष्यन्ति वेदमार्गबहिष्कृताः ।
विवाहांश्च करिष्यन्ति सगोत्रानसमांस्तथा ॥ ६८.७ ॥
राजानो ब्राह्मणान् हिंस्युर्वित्तलोभान्विताः शठाः ।
अन्त्यजा अपि वैश्यत्वं करिष्यन्ति पणे रताः ।
अभिमानिनो भविष्यन्ति शूद्रजातिषु गर्विताः ॥ ६८.८ ॥
सर्वाशिनो भविष्यन्ति ब्राह्मणाः शौचवर्जिताः ।
सुरा पेयमिति प्राहुः सत्यशौचविवर्जिताः ॥ ६८.९ ॥
ततो विनश्यते लोको वर्णधर्मश्च नश्यते ॥ ६८.१० ॥
भद्राश्व उवाच ।
अगम्यागमनं कृत्वा ब्राह्मणः क्षत्रियोऽपि वा ।
शूद्रोऽपि शुद्ध्यते केन किं वाऽगम्यं तु शंस मे ॥ ६८.११ ॥
अगस्त्य उवाच ।
चातुर्गामी भवेद् विप्रस् त्रिगामी क्षत्रियो भवेत् ।
द्विगामी तु भवेद् वैश्यः शूद्र एकगमः स्मृतः ॥ ६८.१२ ॥
अगम्यां ब्राह्मणीं प्राहुः क्षत्रियस्य नरेश्वर ।
क्षत्राणीं चैव वैश्यस्य वैश्यां शूद्रस्य पार्थिव ।
अधमस्योत्तमा नारी अगम्या मनुरब्रवीत् ॥ ६८.१३ ॥
माता मातृष्वसा श्वश्रूर्भातृपत्नी च पार्थिव ।
स्नुषा च दुहिता चैव मित्रपत्नी स्वगोत्रजा ॥ ६८.१४ ॥
राजजायाऽऽत्मजा चैव अगम्या मुख्यतः स्त्रियः ।
रजकादिषु चान्याश्च स्त्रियोऽगम्याः प्रकीर्तिताः ।
अगम्यागमनं चैतत् कृतं पापाय जायते ॥ ६८.१५ ॥
वियोनिगमनायाशु ब्राह्मणाय भवत्यलम् ।
शेषस्य शुद्धिरेषैव प्राणायामशतं भवेत् ॥ ६८.१६ ॥
बहुनाऽपि हि कालेन यत् पापं समुपार्जितम् ।
वर्णसङ्करसङ्गत्या ब्राह्मणेन नरर्षभ ॥ ६८.१७ ॥
दशप्रणवगायत्रीं प्राणायामशतैस्त्रिभिः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥ ६८.१८ ॥
अथवा पररूपं यो वेद ब्राह्मणपुङ्गवः ।
वेदाध्यायी पापशतैः कृतैरपि न लिप्यते ॥ ६८.१९ ॥
स्मरन् विष्णुं पठन् वेदं ददद् दानं यजन् हरिम् ।
ब्राह्मणः शुद्ध एवास्ते विरुद्धमपि तारयेत् ॥ ६८.२० ॥
एतत् ते सर्वमाख्यातं यत् पृष्टोऽहं त्वया नृप ।
मन्वादिर्भिर्विस्तरशः कथ्यते येन पार्थिव ।
समासतस्तेन मया कथितं ते नृपोत्तम ॥ ६८.२१ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रेऽष्टषष्टितमोऽध्यायः ॥ ६८ ॥