०६५

अगस्त्य उवाच ।
सार्वभौमव्रतं चान्यत् कथयामि समासतः ।
येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ॥ ६५.१ ॥

कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका ।
तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥ ६५.२ ॥

विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् ।
दिशां तु प्रार्थनां कुर्यान् मन्त्रेणानेन सुव्रतः ।
सर्वा भवन्त्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥ ६५.३ ॥

एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा ।
ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ॥ ६५.४ ॥

पूर्वं पश्चाद् यथेष्टं तु एवं संवत्सरं नृप ।
यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ॥ ६५.५ ॥

एकादश्यां तु यत्नेन नरः कुर्याद् यथाविधि ।
मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः ।
तद् व्रत धनदस्येष्टं कृतं वित्तं प्रयच्छति ॥ ६५.६ ॥

एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने ।
शुक्ले वाऽप्यथवा कृष्णे तद् व्रतं वैष्णवं महत् ॥ ६५.७ ॥

एवं चीर्ण सुघोराणि हन्ति पापानि रपार्थिव ।
त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ॥ ६५.८ ॥

शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः ।
रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः ।
माघमासादथारभ्य पूर्णं संवत्सरं नृप ॥ ६५.९ ॥

इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् ।
पितृव्रतममावास्यामिति राजन तथेरितम् ॥ ६५.१० ॥

दश पञ्च च वर्षाणि य एवं कुरुते नृप ।
तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ॥ ६५.११ ॥

अश्वमेधसहस्त्राणि राजसूयशतानि च ।
यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ॥ ६५.१२ ॥

एकमेव कृतं हन्ति व्रतं पापानि नित्यशः ।
यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज ।
स शुद्धो विरजो लोकानाप्नोति सकलं नृप ॥ ६५.१३ ॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥